________________
२१० - द्वादशारनयचक्रम्
[विधिविध्यरे व्यतिरिक्ता ? सर्वस्य ज्ञशेषत्वात् , दृष्टान्तः चक्रभ्रान्तिः, यथा कुलालप्रयत्नभ्रमितस्य चक्रस्य भ्रान्तौ कुलालप्रवृत्तिशेषत्वं ज्ञशेषत्वमेवं दध्यादेरपि ज्ञशेषत्वं गोर्जस्य शेषत्वं दध्नः, गोभुक्ततृणाद्याहारस्य रसरुधिरादिपरिणतस्य ज्ञमन्तरेण क्षीरदध्यादिभावो नास्ति ।
ननु चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां घटभवनव्यवहारे मृद्वदिहापि मूलभवितृ द्रव्यमपेक्ष्यम् , परतः परतोऽपि येन भूयते यद्भवति तदेव मौलम् , तस्माद्धटभवनमृद्धत् कुलालशेषभ्रान्तिवच्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवत् ।
(नन्विति) नन्वित्यनुज्ञापने, प्रत्यपेक्षायां-जिज्ञासायां मूलभवित्रवश्यापेक्ष्ये घटभवनव्यवहारे मृद्वत् , यथा पिण्डशिवकाद्यवस्थाक्रमेण धटभवनव्यवहारे मृदेवाद्या भवित्री तथेहापि-चक्रभ्रान्तौ भवनव्यवहारत्वान्मूलभवित द्रव्यमपेक्ष्यम् , परतःपरतोऽपि येन भूयते यद्भवति तदेव मौलं-कारणं 10 तदेवेत्यर्थस्तस्माद्बटभवनमृद्वद् भ्रान्तिभवने कुलालाद्यपेक्ष्य कुलालशेषभ्रान्तिवञ्च ज्ञशेषं सर्वम् , इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवदमूलत्वादित्यर्थः ।
स्यान्मतम्
अचेतनानामप्यभ्रादीनां चेष्टादर्शनाज्ज्ञप्रयोगमन्तरेण प्रवृत्तिर्दण्डादीनामित्येतच्चायु। कम्, ज्ञस्यैव सुप्तावस्थत्वात् , न च चक्रदण्डादि सुप्तावस्था करणनिरीहत्वात्स्वत एव 16 भवति, दधीव पयसः । एतेन दध्याद्यपि ज्ञभवनमाख्यातमेव, ज्ञशेषसुप्तावस्थात्वात् ।
(अचेतनानामपीति ) करणनिरीहत्वादिति न च चक्रदण्डादि स्वत एव भवति करणनिरीहत्वात्-करणत्वान्निरीहत्वं निरीहत्वान्न खत एव-ज्ञातुर्यनमन्तरेण तद्यत्नशेषं वाऽन्तरेण तस्यैव
सुप्तावस्था दण्डचक्रनिस्यन्दभूता निश्चेतनीभूता भवितुमर्हति, तस्मात् सापि सुप्तावस्था ज्ञस्य चैतनस्यैव .. वृत्तिर्भवितुमर्हति, दधीव पयसः, यथा दधि पयसोऽवस्था तथा दण्डचक्रादि ज्ञस्यैव कुलालस्य । 20 तस्यापि दध्यादेः कुलालयत्नशेषचक्रदण्डादिवत् ज्ञयत्नं ज्ञयत्नशेषं वाऽन्तरेण प्रवृत्त्यभावात् ज्ञवृत्तिमात्रत्वमेवेत्यर्थः।
एतस्यार्थस्य भावनार्थं दृष्टान्तमाहयथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव स्वप्रवृत्तिप्र
का वा सेति । यथा भ्रमेः परम्परया ज्ञ एव कारणं यथा वा घटादिभवनस्य परम्परया कारणं मृदेव भवित्री तथा सर्वस्य 25 जगतो मूलकारणं ज्ञ एव, तत्रैव येन भूयते यद्भवतीत्यस्य सङ्गतेरित्याह-नन्वित्यादिना । अथ चेतनानधिष्ठितस्याप्यचेतनस्थाभ्रादेश्चेष्टादर्शनात् ज्ञप्रवृत्तिमन्तरेणैव दण्डादीनां भ्रम्यादी प्रवृत्तिरित्याशङ्कते-अचेतनानामपीति । समाधत्ते-ज्ञस्यै वेति अचेतनभूतानि पुरुषस्य स्वप्नावस्थारूपाणि, तत्र जाग्रदवस्थावत् प्रवृत्त्यभावेऽपि स्तोकं प्रवृत्तिरस्त्येवेति सा ज्ञप्रवृत्तिरेव
स्य दण्डादेः प्रवृत्तिः स्वतो भवितमर्हति दण्डादीनां करणत्वेन प्रवृत्तिविरहात. प्रवृत्तः कर्तधर्मत्वादिति भावः । अचेतनानां पुरुषस्यावस्थाखरूपत्वे दृष्टान्तमाह-दधीव पयस इति. तस्यैव सुप्तावस्थति, दण्डादयोऽचेतना ज्ञस्य 30 सुप्तावस्था उच्यन्ते न तु दण्डादयो ज्ञप्रयत्नं ज्ञप्रयत्नशेष वाऽन्तरेण निश्चेतनीभूता भवितुमर्हन्ति, तस्मात् सा सुप्तावस्था
चैतनस्यैव वृत्तिरिति भावः प्रतिभाति । भवितुमर्हतीति, न चेति पूर्वं पदमत्र सम्बङ्ख्यते, शशेषत्वमेव सर्वमिति भावनायाह-यथैव हीति, रूपादयोऽमूर्ताः सूक्ष्मा एव मूर्ताः स्थूला भवन्तीत्यभिप्रायः, नहि तेषां मूर्तत्वं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org