________________
૨૦૮ द्वादशारनयचक्रम्
[विधिविध्यरे प्रतिज्ञायते, तेषु विकल्पेषु दोषाणामभिहितत्वात् , निर्दोषभवनोक्तेश्च विविच्यते विधिना । किमेवं विविच्यत एव ? नेत्युच्यते सेति प्रतिज्ञा, सा पुनरविविक्तैव कृता 'को ह वैतद्वेद ? किं वाऽनेन ज्ञातेन, इति वचनात् ।
स एष विधिन भवति, अविविच्यमानार्थविधानात्, स्ववचनविरोधात्, अंशेन विवे5 काच्च, विविच्यमानांशोऽपि च तद्वद्विविच्यते, न स विविच्यते तथा न भवत्येव विधित्वं विधेः, किं न एतेन यदि कारणमित्याद्यविचार्य लोकवद्विधानात् ।
(स एष इति) तथाविधे विधित्वं न भवति, अविविच्यमानार्थविधानात् स्ववचनविरोधात् अंशेन विवेकाच्च, यत्राप्यंशेन विवेकस्तत्र विविच्यमानांशेऽपि च यथा भावना विधिनयवादिनाऽभिहिता तद्वद्विविच्यते, न स विविच्यते, अत्रापि परमतदूषणात् स्वमतसाधनाश्च घटादिर्भावो विविच्यते, 10 न स विविच्यते, तथा न भवत्येव विधित्वं विधेः, न विधिर्विहित एवमित्यभिप्रायः, कथं पुनर्विधीयत इति चेत् ? लोकवत् , लोक इव लोकवत् , लोकवादिति विधानात , यदि लोकवदेव विधीयते विधिरुत्सर्ग एव न भवति, कथं न भवति ? किं न एतेन यदि कारणं यदि कार्य ततः को दोषः प्रतिज्ञापि तदर्थद्वारिका न कार्येत्याद्यविचार्य विधानान्न भवति ।
किं तर्हि ?15 यदुत्सृष्टतया विधिः सिद्ध्यति लोके यथा तत्तथाऽन्यथा च भवति तथा वक्तव्यमिति विधिर्विधिर्भवत्यविवक्षितव्यावृत्तिरनङ्गीकृतभेदः ।
(यदिति) यदुत्सृष्टतया सर्वात्मकत्वेन विधिरुत्सर्गः सिद्ध्यति, तद्यथा-लोके यथा तत्तथाऽन्यथेत्यादि, अथवा यथा लोके दृष्टस्तथा विधिर्विधिर्भवति, कथं पुनर्लोके विधिर्भवति ? उच्यते-इति विधिरित्यादि, इति-इत्थमनन्तरं वक्ष्यमाणो विधिर्विधिर्भवति लोके यथा तत्तथान्यथेत्यादि, मृत्पिण्ड20 शिबकादिप्रकारेण तथाऽन्यथा च भवति यथा तथा वक्तव्यं-तश्चातच ययोपपत्त्या भवति तथा
वक्तव्यमेष विधिर्विधिः, एवं सोऽविवक्षितव्यावृत्तिरनङ्गीकृतभेदस्तिरस्कृतविशेषो निर्व्यावृत्तिरेव विधिर्विहितो भवति । उत्सृष्ट इति पर्यायशब्देनोत्सर्गो विधिरिति सर्वत्रास्य विधिलक्षणस्य दर्शयति ।
विविच्यते पृथक् क्रियत इत्यर्थः । तयोर्भवनार्थत्वं न घटते तत्र दोषाणामुक्तत्वात् , अत्र च घटात्मभवने न कोऽपि दोष इति
भावः । स च विवेको न विवेक एवेति विधिविधिनय आह-किमेवमिति। हेतुमाह-कोह वेति, अशक्यप्रायफलस्व25 योरुक्तरित्यर्थः, अत एव चैष विधिर्विधिरेव न भवति, अविविच्यमानस्यार्थस्य विधानात्, को ह वेतद्वेदेत्यनेनार्थस्य विवेच
नायोग्यत्वोक्तेः, तथापि कृते विवेचने तेनैव पचनेन विरोधः प्रसज्येत । तथापि यदि विवेकः क्रियते सोऽप्यंशेनैव, विधिमतवादिविहितविचारानुसारेणैव विवेचनात्. तच्च विवेचनम विवेचनमेवेत्याशयेनाह-स एष विधिरित्यादिना। अविवेचनत्वे हेतुमाह-अत्रापीति । परमतप्रतिषेधात् खमतसाधनाच नायं विधिः सदसद्रूपत्वात् , सदसदंशात्मनो वस्तुनो योऽयं सदंशो भावरूपस्तस्यैव विधित्वेने
भावरूपस्तस्यैव विधित्वेनोत्सर्गतो लोके प्रसिद्धरिति भावः । त्वया तु लोकवद्विधीयत इत्युच्यते परन्तु 30 तवायं विधिरुत्सर्गतो विधिरेव न भवति, किं न एतेन, यदि कारणं कार्यमपि भवेत् को दोषः, उभयथापि दर्शनात् , अत
एव च कारणं कारणमेव न कार्यमित्यादिप्रति ज्ञापि न कार्येत्येवमविचार्य विधानादित्याह-लोकवदिति । कथं तहि विधिर्भवतीति विधिनयेन पृष्टो विधिविधिनयः प्राह-यत्पृष्टतयेति । सर्वात्मकतया भवनमेवोत्सर्गतो विधिरिति लोक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org