________________
भावशब्दार्थः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
२०७
अविचारोsपि चानेनैव तत्त्वेनैक्यमाश्रित्य न्याय्यो नाज्ञानप्रतिबन्धात्, इह तु ज्ञानात्मकपुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् किं विचारेण गतार्थत्वादिति ।
अविचारोsपि चेत्यादि, यदपि चानर्थको विवेकयत्नः शास्त्रेष्वित्यविचारितमिष्यते सोऽप्यनेनैव युक्तिमार्गेण तत्वेनैक्यमाश्रित्य न्याय्यः - तस्य भावस्तत्त्वं आत्मनो भावेनैक्यमाश्रित्य न्यायादनपेतो न्याय्यो नाज्ञानप्रतिबन्धात् । यद्यज्ञानप्रतिबन्धादविचारः ततः स्वयमविज्ञाते प्रमाणप्रमेयभावाभा- 5 वादयुक्तमित्युक्तम्, इह तु ज्ञानात्मक पुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् किं विचारेण ? गतार्थत्वात्, न तु ज्ञातुमशक्यत्वादिति ।
अयं तस्य प्रवृत्तिपर्यायस्य विधेर्विधिः विधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेति, यः पुनर्विधिः प्राक्तनः स न युज्यते, विधिना हि भवतीति भावः कर्त्ता सामान्यमिति सर्वतन्त्रसिद्धान्तेन व्यवस्थितेऽर्थे भेदाभेदनानाभावेषु दोषान्न भावो भवितुरभाव इति भवतीति भावो 10 घटादिरिति समर्थितः, विविच्यते च सादृश्यासादृश्याभ्याम्, सा पुनरविविक्तैव, को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन ? इति वचनात्,
अयं तस्य प्रवृत्तिपर्यायस्य विधेर्विधिर्विधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेति, तस्य - विधिनस्यायमेव विधिराचारः स्थितिरित्यादि, एवं प्रवृत्तिरित्यर्थः, या चैतन्यात्मस्वरूपा प्रवृत्तिः सा विधेर्विधिरित्येतमर्थं व्याचष्टे यः पुनर्विधिः प्राक्तनः स न युज्यते यस्माद्विधिनेत्यादि, भवतीति भावः भूप्र- 15 कृतिः कर्त्रर्था ‘प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रून' (महा० ३-१-४) इति वचनात् । भावे घञो विहितत्वाद्भूयत इति भावः, न भवतीति कर्त्रर्थ इति चेत्तत्रापि येन भूयते समानेन समानो भवतीति भावः, णप्रकरणे 'भुवोपसंख्यानम् ' ( काशिका) इति वा कर्त्ता सामान्यमित्येवं व्यवस्थितेऽर्थे सर्वतन्त्रसिद्धान्तेन - व्याकरणेन तत्र विशेषमात्रवादे देशकालभेदे परस्पर विविक्तद्रव्य देशकालभावभिन्ने भवनेऽभेदे च द्रव्यादितया भवनमात्रे सामान्य वादे नानाभावे सामान्य विशेषयोः, भेदाभेदनानाभावाः, तेषु यथासंख्यं बौद्धसांख्य- 20 वैशेषिकमतेषु दोषान्न भावः, भवितुरभावः- तत्प्रकृत्यर्थकर्तुरभावात् इतिशब्दस्य हेत्वर्थत्वात् पञ्चमीमप्रयुज्य भवितुरभावइत्युक्तम्, प्रागुक्तन्यायेन भवितुरभावात् भवतीति भावो घटादिरिति व्याकरणहष्टेन निरुत्त्यर्थेन समर्थितो विधिना, विविच्यते च सादृश्यासादृश्याभ्याम्, समानो भवतीति पृथक्
परिणामः, सुषुप्त्यवस्था द्विविधा, अर्धसमग्रलयभेदात्, अर्धलये न विषयाकारा वृत्तिर्भवति, किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिः । समग्रलये तु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवतीतीमा अवस्थाः संसारिणाम्, तुरीयावस्था तु मुक्तस्यति । 25 पूर्वोदितविधिनयस्य चतन्यात्म स्वरूपताभ्युपगम एव युक्तत्वौचित्यमित्याह-अयं तस्येति । ननु भाव इति कथं कर्त्रर्थः, भावघञन्तेन भावशब्दसिद्धेर्न तु कर्त्रर्थप्रत्ययेनेत्याशङ्कते - भावे घञ इति । विशि हेतुभिः स्वतो वा जीवादीनां तत्तद्रूपेण भवनमेव भावः सर्वसमानं भवनमिति भावघान्तेनापि व्युत्पत्तिः स्यादेव, अथवा कर्तरि णप्रत्ययेनापि भावशब्दः सिद्ध्यतीत्याह-तत्रापीति । काशिकानामव्याकरणग्रन्थविशेषे भवतेश्वति ण प्रत्ययो विहितस्तेन कर्त्तरि भावपदनिष्पत्तिः, महाभाष्यम ते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच्प्रत्यये भाव इति सिद्ध्यति । ननु विधिनयेन मेदवादेऽमेदवादे नानात्ववादे च भावशब्दार्थो न घटत 30 इति तत्तद्वाद प्रसक्कदोषव्यपेतं सर्वथाऽन्तरङ्गं घटादि वस्तु प्रतिपत्तव्यं न तु बहिरङ्गं सत्वादि तस्यापेक्षित पूर्वापर प्रमेदत्वात्, घटात्मभवनस्य चान्तरङ्गत्वात् प्रधानत्वादनपेक्षत्वात् पूर्वं वर्तमानत्वाच्च तदेव वस्तु, तच्चानुवृत्तिं व्यावृत्तिं वा नापेक्षते स्वसामर्थ्येनैव सिद्धत्वादिति व्यवस्थापितमित्याह विधिनेति । विविच्यते वेति, साहयमनुवृतिः असारइयं व्यावृत्तिः ताभ्यां भवनं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org