________________
तिकर्त्तव्यतावाक्यासिद्धिः ] न्यायागमानुसारिणीव्याख्यासमेतम्
१७९
ग्नेहोत्रहवनकरणार्थस्य वाक्यस्य वाक्यता, कुतः ? इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेः, तत्सिद्धौ तत्सिद्धेः, तत् पुनरितिकर्त्तव्यतावाक्यम्, तदवाक्यत्वे तद्बलप्रतिष्ठाप्य कर्त्तव्यतावाक्यमप्यवाक्यम्, तत्र तावद्भृतेन जुहुयादित्येतदितिकर्त्तव्यतावाक्यमवाक्यं प्रसिद्धार्थाननुवादत्वादुन्मत्तप्रलापवत्, यथा कामोन्मत्तस्य पक्षीति दर्शनभ्रान्तेः हा प्रिये ! इत्यादि प्रलापो न वाक्यं प्रसिद्धार्थानुवादाभावात्, एवं घृतेन जुहुयादित्यस्यापि तदभावादिति कर्त्तव्यतावाक्याभावः । अननुवादत्वञ्चास्य घृतसम्प्रदानकहवनविधानविधिवाक्यस्य विध्यनुवादयोश्चान्योन्यनिराकांक्षयोरन्यतराभावात् । स्यान्मतं विधिमात्रस्य द्वारमित्यनुवादमात्रस्योद्धाट्यतामिति दृष्टत्वात्सापेक्षतेति चेन्न, तत्रापि बहिरङ्गस्थितप्रकरणादिभ्यस्तत्सिद्धेरनपेक्षैव । तस्मादिह इतिकर्त्तव्यतैव कर्त्तव्यतेति वचनात् कर्त्तव्यतावाक्यस्यैवासिद्धेर्धृतेन जुहुयादित्यस्य प्रसिद्धार्थस्यानुवादत्वाभावादवाक्यत्वम् । तदवाक्यत्वात्तद्बलप्रतिष्ठाप्याग्निहोत्र हवन कर्त्तव्यताविधिवाक्यासिद्धिः । अत आह— जुहुयादित्यस्योक्तवदेवेत्यादि, जुहुयात्, अग्निहोत्रं कुर्यात्, हवनं 10 कुर्यात्, अग्निहोत्रं हवनं कुर्यात्, प्रात्यनुबन्धप्रापितघृतादीति कर्त्तव्यतात्मककर्त्तव्यताग्निहोत्रं कुर्यात्, अग्निहोत्रमपूर्वं कुर्यादित्युक्तविकल्पेषु प्रागभिहितदोषसम्बन्धादेतैः सर्वैः प्रकारैः प्रयोगैः परीक्षायां निर्मूलार्थत्वमविषयत्वात्, अविषयत्वमपूर्वार्थत्वात्, अपूर्वार्थत्वमज्ञातार्थत्वात्, अज्ञातार्थत्वं प्रमाणान्तरेण प्रागविहितत्वादिति, तमुपसंहृत्याह - इतिकर्त्तव्यतावाक्यप्रत्ययापि न कर्त्तव्यतागतिः ।
3
वेदमभिहितं जुहुयादिति हवनमनूद्य घृतादिना तद्विधानं क्रियत इति, तद्धि न 15 प्रसिद्धम्, कथं न प्रसिद्धमग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिति चेन्न तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् तत्र तावद्भवनापूर्वकरणार्थतायां प्रधानाग्निहोत्र श्रुतित्यागाद्यापत्तिः ।
(केदमिति) केदमभिहितं जुहुयादिति यदुच्यते त्वया यज्जुहुयात्तद्धृतादिनेति हवनमनूय घृतादिना तद्विधानं क्रियते यथा घटं कुर्यादिति प्रसिद्धं घटमनूद्य तत्करणविधानम्, तत्तु न प्रसिद्धम् ।
Jain Education International 2010_04
6
कर्त्तव्यतावाक्यासिद्धिमाह-तत्र तावदिति, घृतेन जुहुया दितीति कर्त्तव्यतावाक्येन हवनानुवादेन घृतो विधेयः स च न 20 सम्भवति, हवनस्याप्रसिद्धार्थत्वात् प्रसिद्धो ह्यनूद्यते, तथा चोन्मत्तप्रलापवदेतद्वाक्यम् अप्रसिद्धार्थत्वात्, यथा हि कामान्धः पाक्षं दृष्ट्वा दर्शनभ्रान्त्या हा प्रिये ! इति प्रलपति तच्च वाक्यं न प्रसिद्धार्थानुवादकमेवमिदमपि वाक्यमिति भावः । अननुवादकत्वं कथमित्यत्राह-अननुवादत्वश्चेति । घृतसम्प्रदानकेति, घृतकरणकेत्यर्थः सम्प्रदाने तृतीयाभावात्, हवनानुवादेन घृतस्य विधानं घृतेन जुहुयादिति वाक्येनावगम्यते तत्र घृतहृवनयोर्विध्यनुवादयोः परस्परमाकांक्षाभावः न हि हवनविधायकस्याग्निहोत्रं जुहुयादिति वाक्यस्य हवनानुवादेन घृतेन जुहुयादित्यनेनाकांक्षाऽस्ति खखार्थबोधनेन निराकांक्षत्वात्, यद्वा 26 कारकाणां क्रियाणां वा नास्ति परस्परं सम्बन्धः तादात्म्याद्यसम्भवात्, न वा द्रव्यादिकारकाणां क्रियया सम्बन्धः, खरूपेण द्रव्यादीनां क्रियासम्बन्धाभावात् तथा च पदानां वाक्यानाश्च स्वस्वार्थबोधनेन निष्पन्नत्वान्न परस्पराकांक्षाऽस्ति, निराकांक्षाणाश्व कथं परस्परसम्बन्धः एकवाक्यता चेति भावः । ननु द्वारमित्युक्तौ उद्भाव्यतामित्यंशस्य उद्धाव्यतामित्युक्तौ वा द्वारमित्यंशस्यापेक्षणीयताया लोके दर्शनात्कथं विध्यनुवादयोर्निराकांक्षतेत्याशङ्कते - स्यान्मतमिति । द्वारमित्युक्तौ प्रकरणादित एवोद्घाटनाथर्थप्रतीतेर्न तद्वाचकपदाकांक्षेत्युत्तरयति - तत्रापीति । घृतेन जुहुयादिति वाक्यं नाग्निहोत्रं जुहुयादिति वाक्यविहितहवनानुवा - 30 दकम् इतिकर्तव्यताया एव कर्तव्यतात्वेन हवन विधायकवाक्यासिद्धेरतो न हवनस्य प्रसिद्धार्थता यदनूद्य घृतविधानं स्यादि • त्याह-तस्मादिति । तदवाक्यत्वादिति, घृतेन जुहुयादित्यस्यावाक्यत्वात्तद्बलेन प्रतिष्ठाप्यमग्निहोत्रं जुहुयादित्यपि वाक्यं न वाक्यम्, इतिकर्त्तव्यतावाक्या सिद्धेरित्यर्थः । अग्निहोत्रवाक्ये हवनस्य विहितत्वेन प्रसिद्धत्वादिहानुवदनं सम्भवतीत्याशङ्कते -
For Private & Personal Use Only
www.jainelibrary.org