________________
द्वादशारनयचक्रम्
[ विधिविध्यरे त्वादिप्रकारेण च कारणस्य तद्वैलक्षण्यं सिद्धमिति साधम्र्म्यं कारणखपुष्पयोः । कारणं वा खपुष्पवत् कार्यासन्ववैलक्षण्यादसत् स्यात् कार्यस्यासत्त्वं वा त्याज्यमित्यभिप्रायः ।
अथ कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते असच कार्यमिति निश्चितं तदा पूर्ववच्चक्रकद्वयप्रवत्र्त्तनमुभयासत्त्वे, अन्यतरासवे तु कार्यसमीप इत्यादि 5 स एव ग्रन्थ उपादानादिमत्त्व विशेषणविशिष्टो योज्यः । अतः कार्य सदुपादानादिमत्त्वात् कारणस्वात्मवत् वैधर्म्येणाकाशघटवदिति ।
२००
( अथेति ) अथ भवता खपुष्पसत्त्वप्रसङ्गदोषभयादुक्तं प्रतिपादनमपि कार्योपादानादिमववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते, आदिग्रहणाद्बुद्धि सिद्धत्वसामान्यविशेषवत्त्वानि नेष्यन्ते, इदं कार्यस्यासाधर्म्यं खपुष्पेण सहेष्यते, असच्च कार्यमिति निश्चितमित्यादि पूर्ववञ्चक्रकद्वयप्रवर्त्तनमिति 10 प्रन्थमतिदिशति, तमेव । कथं पुनः ? भाव्यते - यदि कार्योपादानादिमत्ववत् खपुष्पस्योपादानादि - मत्वं नेष्यते कार्यं वाऽसदिति निश्चितं तद्वैलक्षण्यात्- अनुपादानादिवैलक्षण्यात् न तर्ह्यसत् खपुष्पं सदेव तत्, असद्विलक्षणत्वात्, घटवदितर उदुम्बरपुष्पवत् । ननु घटासत्त्वं पटासत्त्वविलक्षणम्, न, सतो वैलक्षण्यात् । अथैवमपि वैलक्षण्ये खपुष्पासत्त्वविनिश्चयो न निवर्तते, अनुपादानादिमस्वात्, न तर्ह्यपादानादिमत्त्वात् कार्यमसत्, निर्वृत्तघटवत्, असत्त्वे नोपादानादिमत् स्यात् खपुष्प15 वत्, एतदपि पर्ययचक्रकं शेषं पूर्ववदेव विपर्ययेण - अतः सत्कार्यमुपादानादिमत्त्वान्निर्वृत्तघटवद्वैधर्म्येणाकाशघटवदित्यादिरपि यावत्सदाश्रयत्वात् सत्त्वं घटवदिति, एतद्विपर्ययचक्रकमेवमुभयासवे, अन्यतरासन्त्वे तु-अथैतत्साम्यमुभयासत्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगम परिहारेण कार्यमेवासदिति, अन्न कार्यशब्द समीप इत्यादि यावत्स्ववचनादिविरोधापत्तिः । पुनरप्यसदेवकारे त्वसदनवधृते पूर्वदोषः, अथोच्येतेत्यादि यावत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदिति स एव ग्रन्थ उपादानादिम20 विशेषणकृतो विशेष इति, अतः कार्यं सत्, उपादानादिमत्त्वात् कारणस्वात्मवत्, वैधर्म्येणाकाशघटवत्, असच्च खपुष्पम् अनुपादानत्वात्, नभो घटवत् इतरो निर्वृत्तघटवत् । तथा सत् कार्यं बुद्धिसि - द्धत्वात्, निर्वृत्तघटवत्, इतरो नभोघटवत् । असश्च खपुष्पं बुद्ध्यसिद्धत्वात्, नभोघटवत्, इतरो निर्वृत्तघटवत्, एवं सामान्यविशेषाभ्यामपि योज्यम् । तस्मात् कार्यं सत् कारणवन्न तु खपुष्पमित्यर्थः ।
कारणं कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्यस्य सद्भावेन खपुष्पवद सद्भवेदित्याह - कारणं वेति, कारणं घटादेर्मृदादि परमाण्वादि 26 वा, अत्र कारणस्याबुद्धि सिद्धत्वं निःसामान्यविशेषत्वश्च स्वयमेवोहनीयम् । एतावता कार्यख पुष्पयोः सामान्यविशेषादिधर्मवत्त्वमभ्युपेत्य विचारः कृतः, अथ तदनभ्युपगम्य विचारः क्रियते - अथेति । कार्यनिष्ठा सत्त्वमुपादानत्वादिसमन्वितं खपुष्पादो तूपादानादिमत्त्वं नेष्यत इति तत्समन्वितमसत्त्वं तस्य न स्यादित्यसद्वैलक्षण्यात् खपुष्पं सदेव स्यादित्याह - तद्वैलक्षण्यादिति । अथैवमपि कार्यनिष्ठासत्त्वनिरूपितवैलक्षण्याश्रयस्यापि खपुष्पस्यासत्वमेवेष्यते तर्हि नासत्त्वमुपादानादिसमन्वितमेव, तथा चानुपादानादिसमानाधिकरणासत्त्वनिरूपितवैलक्षण्याश्रयस्य निर्वृत्तघटादेः सत्त्ववत् कार्यमपि सत् स्यादित्याह - अथैवमपीति । 30 इदं पर्ययचक्रकं तावद्येोज्यं यावत् शेषं पूर्ववदेव विपर्ययेणेत्युक्तम्, तदेव दर्शयति-अतः सत्कार्यमिति । विपर्ययचक्रञ्चाथैवमपि वैलक्षण्ये कार्यासत्त्वविनिश्वयो न निवर्तते, उपादानादिमत्त्वादित्यादि यावत् सदाश्रयत्वाद्विशेषस्य सत्त्वं घटवदिति योज्यम्, एवं तावत् कार्यख पुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितं खपुष्पमसत् कार्यमप्यसदिति विकल्पाश्रयेण । तदेवाह - एवमुभयासरखे इति । खपुष्पं सत् कार्यमसदिति द्वितीय विकल्पाभिप्रायेण वक्ति-अन्यतरासवे त्विति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org