SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पाक्छलत्वप्रसङ्गः] न्यायागमानुसारिणीव्याख्यासमैतम् ब्दयोरेकार्थत्वादन्यतरप्रयोगो वृथा साधुत्वासाधुत्वाभिमतयोः असाधुत्वाभिमतस्य गोशब्दमात्रस्य बागादिसानादिमदर्थे युगपत् प्रयुक्त चैकार्थत्वादर्थभेददोषपरिकल्पनापरिश्लथतेति वर्तते । तस्मात् पदवाक्यशब्दयोः साधुत्वासाधुत्वाविशेषाच्छिष्टेतरलोकव्यवहाराविशेषः । एवं ते जुहुयादुक्तेः पौनरु. त्यस्ववचनविरोधौ स्वशब्दोक्तासत्कार्यवादत्यागः कारणात्मकसत्कार्यवादाभ्युपगमश्चेत्यप्रतिपूर्णतर्कता सदोषत्वादित्युक्तम् । यद्यप्येतत्त्वयाऽभ्युपगतं कारणात्मकं सत् कार्यमिति तदप्यसमीक्ष्याबुद्धिपूर्वकमेवोक्तमित्यतस्तदर्शनार्थमाह इदञ्चाज्ञातमपि सत्त्वया तत्त्वमेवैवं विवेत्तारं प्रति प्रदर्शितं घुणाक्षरवत् । (इदश्चेति) यथा घुणः काष्ठमुत्किरन्नक्षराकारामपि रेखामुत्किरति यदृच्छया तथा त्वयेदं .. तत्त्वमेवैवं कारणात्मकसत्कार्यत्वं प्रदर्शितमितिकर्तव्यतैव कर्तव्यतेति ब्रुवता । तत्पुनर्विवेत्तारं प्रति प्रद- 10 र्शितं-इत्थमसत्कार्य भवति, इत्थं सत्कार्यमिति यो वाच्यवाचकसाधनस्वरूपविधिविज्ञस्तं प्रत्येव दर्शितं नात्मतुल्यबुद्धीन प्रति दर्शयन्नपि स्वयं तद्विवेकं नैवेच्छति ।। ___ अथोच्येत कारणमात्रकार्यदर्शनमिह सदपि निर्मूलापविद्धक्रियावाक्यप्रबन्धं कार्यासत्त्वमेवात्र विवक्ष्यते, अलब्धवृत्तित्वात्, खपुष्पवत्, अतोऽसत्कार्यमागृह्य स्वर्गादिप्राप्त्यर्थ क्रियाऽऽश्रीयतेऽग्निहोत्रं कुर्यादिति । तद्विविधमनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकञ्च तत्रा- 15 नितिकर्तव्यतात्मकं च कार्य घटादि यूपादि लोके वेदे च दृष्टमितिकर्तव्यतात्मकं न भवति तदुपरमेऽपि पृथगुपलब्धेः, इतिकर्तव्यतात्मकन्तु प्राप्तिसंवादि यथा सेवादि, तत्कार्य न कारणमात्रं घटादियूपादिवत् । घटं कुर्यादिति प्रतिपादितासत्कार्यार्थवाक्यवत् कुर्याच्छन्दप्रतिपादितमिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् , आदौ मध्येऽन्ते च कर्त्तव्यताभ्युपगमात् । अतोऽसत्कार्यवादस्यैवाभ्युपगतत्वाद्यदुच्यते त्वया दोषजातं तत् त्वद्वचनच्छलादिति। 30 __ अथोच्येत कारणमात्रकार्यदर्शनमिहेत्यादि यावद्वचनछलादिति । अथ त्वयैवमुच्येत न मया कारणमात्रकार्यदर्शनैकान्तोऽभ्युपगम्यते यतस्त्वयैते दोषा मां प्रत्यापाद्यन्ते, किं तर्हि ? मयाऽभ्युपगम्यते न कारणमेव न कार्यमेव नोभयमेव न वाऽनुभयमेवेत्यविचार्य वस्तुतत्त्वैकान्तपरि-' त्यागः तिरस्कारो वा । अथार्थभेददोषपरिकल्पनापि नास्तीत्याह-यथेति, अर्थभेदाभावादेव गोशब्दस्यैकदा वागादिसानादिमर्थे प्रयुक्तस्यासाधुत्वादर्थमेददोषो न सम्भवति, अर्थद्वयस्याभावेनार्थमेददोषप्रसक्त्यभावात् , सति ह्यर्थद्वये तद्वाचकत्वेन सकृदेकस्य 25 पदस्य प्रयोगे एकस्यैकदाऽर्थद्वयाभिधानशक्त्यभावादर्थभेददोषपरिकल्पना भवेन चैवं तस्मादर्थभेददोषप्रसङ्गेन पदस्थासाधुता न सम्भवतीति भावः। निगमयति-तस्मादिति । विवेक्तारं प्रति प्रदर्शितमिति, तथा घुणः खयमजाननेव यदृच्छयाऽक्षराकारमुत्किरति तथा भवानपि इतिकर्तव्यतैव कर्तव्यतेति वदन् कारणात्मकसत्कार्यतां प्रदर्शयति तदपि प्रदर्शनं विवेक्तार त्येव नान्यं प्रति तथा प्रदर्शयन्नपि तद्विवेकं त्वं नैवेच्छसीति भावः। अथोच्येतेति, कारणमात्रकार्यदर्शनमपि स्वीक्रियते, निर्मूलापविद्धक्रियावाक्यप्रबन्धमपि असत्कार्यवादमपि खीक्रियते एकान्तपक्षेऽस्माकमाग्रहाभावादिति भावः । कारणमेव कार्य-80. मिति सत्कार्यवादममिहोत्रवाक्ये त्यक्त्वा कारणे कार्यासत्त्वं कुत आश्रीयत इत्यत्राह-अलब्धवृत्तित्वादिति, यदलब्धवृत्ति तदसत्, यथा वपुष्पमलब्धवृत्ति च क्रियादिकार्य कारणेऽतस्तदसत् कारणे इति भावः। कुत्र कारणात्मकं कार्य कुत्र च कारणेसत्कार्यमिति विवेचयतितद्विविधमिति । अग्निहोत्रं जहयादिति बाक्यं घटं कुर्यादिति वाक्यवदसत्कार्यप्रतिपादकमिलाह द्वा० न० २३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy