________________
पुरुषसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
२११ भावावबद्धमूर्तत्वप्रक्रमानध्यास्य ततो नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव, न हि ते रूपादयः प्रतिनियतचक्षुरादिविज्ञानप्रभावितस्वरूपा मूर्त्ताः सूक्ष्मा वा। .. यथैव हीत्यादि, यथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एवेत्यादि सूक्ष्मपूर्वकत्वास्थूलस्य सूक्ष्मतां निरूप्य स्थूलत्वं निरूपयति, न हि ते रूपादयः प्रतिनियतचक्षुरादि विज्ञानप्रभावितस्वरूपा मूर्ताः स्थूला इति वा केनचिदिष्टास्तस्मादमूर्ताः, तद्भावोऽमूर्त्तत्वं तेनामूर्तत्वेन 5. वृत्तिः सैव वा सूक्ष्मा तामत्यजन्तोऽजहत एव स्वप्रवृत्तिप्तभावावबद्धमूर्त्तत्वप्रक्रमान्-स्वया प्रवृत्त्या प्रभावेन चावबद्धो मूर्तत्वेन प्रक्रमो येषां ते स्वप्रवृत्तिप्रभावावबद्धमूर्तप्रक्रमाः परमाणवः, रूपादीनामात्मीयया प्रकृत्याऽवबद्धो मूर्त्तत्वेन प्रक्रमः परमाणूनां सप्रभेदानाम् , तान् परमाणूनध्यास्येति सृष्टेः क्रमं दर्शयति दृष्टान्तरूपेण ततः-उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव । पृथिव्या अश्मलोष्ठसिकतावादयः प्रभेदाः, हिमकरकादयोऽपाम् , ज्वालाङ्गारमुर्मुरादयस्तेजसः, 10 उत्कलिकामण्डलगुञ्जाझञ्झादयो वातस्य वृक्षगुल्मवल्लीलतावितानवीरुधो वनस्पतेः, कृमिपिपीलिकाभ्रमरादिमनुष्यदेवनारका जङ्गमानामेतत् प्रवृत्तेर्निदर्शनम् । प्रभावो ह्यचिन्त्यः प्रभावस्याचिन्त्यत्वादमूर्त्तर्मूर्तसम्भवः रसवीर्यविपाकप्रभावाञ्च वस्तुनः प्रवर्त्तमानस्य विपरिणामाः तत्र निदर्शनम् 'चित्रकः कटुकः पाके वीर्योष्णः कटुको रसें । तद्वदन्ती प्रभावात्तु विरेचयति सा नरम् ॥ इति,
यथैते सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् , तन्तुपूर्वपटवत् , एवं ततोऽपि परं 15 परतोऽप्यपरं वरिष्ठं कारणं रूपादिभावमापद्यत इति प्रतिपत्तव्यम्।
(यथेति) यथैते पृथिव्यादयः सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् तन्तुपूर्वपटवत्, एवं ततोऽपि-परतोऽपि परं रूपादिभ्यः, परतोऽप्यपरमन्यत् परं वरिष्ठं प्रधानं कारणं रूपादिभावमापचत इति प्रतिपत्तव्यम् तञ्च परं यच्च कारणमात्मानममूर्तसूक्ष्मरूपादित्वेन स्थूलमूर्तपरमाणुद्विप्रदेशादिस्कन्धपृथिव्यादित्वेन चात्र विभज्यमानं प्रवर्त्तते ।
किञ्च... इति रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं यद्भवति तदेव स्वं तत्त्वं तत्तु ज्ञानस्वतत्त्व
आत्मेति रूपादिभिरेव निरूपितम्, तद्धि रूपणमिति रूपणकृतात्मलाभनिरुक्तत्वात् विभक्ताविभक्तं ग्रहणमेव रूपम् , न तु रूप्यते तत्तेन तस्मिन् वेत्यादि रूपम् ।
(इतीति) रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं परमाणुद्विप्रदेशादि पृथिव्यादिष्वप्रविभक्तस्व-25 रूपादितत्त्ववत : किं पुनस्तस्य स्वतत्त्वं ? तस्य भावस्तत्त्वं स्वार्थिको भावप्रत्ययः, तदर्शयति-यत्तद्भ- .. स्थूलत्वमेवेत्याह-नहीति । सूक्ष्माद्रूपादिलक्षणपरमाणोः स्थूलसृष्टिमाह-पृथिव्या इति । मूर्तानां भेदाः स्थूलाः प्रवृत्तेनिदर्शनम् , अमूर्तानां मूर्तभवनञ्च रूपादेः प्रभाव इत्याह-एतत्प्रवृत्तेर्निदर्शनमिति । स्थूलानां सूक्ष्मपूर्वकत्वं प्रसाध्य तस्यापि सूक्ष्मस्य परतरं कारणं यदमूर्तसूक्ष्मरूपादित्वेन विद्यमानं स्थूलमूर्तपरमाण्वादिभावमापद्यते तदाह-यथैत इति । किन्तत् परं वरिष्टं कारणमित्यत्राह- इतीति, रूपाद्यात्मना प्रविभक्तमपि स्वरूपतोऽप्रविभक्तं कारणं ज्ञानवतत्त्व 30 आत्मैव, स चात्मा रूपरसादिभिर्निरूप्यत इति भावः । तत्त्वमित्यत्र तच्छब्दात् खार्थे भावे दृश्यमानस्त्वप्रत्ययो बोध्यः,. ततो भिन्नस्य कस्यचिदप्यभावात् तस्यैव तथाभवनात् , न तु भावे प्रत्यय इति दर्शयति-तस्य भाव इति । तर्हि स्वपर
"
20
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org