________________
[ विधिविध्यरे
१९६
द्वादशारनयचक्रम्
टवत्,
प्रमाणवत, अतस्त्वन्मतेनैवाभावस्य भावाद्विशेषः परमार्थतो नास्ति । अभ्युपेत्यापि ब्रूमो विशेषोन्नयनेऽपि तु येनकेनचित्प्रकारेण सदाश्रयो भावः त्वत्परिकल्पितश्चतुर्विधोऽपि, विशेत्वात, रूपादिवद्ध। ततश्च विशेषस्य सदाश्रयत्वात् सत्त्वं घटवत् यथा घटः सन्तं पृथिव्याद्यर्थमाश्रित्य वर्त्त - मानः सन्नेव, स्वयमेव वाऽऽत्मानमाश्रित्य वृत्तेः सन्नेवं विशेषोऽपि सदाश्रयत्वात्सन्निति । इतिशब्दो B हेतुदृष्टान्तदान्तिकोपसंहारे । इत्थं भावाभावयोः सामान्यमेव न विशेष इति, एवं तावत्कार्य खपुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितम् ।
द्वितीय विकल्पो विचार्यते—
अथैवं तत्साम्यमनिच्छतः कार्यसत्त्वपरिहारेणायातमिदमन्यतरासत्त्वं कार्यमेवासदिति, कार्यशब्दसमीपे एवकारप्रयोगादसत्त्वं कार्य एव नान्यत्रापीति, ततश्च न खपुष्पमसदिति 10 प्रसक्तम् ।
अथैवं तत्साम्यमित्यादि, अथैतदापादितं साम्यमनिच्छतः कार्यसत्त्वपरिहारेणोभयासरत्वानभ्युपगमादायातमिदमन्यतरासत्वं कार्यसत्त्वपरिहारेणाभ्युपगम्यते प्रतिपक्षवादादन्यत् पूर्वोक्तद्वयान्यतर विशिष्टम्, किन्तत् ? कार्य मे वासदिति, अवश्यं द्वयोरन्यतराभ्युपगमेऽवधारणमापद्यते, तञ्चावधारणं 'यत एवकारस्ततोऽन्यत्रावधारण' मिति परिभाषितत्वाच्छास्त्रेषु लोके च दृष्टत्वादवधारणफलत्वाश्च 15 वाक्यस्य एतदुपपद्यते कार्यसमीप एवकार इति कार्यमेवासदिति, कार्यशब्दसमीपे एवकारप्रयोगादिति - शब्दस्य हेत्वर्थत्वादन्यत्र प्रतियोगिनि -सत्वे नियमः, सच्छब्दवाच्येऽर्थे खपुष्पादावनियमस्तत्रैवकाराभाषात्, न कार्यशब्दार्थे, यथा वृक्षश्चत इत्यत्र चूतो नियमाद्वृक्षो वृक्षस्तु चूतोऽन्यो वा स्यादित्यनियमः तथेहापि कार्यमेवासत् न तु खपुष्पाद्यकार्यमसत्, किं तर्हि ? सत्, तच्चासदेव कार्यमिति नियम्यते । यदि सदस्यकार्यं स्यात्, अस्तु को दोष इति तद्दर्शयति-असत्त्वं कार्य एव नान्यत्रापी - 20 त्यकार्ये खपुष्पादाविति, इतिशब्दो हेत्वर्थेऽस्मादवधारणाद्धेतोरित्यर्थः, एवं सति को दोष इति चेदुच्यते - ततश्च न खपुष्पमसदिति प्रसक्तम्, दृष्टेष्टविरुद्धं सत्त्वं खपुष्पस्येत्यर्थः ।
स्यादिति भावः । मेदलक्षणविशेषपक्षे दोषमुक्त्वा प्रकारान्तरेण दोषमाह - अभ्युपेत्यापि ब्रूम इति, चतुर्विधभेदलक्षणविशेषमभ्युपेत्यापीत्यर्थः । सोऽयमभावः सप्रतियोगिको साधिकरणो वाऽवश्यं स्वीकार्यः, निष्प्रतियोगि कनिरधिकरणका भावाप्रसिद्धेः, तथा च भावाश्रयतया, घटाद्याश्रितरूपादेरिव सदाश्रिताभावस्यापि भावत्वं प्राप्तमित्यभावः सन् यथा वा घटादयः 25 स्वात्मानमाश्रित्य वर्तमानाः सन्तस्तथाऽभावोऽपि खात्मना वर्त्तमानः सन्नेव स्यादिति भावादविशेषः स्यात् स तु नेष्ट इति न विशेषोऽभावस्येति कार्यखपुष्पयोरसत्त्वं तुल्यमेवेति विकल्पचतुष्टये प्रथम विकल्पो विचारित इति भावः । ननु कार्य खपुष्पयोरसत्वमनिच्छतो विकल्पचतुष्टये कार्यसत्वविषयचरम विकल्पद्वयभिन्नोऽन्यतरा सत्त्वविकल्पः खपुष्पं सत् कार्यमसदित्येवंरूप एवार्थादापद्यत इत्याह- अथैतदापादितमिति । कार्यसत्त्वपरिहारेणेति, खपुष्पमसत् कार्यं सदिति खपुष्पं सत् कार्यं सदिति च विकल्पं सत्कार्यवादप्रतिपक्षभूतं परिहृत्येत्यर्थः । कार्यासत्त्वखपुष्पात्सत्त्वयोरन्यतर स्वीकारेऽवधारणलाभात् कार्य - 30 मेवासदिति नियमस्य लाभ इत्याह- अवश्यमिति । कस्यावधारणं भवतीत्यत्राह यत एवकार इति, अस्यासद्विकल्पत्वात् कार्यपदादेवकारयोजनया कार्यादन्यत्रासत्वसम्भवं व्यावर्त्तयत्येवकारोऽसत् नियमात् कार्यमितीति भावः । खपुष्पे त्वेवशब्दालाभान्न तस्यैवकारार्थ इत्याह- सच्छन्दवाच्य इति । दृष्टान्तमाह-यथा वृक्ष इति, वृक्ष एव चूत इत्युक्तौ वृक्षादन्यत्र लतादौ चूतसम्भवमुदस्यत्येवकार इति भावः । एवञ्च कार्यमेवासदिति कार्येऽसत्वनियमादकार्यस्य खपुष्पादेः सत्त्वमेवेति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org