________________
२०५:
खवचनादिविरोधा] न्यायागमानुसारिणीव्याख्यासमेतम्
अस्मादेव कारणात्
अत एवेतिकर्तव्यतैव कर्तव्यतेति प्रतिपादनार्थ न क्रियायां खेदः कर्त्तव्यो भवति, सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात्, क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात् ।
अत एवेत्यादि यावत् न खेदः कर्तव्यो भवति, यत्त्वया व्याख्यानमनुष्ठितमितिकर्तव्यतैव । कर्तव्यतेति यत्नेन महता पूर्वोत्तरचोद्यपरिहारपक्षाव्यवच्छेदवता प्रतिपादनार्थ न क्रियायां-क्रियाव्याख्यानार्थः खेदः कर्तव्यः किं कारणं ? सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात् , क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात्, एवं तावत् ज्ञानपूर्वकक्रियोपदेशपले स्ववचनविरोध उक्तः। _यस्मिन्नप्यग्निहोत्रं जुहुयादित्यादिक्रियोपदेशोपजीवनं नास्ति, अज्ञानप्रतिबद्धमेव सर्व-10 मित्येकान्तस्तस्मिन्
अज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे स्ववचनविरोधः, एतदेवमित्यवगमादभ्युपगमविरोधः, लोके ज्ञानव्यवहारात्तद्विरोधः, प्रमाणविरोधस्तु प्रस्तुत एव, धर्मविशेषविपर्ययसिद्धेविशेषविरोधः,धर्मस्वरूपस्य निराकरणाद्धर्मस्वरूपविरोध इति ।
(अज्ञानेति) अज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे स्ववचनस्य विरोधः, असत्कार्य- 15 मिति ज्ञात्वोक्तं चेन्न तर्हि सर्वमज्ञानप्रतिबद्धमेव, एतज्ज्ञानप्रसिद्धत्वात् , अथाज्ञात्वा कथं प्रतिपादकं साधकञ्चेति स्ववचनविरोधः, त्वयाप्येतदेवमिति निश्चित्याभ्युपगम्योक्तत्वादज्ञानप्रतिबद्धाभ्युपगमस्य च तेन विरोधादेतदेवमित्यवगमादभ्युपगमविरोधः कृतः, लोके ज्ञानव्यवहारात्तद्विरोधः, ज्ञानपूर्वको हि लोकव्यवहारः, ततस्तस्याज्ञानप्रतिबन्धाभ्युपगमाप्रतीतेर्लोकरूढिविरोधः, प्रमाणविरोधस्तु प्रस्तुत एवेति, प्रत्यक्षविरोधस्तावत्तथालोके दृष्टत्वात् , क्रिययाऽभिव्यज्यमानस्य घटादेः कार्यस्य दीपेनेव सत 20 उपलब्धेरनुमानविरोधः, ज्ञापकत्वाद्विशेषविरोध इति, अस्यासत्कार्यमिति ज्ञापकवाक्यस्य ज्ञापकत्वविशेषेष्टेः, प्रत्यक्षववचनादिविरोघेषु धर्मविशेषविपर्ययसिद्धेविशेषविरोधः तेष्वेवाप्रयोगप्रसङ्गात् ,
मिति । करोतिरभूतप्रादुर्भाचे दृष्टः निर्मलीकरणे चापि वर्तते पृष्ठं कुरु, पादौ कुरु उन्मृदानेति गम्यते, निक्षेपणे चापि वर्तते कटे कुरु घटे कुरु, अश्मानमितः कुरु, स्थापयेति गम्यते इति (व्याक० महाभाष्ये १-३-१ सूत्रे), एवमसत् कार्यमिति परस्परतो विशेषणविशेष्याप्रसिद्धेरितिकर्तव्यतैव कर्तव्यतेति प्रतिपादनप्रयासो वृथैव, क्रियोपदेशमात्रस्यैव न्याय्यत्वोपगमेन 25 सामान्यविशेषसत्त्वादिविचारस्य खेदमात्रतेव, इदमित्थमिति परमार्थतो निर्णयोपायाभावादित्याह-अत एवेति । यदि तत्प्रतिपादनार्थ यमः क्रियते तर्हि क्रियाया एवोपदेशो न्याय्य इत्यभ्युपगम उपरुलेतेत्याह-क्रियाया एवेति । अज्ञानप्रतिबद्धं सर्वमिति पक्षेऽपि ववचनविरोध दर्शयितुमाह-अज्ञानप्रतिबद्धति । खवचनविरोधं संघटयति-असत् कार्यमितीति । अज्ञानप्रतिबद्धं सर्वमित्यभ्युपगच्छतापि त्वया न तूष्णीम्भावेन स्थीयते एतदेवमित्यवबुद्धयैव चोच्यत इत्यभ्युपगमविरोध इत्याह-स्वयाप्येतदेवमितीति । ज्ञानपूर्वो व्यवहारो लोके दृष्टः, तेन चाज्ञानप्रतिबद्धं सर्वमित्यनवगमाल्लोकव्यवहारविरोध 80 इत्याह-लोक इति । असत्कार्य मिति वाक्यस्य कार्यासत्त्वज्ञापकतयोक्तत्वात् विशेषविरोध इत्याह-झापकत्वादिति । प्रोक्तखवचनादिविरोधेषु त्वदभिमतधर्मविपरीतधर्मस्यैव सिद्धेर्विशेषविरोध इत्याह-प्रत्यक्षववचनादीति । स्ववचनविरोभादिषु विशेषणविशेष्याप्रसिखादिभ्यः कार्यमसदिति प्रयोगासम्भवेन प्रतिपादनेच्छाविषयस्य धर्मखरूपस्य निराकरणाद्धर्मखक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org