SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ द्वादशारजयचक्रम् २१२ [विधिनियर वति तदेव तत्वं स्वञ्च स्वप्रभेदापेक्षया, तम चानुसृतत्वात् परतत्त्वाभावेन विशेष्यते स्वतत्त्वमिति, परमतापेक्षया वेति । इतर आह-तत्किमिति निरूप्यम् , आचार्य आह-तत्तु ज्ञानस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितम् , तत्-परं कारणमात्मा ज्ञानस्वतत्त्वः, तु-पुनः सः रूपादिभिरेव निरूपित:रूपरूपक्रियारूपितं तु ज्ञानं निर्णयो रूपणमित्येकोऽर्थः । तद्धि रूपणं रूपमिति-यस्मात् कारणाद्रूपणं 5 रूपमित्येकोऽर्थः, आदिग्रहणाद्रसनमाखादनं रसः, एवं शेषाणामपि, रूपणकृतात्मलाभनिरुतत्वा पणता ज्ञानमेव रूपणपर्यायत्वात् ज्ञानस्य, विभक्काविभक्त प्रहणमेव, विभक्तग्रहणं रूपं रसो गन्धा स्पर्श इति ज्ञानं रूपमिति, अविभक्तं सर्वेषु, तहिविधमपि ग्रहणमेव रूपम् , भावसाधनत्वाद्रूपशब्दस्य, न तु रूप्यते तत्तेन तस्मिन् वेत्यादि रूपम्-न तु कर्मकर्तृकरणाधिकरणसाधनं, आदिग्रहणात्तस्मै तस्माद्रूपमिति सम्प्रदानापादानकारकभेदेभ्यो रूपमिति भवितुमर्हति । 10 किं कारणम् ? रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनात् , रूपेणोपलक्षितस्य ज्ञानात्मनो रसादेर्गुणागुणिद्रव्याद्वा विभक्तस्यानवस्थानात् पुरुषभिन्नपुत्रत्वादिवत् । (रस्यत इति) रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनात् रूपेणोपलक्षितस्य ज्ञानात्मनों वस्तुनो रसादेर्गुणाद्गुणिद्रव्याद्वा विभक्तस्य व्यतिरिक्तस्यानवस्थानात्, पुरुषमिन्नपुत्रत्वादिवत्, यथा 15 अनेकसम्बन्धेन पुरुषात् पितृपुत्रभ्रातृभागिनेयमातुलत्यादिधर्माः पृथक् नावतिष्ठन्ते तथा रूपणात्मकं रूपं रसादिगुणव्यतिरेकेण तद्व्यतिरिक्तपरमाण्वादिद्रव्यव्यतिरेकेण वा नावतिष्ठते परमार्थतः, तस्मादविभक्तरूपेण तत्त्वात्मका रसाविपरमाण्वाविपृथिव्यादिभेदाः। एवं तर्हि रूपेणाविभक्ततत्त्वात्मकानां रूपवदविभक्तग्रहणं चक्षुषैव स्यात् , रसनादिभिश्च ग्रहणदर्शनात् प्रत्यक्षविरुद्धेयं कल्पनेति चेन्न, तस्य तत्त्वस्यानेकात्मत्वाभ्युपगमात् । 20 द्विधापि रूपस्याविभक्ततत्त्वात्मकतायामपि शक्यं वक्तुं रूपं रस इति प्रत्यक्षम् , भेदेन दर्शनात्, तस्यानेकात्मकस्य स्वप्रवृत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात् , रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशादित्येतच्च न, रूपादिव्यतिरिक्तादर्शनात् । भेदाभावेन खेति विशेषणं कथं सङ्गच्छत इत्यत्राह-वञ्चति । खपदं न परतत्त्वव्यावर्तनायोपात्तं तदभावात् , किन्तु निजप्रमेदापेक्षयैव, यद्वा खपरमेदस्य सत्त्वेन तदपेक्षया विज्ञेयमिति भावः । तथाविधं खं किमिति पृच्छति-इतर आहेति । तथाविधो ज्ञानवतत्त्व आत्मैव यो रूपादिभिर्निरूप्यते तदेव परं कारणं रूपादिभावमापद्यत इत्युत्तरयतितस्विति, परं कारणं पुनरित्यर्थः रूपक्रियानिरूपितत्वादूपं ज्ञानमेव रूपज्ञानं रसज्ञानमित्येवं ज्ञानस्यैव रूपादिक्रियाभिर्निरूपपावूपणकृतात्मलाभत्वाद्रूपादि ज्ञानपर्यायवाच्येवेत्याह-तद्धीति । रूपस्य ज्ञानपर्यायता च भावव्युत्पत्त्यैव, नतु कादिव्यत्पत्त्येसाह-भावसाघनत्वादिति । ननु रूपादिभ्यो विभक्तमविभक्तमपि, रूपं रस इत्येवं भिन्नशब्दनिर्देशाद्विभकं सर्वेषु रूपादिषु एकरूपेण ज्ञानस्य वृत्तेरविभक्तमपीत्याह-रस्यत इत्यादि । तत्रैव-ज्ञान एव, रूपोपलक्षितज्ञानाद्रसाधुपलक्षितस्य 30 मेदाभावादिति भावः । एवं रसादीनां रूपामेदे रूपवद्रव्यामेदे च प्रतिपादिते रसादीनां चक्षुषा ग्रहणप्रसङ्गः, रूपामिन्नत्वात्, न वैवम्, रसादीनां रसनादिना प्रावत्वात् , तस्मात्तव्यं कल्पना प्रत्यक्षविरुद्धत्याशङ्कते-एवं तहीति। रूपरसाहीमा पर भेदप्यम्युपगमात्र दोष इत्युत्तरयनि-तस्य तस्वस्येति । तस्यानेकात्मकस्थति, रसादिगुणाद्यमेदेन रसवगुण्याक Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy