________________
सदसत्त्वापादनम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
१९९ अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावौ कार्यखपुष्पयोरिष्येते त्वया विशेषौ खपुष्पवदभवदपि अन्यथा भवदपि तदसदेवेति, निवृत्तमपि त_सत् , सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्, निःसामान्यनिर्विशेषत्वात् , सामान्यविशेषवत् ।
(अथेति) अथ सामान्य विशेषोपादानबुद्धिसिद्धत्वसद्भावी कार्यखपुष्पयोरिष्येते त्वया । विशेषौ, खपुष्पवदभवदपि-तदसदेव खपुष्पवदिति येन प्रकारेण खपुष्पं न भवति नोत्पद्यते तेन प्रकारेणाभवदपि, अन्यथा भवदपि-उत्पद्यमानं कदाचिद् दृश्यमानमपीत्यर्थः, उपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वप्रकारेण भवदपि तत्-कार्यमसदेवेष्यते ततश्चैवं सत्ययमपरो दोषः-निवृत्तमपि तीसत्, कार्यमिति वर्तते, सोपादानबुद्धिसिद्धत्वसद्भावेऽपि, कस्मात् ? सामान्यविशेषवत्त्वात् कारणकालकार्यवत् , यथा कारणकाले कार्यमसत् त्वन्मतेन सामान्यविशेषवदपि सोपादानं बुद्धिसिद्धमपि तथो- 10 त्तरकाले निर्वृत्तमपि तदसदेव स्यात् , कारणकालकार्यवदिति । कार्यवच्चाभवदपि खपुष्पमसन्न स्यात्-कार्यप्रादुर्भावप्रकारेणाभवदपि तस्मिन्नभवनप्रकारविशेषे सत्यपि सत् प्राप्नोति खपुष्पं निःसामान्यनिर्विशेषत्वात् , तद्धि खपुष्पं निःसामान्यं निर्विशेषश्चेति सिद्धम् , अतस्तस्य निःसामान्यनिर्विशेषत्वात् सत्त्वं स्यात् , को दृष्टान्तः ? सामान्यविशेषवत् , कार्यवदिति सिद्धे वैशेषिकमतालम्बनसामान्यविशेषदृष्टान्तो निःसामान्यनिर्विशेषाणां सामान्यविशेषाणां वस्तुत्वं खपुष्पतुल्यमेवेति काका 15 दर्शितं भवति । प्रकृतार्थोपनयस्तु यथा सामान्यविशेषो घटत्वादिनिःसामान्यो निर्विशेषश्च संश्चेति सिद्धः तथा खपुष्पमपि सत् स्यात् ।
किश्चान्यत्
कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत् स्यात् ।
(कार्यासत्त्वेति) कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात् , खपुष्पमिति वर्त्तते, कार्यस्य घटादेर सत्त्वेन खपुष्पस्याप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषवैलक्षण्यात् खपुरूपमपि सत् स्यात् कारणवत्, एतैश्च प्रकारैः सिद्धमेव कार्यासत्त्ववैलक्षण्यमिति सिद्धो हेतुः निर्वृत्त
30
ननु कार्यखपुष्पयोः सामान्यविशेषादिधर्मवत्त्वेऽपि खपुष्पवत् पूर्वमभवदपि कदाचिदायत्यां भवदप्यसदेवेत्याशङ्कते-अथेति । एवं तर्युत्पत्त्यनन्तरमप्यसद्भवेत् कार्यम् , सामान्यविशेषवत्त्वादिभ्यः, कारणकाले कार्यवदिति समाधत्ते-निवृत्तमपीति । 25 यदि प्रत्यक्षबाधितत्वमनुमानस्येत्युच्यते तर्हि दोषान्तरमाह-कार्यवञ्चेति । यथा कार्यमायत्या प्रादुर्भवति न तथा खपुष्पमित्येवं विशिष्टमपि खपुष्पं सत् प्राप्नुयादिति भावः। तत्र हेतुमाह-निःसामान्येति । कार्यवदिति दृष्टान्तं परित्यज्य सामान्य विशेषवदिति दृष्टान्तविशेषोपादाने निदानमाह-कार्यवदितीति, वैशेषिकमते हि जातिलक्षणसामान्यस्यान्त्यलक्षण. विशेषस्य च न सामान्यविशेषवत्त्वं स्वीक्रियतेऽनवस्थाप्रसङ्गात् , अतस्तत्र निःसामान्य मिविशेषत्वमस्ति सत्त्वमपि तरिष्यत इति दृष्टान्तता, किन्तु तावप्यसन्तौ खपुष्पवदिति विशेषोऽपि काका दर्शित इति भावः । अनुवृत्तिव्यावृत्तिलक्षणो तु सामान्य विशेषी 30 तैरपि सामान्ये विशेषे चाङ्गीक्रियेते, तल्लक्षणयोरनुवृत्तिव्यावृत्तिरूपत्वादिति बोध्यम् । दृष्टान्ते हेतुं साध्यं च प्रदर्शयति-प्रकतार्थेति । अथ खपुष्पमसन्न स्यात् कार्यासत्त्ववेलक्षण्यात् कारणवत् , कार्यासत्ववलक्षण्यश्चाप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषत्वधमैरित्याशयेनाह-कार्यासस्वेति । खपुष्पे तथाविधवैलक्षण्यसद्भावेऽप्यसत्त्वमेव. यदीष्यते तर्हि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org