________________
૭૮ द्वादशारनयचक्रम्
[विधिवियर प्रहमकृत्वा कारणं कार्यमुभयमनुभयं वाऽभ्युपगम्यते, अस्मिन्नग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्ये यत्कारणमात्रकार्यप्रदर्शनमनु यात्वा परित्यक्तमिह विधिनये सदपि तन्निर्मूलापविद्धक्रियावाक्यप्रबन्ध-निर्मूलमपविद्धः क्रियाप्रबन्धो वाक्यप्रबन्धश्च यस्मिंस्तदिदं निर्मूलापविद्धक्रियावाक्यप्रबन्धं तस्मात्
कारणमात्रकार्यदर्शनस्य तदोषपरिहारार्थमिष्टमतो विवक्ष्यतेऽनवधारितैकान्तदर्शनत्वात् , कारणमात्रत्वं प्रत्यक्त्वा यत्कार्यासत्त्वं तदेवाग्निहोत्रं जुहुयादिति वाक्ये कारणमात्रकार्यदर्शनमेव सदसत्कार्यमिति
विवक्ष्यतेऽभ्युपगम्यते च, किं कारणं ? अलब्धवृत्तित्वात्-अलब्धा वृत्तिरनेनेत्यलब्धवृत्ति कार्य तस्मादलब्धवृत्तित्वात् खपुष्पवत् , यथा खपुष्पमलब्धवृत्तित्वादसत्तथा कार्य स्वर्गापूर्वाद्यलब्धवृत्तित्वादसत् । लब्धवृत्ति चेत् कुर्याज्जुहुयादिति न चोद्येत, सिद्धौदनार्थ पचेदित्यचोदनवत् , अतोऽसत्कार्यमागृह्य स्वर्गादिप्राप्त्यर्थं क्रियाऽऽश्रीयतेऽग्निहोत्रं कुर्यादिति । तद्विविधम्-तच्च कार्य द्विविधमनितिकर्तव्यतात्मक10 मितिकर्तव्यतात्मकञ्च, तत्रानितिकर्तव्यतात्मकञ्च कार्य घटादि यूपादि च लोके वेदे च दृष्टम् , मृदानयनमर्दनदण्डग्रहणचक्रभ्रमणादीतिकर्तव्यतात्मकं घटाख्यं न भवति तदुपरमेऽपि पृथगुपलब्धेः, तथाष्टास्रकरणादीतिकर्तव्यात्मको न भवति यूपः । इतिकर्तव्यतात्मकं पुनः कार्य प्राप्तिसंवादि, प्राप्त्या संवादितुं शीलमस्येति प्राप्तिसंवादि, यथा सेवादि, उपस्थानाञ्जलिकरणादिरूपैव सेवा ताभ्यः पृथगनुपलब्धेः । तत्कार्य न कारणमात्रं-नेतिकर्तव्यतात्मकं घटादियूपादिवत् । घटं कुर्यादिति प्रतिपादितादसत्कार्य1B वादात् कुर्याच्छब्दप्रतिपादितमग्निहोत्रं कुर्यादित्यत्र कुर्याच्छब्देन प्रतिपादितं घटं कुर्यादिति प्रतिपादित
घटासत्कार्यार्थवाक्यवदिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् , किं कारणं ? आदौ मध्येऽन्ते च कर्त्तव्यताभ्युपगमात् । अतोऽसत्कार्यवादस्योपक्रमप्रभृत्यपवर्गपर्यवसानेषु क्रियाविशेषेष्वभ्युपगतत्वाद्यदुच्यते त्वया दोषजातं तत् त्वद्वचनात् प्राप्तिप्रापितेतिकर्तव्यतैव कर्त्तव्यतेति वचनछलात् कारणमात्रकार्यत्वापत्तिस्ततो विध्यनुपपत्तिरित्यादिदोषजातं सर्व नास्तीति । 20 एतदपि नोपपद्यते विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् । अभ्युपेत्यापि नैवास्य वाक्यता इतिकर्तव्यतावाक्यासिद्धौ तदसिद्धेः, तदवाक्यत्वे तद्बलप्रतिष्ठाप्यकर्तव्यतावाक्यमप्यवाक्यम्, जुहुयादित्यस्योक्तवदेवेतिकर्तव्यतावाक्यप्रत्ययापि न कर्तन्यतागतिः।
(एतदपि नोपपद्यत इति) विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् , 25 अभ्युपेत्यापि-असत्कार्यवादोक्तावपि नैवास्य वाक्यता-प्राप्त्यनुबन्धप्रापितेतिकर्तव्यताकर्त्तव्यत्वार्थस्या
घटं कुर्यादिति । आदाविति, उपक्रमप्रभृत्यपवर्गपर्यन्तक्रियाविशेषेषु कर्तव्यताऽभ्युपगमादित्यर्थः । तत्कार्यमिति, अमिहवनक्रियालक्षणं कार्य नेतिकर्तव्यतामात्रमित्यर्थस्यासत्कार्यवादत्वमुक्तम् । अथामिहोत्रं कुर्यादिति वाक्यस्य घटं कुर्यादिति घटासत्कार्यार्थवाक्यवदसत्कार्यार्थत्वमादर्शयति-घटं कुर्यादिति । वचनछलादिति, अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् , प्राप्तिप्रापितेतिकर्तव्यतैव कर्त्तव्यतेति त्वदीयमेव वचनम् , नास्माकमत एतद्वाक्यमवलम्ब्य 30 प्रदर्शिता दोषा नास्माकं सम्भवन्तीति भावः । विधिविधीति. अग्रे विधिविधिनयदर्शने कारणमात्रत्वमुपपादयिष्यतेऽतो न
कार्यवाद उपपद्यत इति भावः। प्राप्त्यनुबन्धेति, अग्निहोत्रहवनकरणप्रतिपादकं वाक्यमितिकर्तव्यतात्मककर्त्तव्यताप्रतिपादकम् , ताश्चेतिकर्तव्यता वाक्यान्तरप्रापिताः। अनुपरताकांक्षाणामितिकर्तव्यतानां परस्परमनुबन्धः सम्बन्ध एव कर्तव्यता तथा चेतिकर्तव्यताप्रसिद्धः कर्तव्यताप्रसिद्धिर्भवेत् न तु तथा सम्भवति, इतिकर्तव्यतावाक्यस्यैवासिद्धेरिति भावः । इति
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org