SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [विधिविध्यरे वैलक्षण्यमिष्यते, अर्थादापन्नं न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् । निवृत्तघटवत् , असत्त्वे आयत्यां न प्रादुर्भवेत् कार्य खपुष्पवत् , शेषं पूर्ववदेव विपर्ययेण योज्यम्। . अथैवमपीत्यादि, अथ ते प्रादुर्भावाप्रादुर्भाववैलक्षण्ये सत्यपि कार्यखपुष्पयोरसदेव खपुष्पमित्ययं निश्चयोऽसद्वैलक्षण्याद्धटवत्सद्भवत्वित्यस्मान्यायान्निवय॑मानोऽपि न निवर्त्तते, अप्रादुर्भावाॐ त्मकञ्च तत् खपुष्पमित्येतच्च वैलक्षण्य मिष्यत एव, प्रादुःप्राकाश्ये जन्मनि च तथाऽऽविः, प्रादुर्भवति-प्रकाशं भवति-गृह्यते ज्ञायते उत्पद्यते जायत इति वा, तेष्वाविर्भवतीति । एवञ्चाप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वेऽर्थादापन्नं न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् , सदेवेत्यर्थः । को दृष्टान्तः ? निर्वृत्तघटवत्, यथा निर्वृत्तो घटः प्रादुर्भावात्मकत्वात् प्रकाशात्मकत्वात्सन्नेव तथा कार्यमपि सत् । अस्याश्चार्थापत्तेरैकान्तिकत्वान्न जात्युत्तरता, यथा गेहे देवदत्तस्याभावे स्थितिमतो हि भावानुमानमर्था10 पन्नमैकान्तिकत्वान्न जातिवादः । अस्माकन्त्वत्राभिप्रायः सदेव कदाचिदुपलभ्यते जायते वा नात्यन्तासदिति 'दर्शनादर्शने च सद्विषये' इत्युत्तरत्र दर्शयिष्यामः, विचारस्यास्य तत्फलत्वात् । अथैवमपि त्वया कार्यस्य सत्त्वं नेष्यते, ततः-असत्त्वे कार्यस्य आयत्यां न प्रादुर्भवेत् कार्यम् , असत्त्वात् खपुष्पवत्, प्रादुर्भवति तु, तस्मात्सत् । शेषं पूर्ववदेव, अतीतग्रन्थमतिदिशति-विपर्ययेणेति, अर्थतः शब्दतस्तहयोर्विपर्ययेण योज्यः, तद्यथा-अथ न खपुष्पाप्रादुर्भाववत् कार्याप्रादुर्भावोऽसच्च कार्यमिति 15 निश्चितं न तीसत्कार्य सदेव तत् , असद्विलक्षणत्वात् , घटवत् , इतर उदुम्बरपुष्पवत् , ननु घटासत्त्वं पटासत्त्वविलक्षणम् , न, सतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्चयो न निवर्तते प्रादुर्भावात्मकञ्च तत्, न तर्हि प्रादुर्भावात्मकत्वादसत् कार्य निर्वृत्तघटवदसत्त्वादायत्यां न प्रादुर्भवेत्, असत्त्वात् खपुष्पवदिति । तदुपसंहारार्थमाह20. - अतः कार्य सत्, आविर्भावात्मकत्वात् , निवृत्तघटवत् , वैधयेणाकाशघटवत् । एतदेवाह-अथ त इति । खपुष्पं सत् असद्वैलक्षण्यात् , घटवदित्यनुमानेन निवर्त्यमानोऽपि यद्यसत् खपुष्पमिति निश्चयो न निवर्तते तर्हि कार्य सद्भवेत् प्रादुर्भावात्मकत्वात् , निवृत्तघटवदिति प्राप्तमित्यर्थः। प्रादरिति. प्रादुः आविश्च प्रकाशविषये जन्मनि च वर्त्तते तथा च प्रादुर्भावात्मकत्वञ्च प्रकाशात्मकत्वम्, निवृत्तो घटः उत्पन्नो घटः तत्रोभयवादिनोः साध्यसाधनस द्भावे न विवाद इति दर्शयितुमेव निवृत्तेति विशेषणम् , प्रकाशात्मकत्वलक्षणं प्रादुर्भावात्मकत्वं कार्येऽसति ध्येयम् । 25 एवञ्चेति, अप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वं प्रादुर्भावात्मकस्य सत्त्वं विनाऽनुपपन्नं यथा जीवतो देवदत्तस्य गृहासत्त्वं तस्य बहिः सत्त्वं विना नोपपन्नं सद्बहिः सत्त्वं कल्पति तथाऽप्रादुर्भावात्मनः खपुष्पस्यासत्त्वं कार्यस्य प्रादुर्भावात्मनः सत्त्वं गमयतीति भावः। नन्वप्रादुभावात्मकत्वात् खपुष्पस्यासत्त्वेऽर्थपत्त्या प्रादुर्भावात्मकस्य कार्यस्य यत्सत्त्वमापाद्यते सोऽयमापत्तितः क्रियमाणा प्रतिपक्षसिद्धिरापत्तिसम इत्येवंरूपो जातिभेदः स्यात् , अर्थपत्तितः प्रतिपक्षसिद्धरापत्तिसम इति तल्लक्षणादित्याश कायामाह-अस्याश्वार्थापत्तरिति, यत्रार्थापत्तिरनैकान्तिकी तत्रैवेयं जात्युत्तरता भवति, न खलु घनस्य पाषाणस्य पतनमि30 त्युक्तेऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति, प्रकृते चार्थापत्तेरनैकान्तिकत्वाभावान्न जात्युत्तरत्वमिति भावः । एवं प्रमाणसिद्धं • कार्यस्य सत्त्वं नेष्यते तर्हि न तस्याऽऽयत्यां प्रादुर्भावः स्यात् खपुष्पवदित्याह-अथैवमपीति । शब्दार्थाभ्यां पूर्वग्रन्थविपरी. तताविधानप्रकारमाह-तद्यथेति, गतार्थः । पूर्वमथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इत्युक्तं तस्य वेपरीत्यमत्र दर्शितम् तथा न तयसत् खपुष्पं सदेव तत् , असद्विलक्षणत्वात् घटवत् इतर उदुम्बरवदित्युक्तमत्र तु कार्य पक्षीकृतमिति वैपरीत्यमित्येवं भाव्यम् , कार्येऽसत्त्वसाधनस्येष्टेः । एतावता वादेन सिद्धमर्थ नियमयति-अतः कार्य सदिति । यदसत् तदनाविर्भावात्मक35 मित्यत्रासद्भूतं दधान्तमाह-वैधयेणेति। आकाशलक्षण-आकाशसम्बन्धी आकाशाधिकरणको वा घटोऽसन् , अनाविर्भावात्मक Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy