________________
साम्यत्षानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
२०३ कारणसत्त्वविनिश्चयो न निवर्तते, अनुवृत्त्यात्मकञ्च तत्, न तर्हि व्यावृत्त्यात्मकत्वात्कार्य सत् सत्त्वे न व्यावर्तेत, सत्त्वात् कारणव दिति द्वितीयं चक्रमविपर्ययेण, शेषं पूर्ववद्विपर्ययेणेत्यादि, अथ न कारणानुवृत्तिवत् कार्यानुवृत्तिः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्य सद्विलक्षणत्वात् , उदुम्बरपुष्पवत्, इतरो घटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यादिति प्रथम विपर्ययचक्रकम् । अथैवमपि वैलक्षण्ये तत्सत्त्वविनिश्चयो न विनिवर्त्तते, अनुवृत्त्यात्मकश्च तत्, 5 न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् , सत्त्वे न व्यावर्तेत सत्त्वात् कारणवत्, एतद्वितीयं चक्रक विपर्ययेण । अतोऽनुवृत्तिसतः कारणादन्यत् कार्य व्यावृत्तत्वात् पक्तरिवैकः, व्यावृत्तिसतश्च कार्यादन्यत् कारणमनुवृत्तत्वादेकस्मादिव पतिः । आदिग्रहणादाविर्भावानाविर्भावचक्रकद्वयमपि योज्यम् । यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे प्राक् कार्यानाविर्भाववत् कारणानाविर्भावोऽपि स्यात् । अथ न प्राक् कार्यानाविभाववत् कारणानाविर्भावः सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न 10 तर्हि सत्कारणं असत्, सद्विलक्षणत्वात् , घटवदितर उदुम्बरपुष्पवत् ; ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यात्, अथैवमपि वैलक्षण्ये कारणसव विनिश्चयो न निवर्तते, नित्याविर्भावकञ्च तन्न तर्हि सततानाविर्भावात्मकत्वात् कार्य सत्, सत्त्वे प्रागप्याविर्भवेत् , सत्त्वात् कारणवत् । प्रथमं चक्रकं शेषं पूर्ववद्विपर्ययेण, अथ न कारणसतताविर्भावः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् , कार्य, असत्, सद्विलक्षणत्वादुदुम्बरपुष्पवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणं 15 न असतो वैलक्षण्यादिति द्वितीयं चक्रकमित्येवमाविर्भावानाविर्भावविचारेण द्वे चक्रके मते इति ।
अत्रोच्यते
न, असिद्धत्वादसर्वत्वादिहेतूनाम् , अस्माकं हि सर्वमेवानुवृत्तिरेव कारणमेवोपादानमेव बुद्धिसिद्धमेवेति । यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीप्यते तद्वदेव दण्डादेरप्यसर्वत्वं सर्वस्मादन्यत्वाद्धटवत्, तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यस-20 र्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, स्वोक्तविरोधादिवत् प्रमाणविशेषस्वरूपविरोधाश्च ।
_(नेति) नासिद्धत्वात् , नैतदुपपद्यतेऽस्मत्पक्षसाधनवत् त्वत्पक्षसाधनम् , किं कारणं ? असर्वत्वादिहेतूनामसिद्धत्वात् , यस्मादस्माकं सर्वमेवानुवृत्तिरेव कारणमेवोपादनमेव बुद्धिसिद्धमेवेतीति कार्यस्य नानेकात्मकत्वमिष्टमिति तस्यैकात्मकत्वेऽसत्त्वमेवेति भावः । एतदेवाह-शेषमिति । तदेवोपपादयति-अथेति । 25 कार्य न सत् सद्विलक्षणत्वात् , उदुम्बरपुष्पवदितरो घटवदित्यनुमानं बोध्यं शेषं खयमूहनीयम् । निगमयति-अत इति, सर्वात्मकात् सतः कारणात् कार्य कुंभादि, अन्यदेव एकात्मकत्वात् क्षण इवाणुरिव वा, कार्यस्य सत्त्वे वा एकात्मकात् सतः कार्यदन्यत् कारणं सर्वात्मकत्वात् , क्षणादिव कुंभः, अणादिव कुम्भ इति वेति भावः । एवमनुवृत्तिव्यावृत्त्याद्यपेक्षयापीत्थमेव चक्रकं भाव्यमित्यति दिशति-तथेति । कारणमनुवृत्तं कार्यमनुवृत्तम् , कारणमनुवृत्तम् कार्य व्यावृ... त्तम्, कारणं व्यावृत्तं कार्यमनुवृतं कारणं व्यावृत्त कार्य व्यावृत्तमिति विकल्पा अत्र बोध्याः। पङ्क्लेरिवैक इति, पतिः 30 समुदायः, स चानुवृत्त्यात्मकत्वात् सन् , एकस्तु व्यावृत्त्यात्मकत्वात् समुदायादन्य इति भावः । शेषं सर्व पूर्ववदेव । तदेवमसत्कार्यवादिना सत्कार्यवादे तदीयसाधनप्रपञ्चस्य तुल्यत्वे आपादिते सत्कार्यवादी समाधानमारचयति-न असिखत्वादिति । अस्मन्मते वस्तुमात्रस्य सर्वत्वादनुवृत्तिरूपत्वात् कारणरूपत्वादुपादानत्वादुद्धिसिद्धत्वाचासर्वत्वानुपादा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org