________________
२०२ द्वादशारनयचक्रम्
[विधिविध्यरे मन्यतरसत्त्वञ्च स्यात् । तत्र यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे सर्वत्वैकत्वभेदो न स्यात् । एवन्तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् । अथ न कार्यैकत्ववत् कारणैकत्वं सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कारणं सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निवृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, असतो वैलक्षण्यात् , इतरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणे कार्यसत्त्वनिश्चयो न निवर्त्तते, अनेकात्मकञ्च तत्, न तर्येकात्मकत्वात् कार्य सत् , कारणवदिति प्रथमचक्रकम् । शेषं पूर्ववद्विपर्ययेणेत्यादि यदुक्तं तदपि, अथ न कारणसर्वत्ववत् कार्यसर्वत्वं सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कार्य सद्विलक्षणत्वादुदुम्बरपुष्पवदितरो घटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यादितरेतरासत्त्वात्, एतद् द्वितीयं चक्रकम् । अतः सर्वात्मक10 त्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिवैकक्षणः । एकात्मकत्वासतश्च कार्यादन्यत् कारणं सर्वात्मकत्वात् क्षणादिव कुम्भ इति । तथाऽनुवृत्तिव्यावृत्त्यादि ।
एवं तहीत्यादि यावत्तथा, उपसंहारमेवेतर आह-( त्वदुक्तेत्यादि ) त्वदुक्तसाधनप्रपञ्चस्य कार्यसत्त्वेऽपि तुल्यत्वान्मयापि शक्यं वक्तुं कार्यसत्त्वस्य कारणे त्वन्मतस्य निवारणे कृते कार्यासत्त्वं
भवितुमर्हति, तत्साधनं श्रूयताम् , यदेतत-(समानकरणमिति) (अत्रापीति) अत्रापि कारणं सत् कार्य 15 सत् , कारणं सत् कार्यमसत् , कारणमसत् कार्य सत् , कारणमसत् कार्यमसदिति चतुर्पु विकल्पेषु द्वयोः पूर्ववत् प्रतिपक्षवादापत्तेः त्यागादुभयसत्त्वमन्यतरसत्त्वञ्च स्यात् , तत्रोभयसत्त्वे तावत्तद्यदि तावदुभयसत्त्वम् , (न स्यादिति ) मृदेव सर्व पिण्डशिवकादि घटपिठरकपालादि कार्य त्वेकमेव, पिण्ड इति वा शिबक इति वाऽनन्यत्-एकम् । (अनेकात्मकश्च तदिति ) सर्वात्मकमित्यर्थः। (कार्य सदिति)
सत्त्वे वैकात्मकं न भवेत् सत्त्वात् कारणवत् । एतत् प्रथम चक्रकम् । तथाऽनुवृत्तिव्यावृत्ती, अनुवृत्तिः 20 मृन्मृदिति पिण्डशिबकादिषु, व्यावृत्तिः-घटः पिठर इति, तद्यदि तावदुभयसत्त्वं सत्त्वाविशेषादेवावि
शेषे कार्यव्यावृत्तिवत् कारणव्यावृत्तिरपि स्यात्सत्त्वाद् घटवत्, अथ न कार्यव्यावृत्तिवत् कारणव्यावृत्तिः सञ्च कार्यमिति निश्चितम् , तद्वैलक्षण्यान्न तर्हि सत्कारणम् , सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निर्वृत्तघटवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणं न, असतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये यितुमाह-स्वदुक्तसाधनेति । मत्पक्षे त्वयोद्भावितस्य साधनप्रपञ्चस्य त्वत्पक्षेऽपि समानत्वात्तेन त्वन्मते निराकृतेऽर्थतो 25 मदिष्टं कार्यासत्त्वं सेत्स्यतीत्यर्थः । द्वयोरिति, कारणं सत् कार्यमसत् , कारणमसत् कार्यमसदिति विकल्पयोरभ्युपगमे
सत्कार्यवादप्रतिपक्षवादाभ्युपगमप्रसङ्गतो वादाभाव एव स्यादिति तत्त्यागादपरविकल्पद्वयमेवाश्रयणीयमिति भावः । उभयसत्त्वमिति, कार्यकारणयोः सत्त्वमित्यर्थः, एवञ्च तयोः सत्त्वाविशेषादेव कारणं सर्वात्मकं कार्यन्त्वेकरूपमेवेति विशेषो न स्यादतःकारणस्याप्येकत्वं प्रसज्येतेति भावः । तथापि वैलक्षण्यात् कारणस्यैकत्वानङ्गीकारे कारणं न सत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् इतरो निर्वृत्तघटवदित्यनुमानेनासत्त्वापत्तिरित्याह मूले-अथ नेति । हेतोरनैकान्तिकतामादर्शयति नन्विति. खखात्मना घटपटयोः सद्रूपत्वान्पादिना परस्सर विलक्षणत्वाच सद्विलक्षणत्वेऽपि नासत्त्वमिति व्यभिचार इति भावः । समाधत्ते-असतो वैलक्षण्यादिति घटपटादीनां परस्परं भिन्नत्वादेव वैलक्षण्यसम्भवादिदं वेलक्षण्यमसत एव, न तु सतः, "सत्वेन सर्वेषामविशेषेणावलक्षण्यादिति न घटादौ सतो वैलक्षण्यमतो नानैकान्तिकत्वमिति भावः । अथ कारणका
र्ययोः सर्वत्वैकत्वलक्षणवैलक्षण्यसद्भावेऽपि कारणकार्ययोः कार्यमेकात्मकमेवेति निश्चयो न निवर्तते सद्वैलक्षण्येऽपि तर्हि 'कार्य न सतू एकात्मकत्वात, सत्वे वा नैकात्मकं भवेत, सत्वादेव कारणवदित्लाह-मथैवमपीति । तथा च कारणवत्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org