________________
द्वादशारनयचक्रम्
[विधिविध्यरे धर्मस्वरूपस्य प्रतिपिपादयिषितस्य निराकरणाद्धर्मस्वरूपविरोधः, एवं धर्मिस्वरूपविरोधस्तदुभयविरोधश्च यथायोगमापाद्य इत्यलमतिप्रसङ्गिन्या कथया । तस्मादयुक्तोऽसत्कार्यवादोऽग्निहोत्रं जुहुयात , इतिकर्त्तव्यतैव कर्तव्यता कुर्यादिति चाभ्युपगतः परेणेति ।
अतः पूर्वोदितदोषासम्बन्धेनेदं प्रतिपत्तव्यमात्मैव सामान्यमिति, ननु पूर्व दूषितमेवै. ६ तन्मतमात्मैव सामान्यमिति, न आत्मशब्दस्य पुरुषपर्यायत्वात् सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्तसुषुप्ततुरीयाख्याः, घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् , एवं च सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति गुणश्चात्र विद्यते ।
अत इत्यादि, अत:-एतेभ्यो दोषेभ्यो निःसृत्य किं प्रतिपत्तव्यं ? उच्यते-अतः पूर्वोदित10 दोषासम्बन्धेन-ये पूर्वमुदिता विधिवादिना सामान्यैकान्तवादे विशेषैकान्तवादे सामान्यविशेषनानात्ववादे दोषाः मयाऽपि च ये दोषा उक्ताः सामान्यादिविचारप्रत्याख्यायिनः क्रियोपदेशवादिनोऽज्ञानवादिनश्च तेषामुभयेषामपि दोषाणामसम्बन्धेनेदं प्रतिपत्तव्यमात्मैव सामान्यमिति, ननु पूर्व दूषितमेवैतन्मतमात्मैव सामान्यमिति, सुखं सुखश्च सुखादिसमुदायश्चेत्यादिपूर्वोत्तरपक्षप्रपञ्चेनेति, अत्रो.
च्यते-न, आत्मशब्दस्य पुरुषपर्यायत्वात् , अवयवानभ्युपगमात् समुदायवादपरिहारेणास्य पुरुष16 सामान्यस्यावस्थावतोऽवस्थाभ्योऽनन्यस्य तत्स्वरूपावस्थानात्तद्वैधात् , आत्मेति न वस्तुस्वरूपपर्यायवाचिनोऽत्र ग्रहणम्, किं तर्हि ? अतति सततं गच्छति तांस्तानवस्थाविशेषान् स्वरूपापरित्यागेनेत्यात्मा, स एव सामान्यं चैतन्यलक्षणम्, एवं तर्हि विशेषाभावे कस्य सामान्यमिति सामान्याभावप्रसङ्गः स मा भूदिति विशेषा वक्तव्याः, उच्यते-सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्रसुषुप्ततुरीयाख्याः, तासां स्वावस्थानां पुरुषः सामान्यमिति, किं निदर्शनमिति चेत् ? 20 घटप्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् , यथा घटस्य स्थूला ग्रीवा, बुघ्नं मध्यावस्था, सूक्ष्माश्च रूपादयो देशभेदभिन्नाः, कालभेदभिन्नाश्च नवपुराणावस्थाः, तेषामेवावस्थाभेदानामभेदेन समवस्था घटे इति, तद्वदात्मैव खावस्थानां सामान्यम् , एवञ्च कल्प्यमानं सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति गुणश्चात्र विद्यते-एवं हि सर्वसर्वात्मकं सच्च कार्यमिति मूलरहस्यमेत
नातिक्रान्तं भवति पुरुषात्मकत्वात् सर्वस्य तद्विकारमात्रत्वाच भेदानां तत्रैवान्तर्लयाविर्भावात्सर्वकार्या25 णाम् , कृकलासवर्णविशेषाणामिव कृकलासे ।
पविरोध इत्याह-तेष्वेवेति । क्रियावादमुपसंहरति-तस्मादिति । विधिविध्येकदेशं पुरुषवादमुत्थापयितुकाम आह-अत इत्यादि । विधिवादिना-क्रियावादिना,मयापि-विधिविध्येकदेशिना पुरुषवादिना,उभयेषामपि-सामान्यादित्रादेषूक्तानां क्रियोपदेशवादादिषूक्तानाञ्च । ननु आत्मैव सामान्यमिति पक्षः सामान्यस्य स्वपरविषयताविचारावसरे दूषित एव तत्किमर्थ
पुनरुत्थाप्यत इत्याशङ्कते-नन्विति । आत्मशब्दस्येति, पूर्व ह्यात्मशब्द. खरूपमात्रवाचकत्वेनोक्तः, अतस्तत्र समुदाय30 वादः प्रसक्तः, अत्र त्वात्मशब्दः पुरुषवचनोऽयञ्च पुरुषो जाग्रदाद्यवस्थावान् , अवस्थातद्वतोरभेदश्चति पूर्ववादापेक्षया वैल
क्षण्यमिति भावः । इममेव भावमात्मशब्दव्युत्पादनेन प्रदर्शयति-अततीति, खस्वरूपापरित्यागेन तासु ताखवस्थाखभेदेनानुगमनखभावश्चेतनालक्षण आत्मेत्यर्थः । निर्विशेषस्य सामान्यस्याभावात्तस्य केचन विशेषा वक्तव्या इत्याशयेनाह-एवं सीति । जाप्रदिति, जानदवस्था नाम इन्द्रियद्वारा बुद्धर्विषयाकारः परिणामः, खप्नावस्था संस्कारमात्रजन्यस्तादृशः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org