________________
खवचनादिविरोधः] न्यायागमानुसारिणीव्याख्यासमेतम्
१९७ तथा च खरविषाणविपरीतनिवृत्तघटादीनामसत्त्वतुल्यं कार्यासत्त्वमिति नाममात्रेऽविसंवादोऽग्नेमङ्गलनामवत्।
तथा चेत्यादि यावन्नाममात्रेऽविसंवादः । एवञ्च कृत्वा कार्यमसत् खरविषाणं सदिति सङ्गत्या सतोऽसदिति असतश्च सदिति संज्ञा क्रियते कार्यासत्त्वमिति, ततः खरविषाणविपरीता ये निर्वृत्ता घटादयस्तेषां घटादीनामसत्त्वेन तुल्यं कार्यस्यासत्त्वं सतामेवासत्त्वेन तुल्यं विपरीतं नाममात्रमनेर्म-5 गलनामवत् , न वा च कश्चिदर्थस्य सत्त्वे विसंवादोऽसत्कार्यमिति ।
__ कार्यसत्त्वनिवृत्त्यवधारणत्यागाच स्ववचनादिविरोधापत्तिः ।
(कार्येति) कार्यसत्त्वनिवृत्तिः-कार्यासत्त्वं, तदवधारणमेकान्तः कार्यमेवासदिति, तस्य त्यागोऽनन्तरोक्तविधिना प्राप्तः, ततश्च-कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिः, स्ववचनविरोधस्तावत् तदेव कार्यमसदित्युक्त्वा तस्यैव कारणसामर्थ्यात् सत्त्वापादनात् तदेव सत्तदेवा- 10 सदिति ब्रुवतः । अथवा यदि कार्य प्रथममसदथासत कथं कार्य क्रियते ?, घटो घटतया व्यज्यते दीप्तमेव क्रियत इति वक्ष्यति । तथाऽभ्युपगमादभ्युपगमविरोधः, तथा लोकेऽप्रसिद्धत्वाल्लोकविरोधः, तत्त्व एव तथाभूतेरनुमानविरोधः, तथा मृत्पिण्डघटादिकारणकार्यदर्शनात् प्रत्यक्षविरोधः, एवं तावत् कार्यमेव सन्न खपुष्पादीत्यवधारणे दोषः कार्यमेवासन्न कारणमित्यस्यावधारणस्य प्रतिपक्षवादापत्तेः । अथ कार्यमसदेवेत्येवकारादसदनवधृतेः पूर्वो दोषः।
15 (अथेति) अथैवमवधार्यते कार्यमसदेवेति तत्रापि यत एवकारस्ततोऽन्यत्रावधारणमित्यसत्समीप एवकारात् कार्यमसत्त्वेनावधार्यते कार्य नियमादसत् , असत्तु कार्य वा स्यात् खपुष्पादि वा, इत्येवमसदेवकारात्त्वसदनवधृतेः पूर्वो दोषो-योऽसत्त्वाविशेषादित्यादिः स एव कार्यखपुष्पयोरसत्त्वे आयत्यामाविर्भावानाविर्भावकृतो विशेषो न स्यादित्यविशेषापत्तिदोषः प्रागुक्तः स एवात्रापि ।
अथोच्यते त्वयाऽसत्त्वादेव तयोः कारणकाले विशेषासम्भवः, उभयेषामवस्तुत्वान्नि-20 रुपाख्यत्वाच्च यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति नावधारणकृतो दोषः, नापि
खपुष्पं नासदिति दृष्टेष्टविरुद्धं प्रसक्तमिति दर्शयति-यदीति । खपुष्पस्य सत्त्वे कार्यस्यासत्त्वे च दोषमाह-तथा चेति यथाऽमालेऽम्यादी खेच्छया क्रियमाणे मङ्गलनामनि न कस्यापि विसंवादस्तथा खपुष्पविपरीतनिवृत्तघटादावसद्विपरीते कार्यासस्वमित्यभिधानविधाने सुधियां न विरोधः तस्य सत्त्वव्याघातकत्वाभावादिति भावः, असत्त्वतुल्य इत्यस्यासत्वविपरीत इत्यर्थः । ननु निर्वृत्तघटादीनां सत्त्वे कार्यमेवासदित्येकान्तपरित्यागापत्तिरपीत्याह-कार्यसत्त्वेति । कथं खवचनविरोध इत्यत्राह-खव-25 चनविरोध इति । अत एवारुचेराह-अथवेति, यदि कार्य घटादि मृत्पिण्डाद्यवस्थायामसदेव तर्हि तत्कथं क्रियते, असति व्यापारायोगादित्यर्थः । दण्डादिव्यापारणात्मिकया क्रियया विद्यमान एव घटो दीपेनेव व्यज्यत इति नास्माकं विरोध इति सिद्धान्ती सूचयति-घटो घटतयेति ।तत्त्व एवेति, विद्यमानस्यैव तथाभवनादित्यर्थः । तथा च कार्य सत् , तत्त्वे एव तथाभूतेः, दीपेन घटव्यक्तिवदित्यनुमानेनासत्कार्यवादस्य विरोध इति भावः । मृत्पिण्डस्यैव घटीभवनात्तथैव कार्यकारणभावदर्शनात् प्रत्यक्षविरोध इत्याह-तथा मृत्पिण्डेति । कार्यमेवासदित्युक्तो कारणं सदित्यस्यापि प्रसङ्गेनासत्पक्षप्रतिपक्षवादापत्तिरित्याह-30 एवं तावदिति । कार्य नियमादसद्भवति, असत्तु कार्य वा स्यादन्यद्वेत्यसतोऽनवधारणात् कार्यखपुष्पयोरविशेषापत्तिरित्याह-अथ कार्यमिति । ननु कारणकालिककार्यखपुष्पयोरविशेषापत्तितुल्यत्वादिदोषा अदोषा एव दोषाश्रयस्थावस्तु
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org