________________
२०४ द्वादशारनयचक्रम्
[विधिविध्यरे तस्मादसर्वत्वादेरसिद्धत्वात्तद्विकल्पाभावात् तदसमर्थविकल्पत्वासिद्धिस्ततः कारणात् कार्यमन्यदित्येतन्न सिद्ध्यतीति । तत्रासर्वत्वासिद्धौ प्रतिपादितायां व्यावृत्त्यादीनामसिद्धिरापादितैव भविष्यतीति । असर्वत्वाभावमेवापादयितुमाह-यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीष्यते तद्वदेव-घदवदेव-कार्यवदेव दण्डादेरप्यसर्वत्वं विप्रकृष्टस्यापि, किमुत सन्निकृष्टस्य शिबकादेः, सर्वस्मादन्य5 त्वाद्धटवत् , तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, तदसमर्थविकल्पत्वमप्यत एव नास्ति । तथाऽनुवृत्त्याद्यभावश्च तत एव नास्ति यथैकस्य घटस्य मृद नुवृत्त्यभावस्तथा सर्वघटेषु शिबकादिष्वप्यभाव इति अनुवृत्त्यभावादनुवृत्तिव्यावृत्तिकृतविकल्पाभावश्च, एवं कारणोपादानबुद्धिसिद्धत्वसामान्यैः सप्रतिपक्षैर्विकल्पचतुष्टयासिद्धिस्तदसमर्थविकल्पासिद्धिश्चापादनीया । ततः कारणादन्यत् कार्यमित्येतन्न सिद्ध्यति । किश्चान्यत्-स्वोक्तविरोधादिवत्, स्ववचना10 भ्युपगमलोकव्यवहारप्रत्यक्षानुमानविरोधा आदिग्रहणात् प्रमाणग्रहणात्, विशेषस्वरूपविरोधौ च कण्ठतो वक्ष्यति ।
तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्यश्च ? मृदेव हि घटः क्रियते-घटतया व्यज्यते विद्यमान एव व्यक्तीभवति, स एव
घटो दीपेनेव तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति । 18 (तत्रेति) तत्र स्ववचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत्कथमसत् खपुष्पवत् कार्यश्च ? खेन वचनेन स्वमेव वचनं विरुध्यते, अथासत् खपुष्पवत् कथं कार्य घटवदिति सैव स्ववचनविरोधभावना विपर्ययेण तयोरेव शब्दयोर्विरोधदर्शनार्था । यस्मान्मृदेव हि घटः क्रियते, हिशब्दो यस्मादर्थे । यस्मात् सर्पस्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं तथा प्रकाशता व्यक्तिर्विमलता क्रियते करणं यथा पृष्ठं कुरु पादौ कुर्विति तद्दर्शयन्नाह-घटः क्रियते-घटतया व्यज्यते विद्यमान एव 90 व्यक्तीभवति, को दृष्टान्तः ? स एव घटो दीपेनेव, क्रियया व्यज्यते दण्डादिव्यापारणात्मिकया। तथा
च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति व्याघातः प्रोक्तः, स्ववचनविरोधभावनात एव खपुष्पनिवृत्तघटयोरिव न कार्यमसता विशेष्यम् , नाप्यसत् कार्येणेति, न परस्परतो विशेषणं विशेप्यश्चेति विशेषणविशेष्याप्रसिद्धिः ।
नत्वादिहेतूनामसिद्धेने साम्यतेति भावः। घटादीनामसर्वत्वाङ्गीकारे कस्यापि सर्वत्वं न स्यात् , घटवत् सनिकृष्टस्य शिवकादेवि. 26 प्रकृष्टस्य दण्डादेरपि सर्वस्मादन्यत्वात् , तथा च सर्वत्वैकत्वाश्रयभङ्गचतुष्टयो न भवेदिति कथमसमर्थविकल्पत्वं कार्यस्येत्याह
यदि हीति । दण्डादयोऽसर्वात्मकाः, सर्वात्मकादन्यत्वात् , घटवत्, एवमेव पटादावपि, तथा सर्वत्वाभिमतमप्यसर्व सर्वेभ्यो घटपटादिभ्योऽन्यत्वात् शिवकादिवदिति पृथगेकैकस्यासर्वत्वं प्रसाध्य सर्वात्मकस्यापि कारणस्यासर्वत्वं साधनीयमित्याह-तस्मादेकैकस्येति । एवं घटादीनामनुवृत्त्यात्मकमृत्पिण्डात् सत्त्वाभिमतादन्यत्वे तद्वदेव दण्डादीनां कपालादीनाञ्च विप्रकृष्टसन्निकृष्टानां सर्वेषामननुवृत्त्यात्मकत्वं, अनुवृत्त्यात्मकाद्भिन्नत्वात् घटवदित्येकैकस्याननुवृत्यात्मकत्वसिद्धौ कारणस्यापि तत्सिद्धेरनुवृत्त्यभावा30 दनुवृत्तिव्यावृत्त्याश्रितभचतुष्टयाभावेनासमर्थविकल्पत्वं न घटादेरित्याह-तथानवत्यादीति । यदि कार्य कृतिविषयो
न तर्धसत् , असतः कृति विषयत्वानुपपत्तेरित्याशयेनाह-यदि कार्यमिति, कार्य क्रियतेऽसच्चेति खवचनेन खवचन विरुङ्यत इति भावः । कार्यस्य कृतिविषयत्वे घट इव सदेव स्यात् , ततश्चासत् कार्यमिति विरुद्धं, कार्यस्यासत्त्वे तत्कथं घट इव कृतिविषयोऽसत्त्वादित्युभयथापि विरोध इत्याह-अथासदिति । सर्वस्यैव स्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनं, नापूर्व सिविपति, विद्यमानस्यैव पृष्ठपादादीनां प्रकाशकरणवत् प्रकाशनमेव घटादीनामिति दर्शयति-मृदेव हीति । यथा पृष्ठ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org