________________
१९८ द्वादशारनयचक्रम्
[विधिविध्यरे पूर्वस्तुल्यत्वापत्तिदोषः असतो विशेषाभावादनेकविषयत्वात्तुल्यत्वस्य, अत्रोच्यते, एवमप्येकत्वाद्विशेषाभावः, यथैव ह्यनुपादानमबुद्धिसिद्धञ्च खपुष्पं निःसामान्यं निर्विशेषञ्च सिद्धमेवं घटादेः कार्यस्य स्यात् ।
अथोच्यतेत्यादि, अविशेषापत्तिदोषस्य च परिहारार्थमथोच्येत त्वयेति परमतमाशङ्कते, कथं ? 5 असत्त्वादेव तयोः-कार्यखपुष्पयोः कारणकाले विशेषासम्भवः, यथा खपुष्पमसत्तथा कारणकाले कार्यमप्यसदेवेति नानयोः कश्चिद्विशेषोऽस्ति, न ह्यसतो निरुपाख्यस्य खपुष्पस्य वृन्तफलकेसराद्यवयवसौरभादिविशेषाः खरविषाणकुण्ठतीक्ष्णत्वादिभ्यो भिन्नलक्षणाः सन्ति, उभयेषामवस्तुत्वात् निरुपाख्यत्वाच्चे यस्मादविशेषात् कारणकाले यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति, ततः किं परि
हृतमिति चेन्न, अवधारणकृतो दोषः परिहृतो भवति, कार्यमेवासदसदेव कार्यमित्यवधार्यमाणे खपु10 रुपसत्त्वं कार्यखपुष्पयोरविशेष इत्येतौ दोषौ तयोरविशेषाभ्युपगमान्न स्त इति । नापि पूर्वस्तुल्यत्वापत्तिदोषः, कार्यस्यायत्यामनाविर्भावः खपुष्पस्याविर्भाव इत्यविशेष इत्यस्यापि तुल्यत्वापत्तिदोषस्याभावः, असतो विशेषाभावादनेकविषयत्वात्तुल्यत्वस्य, अयमनेनाभ्यामेभिरिमौ इमे वाऽर्थास्तुल्या इति हि तुल्यत्वमनेकविषयं दृष्टम्, न हि तदेव तेन तुल्यमिति । अत्रोच्यते-एवमप्येकत्वाद्विशेषाभाव इति, त्वयैव कार्यखपुष्पयोरसत्त्वाविशेषोऽभ्युपगत एकरूपत्वादवस्तुन इति, तदवस्थ एवाविशेषदोषः, 15 तस्यैवेदानीमविशेषदोषस्यापादनाथं विकल्प्यतेऽन्यदनिष्टापादनं-यथाहीत्यादि, यथैव खपुष्पस्योपादानं पूर्वदृष्टश्रुतानुभूतं बुद्धौ सिद्धं वाऽऽकारादिविशिष्टत्वं नास्तीत्यनुपादानमबुद्धिसिद्धश्च खपुष्पम् , ततः किं ? अनुपादानाबुद्धिसिद्धत्वाभ्यां निःसामान्यं निर्विशेषश्चेति सिद्धम् , एवं घटादेः कार्यस्य मृदाधुपादानं बुद्धिसिद्धत्वञ्च सामान्य विशेषत्वश्च न स्यात् , तच्च मृद एव येनाकारेण भवनं देशकालनवपुराणकृष्णरक्तत्वादिघटभेदेऽपि तुल्यतया सामान्यं विशेषश्च पटादिभ्यः । एतच्च खपुष्पस्योपादानबुद्धि20 सिद्धत्वं सामान्यविशेषवत्त्वश्च स्यात् , उभयोनिरुपाख्यत्वात् , न त्वेतदिष्टम् , तस्मादस्त्यनयोर्विशेष
इति सत् कार्यम् ।
त्वेन निरुपाख्यत्वादित्याशङ्कते-अथोच्येत त्वयेति । खपुष्पखरविषाणयोर्निर्विशेषत्वमाह-नहीति, खसम्बन्धिनः पुष्पस्यैवाभावात् खरस्य विशणस्याप्यभावात्कुतस्तद्विशेषा वृन्तादयः कुण्ठादयो येन परस्पर भिन्नाः सन्तो विशेषा भवेयुः, खपुष्पादीनां निरुपाख्यत्वश्च व्यावर्तयेयुरिति भावः । एवञ्च कारणकाले यदेव कार्यस्यासत्त्वं तदेव खपुष्पेऽपीति विशेषाभावादवधारणेन 25 प्राप्तो दोषः परिहृतः। कायमेवासदित्यवधारणेन खपुष्पसत्त्वलक्षणस्य कार्यमसदेवेत्यवधारणेन च कार्यखपुष्पयोरविशेषलक्षणस्य
च दोषस्य परिहार इति निरूपयति-अस्मादविशेषादिति । तथा पूर्वोदितस्य कायस्य खपुष्पवदायत्यामप्रादुर्भावः, कार्यस्येव वा खपुष्पस्यापि प्रादुर्भावस्तुल्यत्वादित्युक्तस्य तुल्यत्वस्यापि नापत्तिः, तुल्यत्वस्य भेदगर्भिततयाऽविशिष्टे तदसम्भवादित्याह-नापीति । तयोरविशेषेऽभ्युपगते एकरूपत्वमेव प्राप्तम् । तथाप्यवस्तूनां विशेषाभावस्तदवस्थ एव, अस्यैव दोषस्याभिधानायास्माकं प्रवृत्तरित्याह-एवमपीति । तयोर्विशेषाभावे दोषान्तरमाह-यथैव हीति । खपुष्पस्य हि किञ्चिदुपादान30 कारणं न पूर्व दृष्टं श्रुतमनुभूतं वा, न वा तस्य कोऽप्याकारो बुद्धावभासत इत्यनुपादानत्वादबुद्धिसिद्धत्वाच्च न सामान्यविशेषात्मकम् , एवं कार्यमपि,अतो घटादेमंदाधुपादानकत्वं बुद्धिसिद्धत्वं सामान्य विशेषत्वं च न स्यात्। तच्चेति, उपादानत्वं बुद्धिसि. द्धत्वं सामान्य विशेषात्मकत्वञ्च वस्तुतो मृद एव सम्भवति तस्या एव तथा तथा भवनात्, घटमेदेऽपि मृद एकरूपतया सामान्यं पटादिभ्यश्च विशेषः । इदश्च विशेषत्वात्कार्यखपुष्पयोनिरुपाख्यत्वास सम्भवतीति कार्य सदिति खीकार्यमिति भावः।
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org