________________
विशेषे दोषः] न्यायागमानुसारिणीव्याख्यासमेतम्
१९५ असञ्च खपुष्पमनाविर्भावात्मकत्वादाकाशघटवत् , वैधये॒ण निवृत्तघटवदिति । यदि कार्यखपुष्पयोरसत्त्वं तुल्यं विशेषो वक्तव्यो नो चेदविशेषाद्वैलक्षण्यानुपपत्तिः, घटघटस्वात्मवत् । विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात्सत्त्वं घटवदिति भावाभावयोः सामान्यमेव न विशेष इति ।
. (अत इति) आकाशमेवाऽऽकाशस्याऽऽकाशे वा घट आकाशघटः, स त्वनाविर्भावात्मकत्वा-6 नास्ति, न तथा कार्यमनाविर्भावात्मकं तस्मात्तत्सदिति । असञ्च खपुष्पमनाविर्भावात्मकत्वादाकाशघटवत , वैधय॒ण निवृत्तघटवदिति तयोः सदसतोः कार्यखपुष्पयो(लक्षण्यं दर्शयति । यदि भवन्मतेन कार्यखपुष्पयोरसत्त्वमेव तुल्यं, तुल्ये चासत्त्वे विशेषो वक्तव्यः, अस्माद्विशेषहेतोः कार्यमसत्त्वे सत्यपि प्रादुर्भवति न तु खपुष्पमिति, नोच्यते चेद्विशेषहेतुरविशेषोऽनयोः, अविशेषे च वैलक्षण्यानुपपत्तिः खपुष्पखरविषाणयोरिवासतोः । दृष्टश्च वैलक्षण्यमायत्यां प्रादुर्भवनम् , तत्त्वविशेषे तयोर्नो-10 पपद्यते, तस्माद्धेतोरविशेषाद्वैलक्षण्यानुपपत्तिः घटघटस्वात्मवत्-यथा घट एव घटस्वात्मेति तयोर्न वैलक्षण्यमविशिष्टत्वादेवमविशेषः स्यात् , न तु भवति, दृष्टत्वाद्युक्तत्वाच्चाविर्भावानाविर्भावयोः, तस्मात्तयोर्यथासंख्यं सत्त्वमसत्त्वञ्चावश्यमेषितव्यम् । इतर आह-नैवात्यविशेषोऽसतोऽपि, यस्माश्चतुर्विधोऽसन्निष्यते प्राक्प्रध्वंसेतरेतरात्यन्ताभावाख्यः, घटस्य मृत्पिण्डादिकपालादिपटादिखरविषाणादिवदिति, अत्रोच्यते विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात् सत्त्वं घटवदिति, अपिशब्दोऽनभ्युप-15 गमं दर्शयति, नैवाभावस्य खरविषाणवन्ध्यासुतादेः परस्परतो विशेषोऽस्ति, अवस्तुत्वात् त्वन्मतेनैव । अस्मन्मतेन तु वस्तुत्वमभावस्यापि कस्यचित् प्रमेयत्वसामान्य विशेषत्वादिहेतुभ्यस्त्वदभ्युपगतेभ्यः,
श्वेत्यर्थः । तथैव खपुष्पमप्यसदिति निगमयति-असञ्चेति, तदेवं कार्यखपुष्पयो_लक्षण्यं कार्यस्य सत्त्वेऽङ्गीकृते एव निर्वहति नान्यथेति भावः । तथापि कार्यस्यासत्त्वे कार्यखपुष्पयोर्वेलक्षण्ये कश्चन विशेषो वाच्यः, इतरथा घटखात्मवत् वैलक्षण्यानुपपत्तिः, खपुष्पे यदि कश्चिद्विशेष उच्यते तर्हि विशेषाश्रयस्य भावत्वनियमात् खपुष्पमपि सदेव भवेत् , एवञ्च भावाभावयोः सत्त्वं 20 सामान्यधर्म एव भवेन तु विशेषधर्म इत्याह-यदीति । नन्वसदविशिष्टत्वं नास्ति, असतः प्रागभावध्वंसेतरेतराभावात्यन्तभावलक्षणविशेषसद्भावात् घटस्य प्रागभावो हि मृत्पिण्डादिः, घटस्य प्रध्वंसः कपालादिः घटस्येतराभावः पटादिः, घटस्यात्यन्ताभावः खरविषाणादिरिति खपुष्पमत्यन्ताभावलक्षणमसत् , कायलक्षणमसच्च प्रागभावादिरूपमिति विशेषोऽस्तीत्याशक्य समाधत्ते-इतर आहेति, प्राभाकरमते हि सर्व वस्तु सदसदात्मना द्विविधम् , तद्यदा यत्र सद्रूपेण वर्तते घटादि तत्तदा तत्र प्रत्यक्षादिभिरस्तीति प्रतीयते, यत्र त्वसद्रूपेण वर्तते तत्र सद्रूपेण बोधकानां प्रत्यक्षादीनां सद्रूपबोधनायोत्पत्तुं योग्यत्वे सत्यपि योऽनुत्पादो 25 दृश्यादर्शनयोग्यानुपलम्भादिपर्यायः प्रमाणाभावशब्दवाच्यस्तेनैव नास्तीति प्रतीयते भूतलेऽत्र घटो नास्तीति तच्च नास्तितारूपमभा वाख्यं चतुर्विधम् , तदुक्तं 'क्षीरे द न्यादि यन्नास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योऽन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यनार्जिताः । शशे शृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते' इति तच्च नास्तित्वं भूप्रदेशाद्यतिरिक्तस्मयमाणघटाद्यवच्छिन्नभूप्रदेशाद्यधिकरणं नमर्थरूपं प्रमेयमित्याहुः । अनभ्यपगममिति, असति विशेषो न भ्युपगम्यत इति भावः । तमेवाह-नैवाभावस्येति । भूतलप्रतीसिव्यतिरेकेण घटो नास्ती-30 त्येवंविधा प्रतीतिरेव नास्तीत्येवं यो वदति तन्मतेनाभावस्यावस्तुत्वान्न विशेषः सम्भवतीत्याह-वन्मतेनैवेति । अभावोऽपि वस्तु, प्रमेयत्वात् सामान्यविशेषवत्त्वात् प्रमाणवदिति त्वदभ्युपगतहेतुभ्य एवाभावस्य वस्तुत्वं सिख्यतीत्याह-अस्सन्मतेन त्विति । प्रागभावादिरूपेण विशेषोऽभावात्मना सामान्यमिति सामान्यविशेषरूपताऽभावस्य । तथा चाधिकरणात्मकाभाववादिमतेऽभावस्थावस्तुत्वान विशेषो युज्यते, यदि स्याद्विशेषस्तर्हि विशेषाश्रयस्य भावत्वादभावोऽपि भावादविशेष एव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org