________________
२०१
प्रकरणसमदोषः] न्यायागमानुसारिणीव्याख्यासमेतम्
आह
ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, न, अव्यक्तत्वात् , वितटीखातहस्तीव पूर्व खननात् । भूगन्धवद्वाऽप्रत्यक्षत्वं कार्यस्य, अत एव च प्रकरणचिन्तेति प्रकरणसमदोषोऽनेकान्तत्वात्।
(नन्विति) ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, त्वत्परिकल्पितं मृत्पिण्डावस्थायां कार्य घटाख्यं प्रत्यक्षं स्यात् सत्त्वात् कारणवत्-मृत्पिण्डवदित्यर्थ इति, अत्रोच्यते नाव्यक्तत्वात् , नैष दोषः, कस्मात् ? अव्यक्तत्वात् , तस्यां हि मृत्पिण्डावस्थायां घटोऽनभिव्यक्तत्वादिन्द्रियैर्नोपलभ्यते, वितटीखातहस्तीव पूर्व खननात् , एवं हि मृदवयवा भित्तिगताः खननात् प्रागपि विद्यमानाः खननोत्तरकालं हत्याकारव्यपदेशं लभन्ते, न च ते प्रागभिव्यक्तेरनुपलब्धत्वान्न सन्ति । अथवा कार्ये सत्यपि ह्यव्यक्ते भूगन्धवदप्रत्यक्षत्वं कार्यस्य, यथा भुवो गन्धो विद्यमानोऽपि न प्राणेन्द्रियगोचरमाग- 10 च्छति, अव्यक्तत्वात् , सलिलसिक्तस्तूत्तरकालमभिव्यक्त उपलभ्यते, तथा मृदवस्थायामप्रत्यक्षो घटः कुलालप्रयत्नदण्डचक्रसूत्रादिकारणाभिव्यञ्जितः पश्चादुपलभ्यतेऽतस्तस्य प्रत्यक्षत्वं भवतीति को दोषः ? अत एव च प्रकरणचिन्तेति प्रकरणसमो दोषोऽनेकान्तत्वात् , उक्तमनैकान्तिकत्वमस्य हेतोः, यत एव प्रकरणचिन्ता स निर्णयार्थमपदिष्टः सन् प्रकरणसमः, इह हि घटादेः कार्यस्याप्रत्यक्षत्वादेव चिन्ता समुत्पन्ना, किं घटादिकार्यं सत् असदिति वा ? अप्रत्यक्षत्वस्य सत्यसति च दर्शनात्, मूलोदकादौ 15 खरविषाणादौ चेत्यतो व्यभिचरत्यप्रत्यक्षत्वं सत्त्वं तथा सत्त्वमपि प्रत्यक्षत्वम् , प्रत्यक्षाप्रत्यक्षयोर्दर्शनात् , सतोऽप्रत्यक्षस्य मेरुत्तरकुरुद्वीपग्रहगृहीतग्रहादेरित्यनेकान्तादिति । - एवं तर्हि दर्शनादर्शनयोः प्रादुर्भावाप्रादुर्भावयोश्च समानः प्रकरणसमदोष इति चेन्न, जन्मप्रकाशविषयविशेषस्योक्तत्वात्, उपादानादिमत्त्वविशेषाच्च । एवं हि समानकरणं ततोऽन्यत् कार्यम्, तद्विकल्पासामर्थ्यात्, घटपटवत् । अत्रापि चतुर्यु विकल्पेषुभयसत्त्व- 20 ननु घटादेः मृत्पिण्डावस्थायां सत्त्वाङ्गीकारे मृत्पिण्डवद्धटादेरपि तदानी प्रत्यक्षता स्यादित्याशङ्कते-नन्विति । तदानीं नासत्वाद्धटादेरप्रत्यक्षत्वमपि तु अनभिव्यक्तत्वात् , सत्याश्चाभिव्यञ्जकसामय्यां तस्याभिव्यक्तिरित्याशयेनाह-अव्यक्तत्वादिति । एतदेव दृष्टान्तद्वयेन समर्थयति-तस्यां हीत्यादिना। मृत्पिण्डावस्थायां घटः प्रत्यक्षं स्यात् , सत्त्वान्मृस्पिण्डवदित्युक्त
हेतुव्यभिचारीत्याह-अत एव चेति. भूगन्धादेरिव तदा घटादेरव्यक्तत्वेनाप्रत्यक्षत्वादेवेत्यर्थः। विमशोधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितो प्रकरणम् , तस्य चिन्ता-विमर्शात् प्रमृति प्राङिनर्णयाद्यत् समीक्षणम् , सा जिज्ञासा यत्कृता स निर्ण-25 यार्थ प्रयुक्त उभयपक्षसाम्यात् प्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पत इत्यर्थक 'यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' इति गौतमसूत्रम् (अ.१ आ. २ सू. ७) सचानकान्तिको हेत्वाभासः । अत्र घटादेः कार्यस्य सदसत्त्वकोटिकसंशयप्रवर्तकत्वमप्रत्यक्षत्वस्य, यथा सदपि मूलकीलकोदकादि नोपलभ्यते, असदपि खरविषाणादि नोपलभ्यते तथा च कार्ये सदसद्वेति संशयं प्रवर्तयत्यप्रत्यक्षत्वम्, न त्वसत्त्वं साधयति, एतदेवाह-यत स्यादिना। एवं प्रत्यक्षत्वमपि सत्त्वं व्यभिचरति प्रत्यक्षेऽप्रत्यक्षे च दर्शनात् , अप्रत्यक्षे सत्त्वदर्शनं केल्यत्राह-तथा सत्त्वमपीति । ननु यथा दर्शना- 30 दर्शनव्यभिचारि सत्त्वं तथा प्रादुर्भावाप्रादुर्भावव्यभिचारि चेति प्रकरणसमस्योभयत्र समानतेत्याशङ्कते एवं तहीति । कार्यखपुष्पयो_लक्षण्यदर्शनात् तस्य चाविर्भावानाविर्भावलक्षणस्य यथाक्रमं सदसदूपतामन्तरेणानुपपत्तेः सत एवाविर्भावः, भसतश्चानाविर्भाव इत्युक्तत्वान्न सत्त्वमाविर्भावं व्यभिचरतीति भावः । एवमुपादानत्वबुद्धिसिद्धत्वसामान्यविशेषत्वादिविशेषसद्भावाच न त्वत्पमेन सह समानो दोष इत्याह-उपादानादीति । अथ कारणे कार्यासद्वादी सरकार्यवादेऽपि दोषं तहफ़परेव दर्स
.न. २६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org