________________
द्वादशारनयचक्रम्
[विध्यरे हवइ दा' (सम्मति का० १ गा. ३१) तथा गतिस्थित्यवगाहवर्तनालक्षणैर्धर्माधर्माकाशकालेरापेक्षिकर्जीवानामपि स्वाभाविकपारभाविकैरुपयोगशरीरादिभिः, अतस्तस्य तस्य वस्तुनो द्रव्यार्थादिष्टस्य तेषु तेषु परिणामेष्वव्यावृत्तस्वरूपत्वात्तेषाश्च तथा तदभेदात् सर्वेषां द्रव्यपर्यायाणां परस्परतश्च सदवि.
शेषाचादात्म्यमतस्तत्तद्वयाप्नोतीति व्यापीत्युच्यते, एवञ्च सति सम्मुग्धत्वाद्वस्तुनस्तद्विषययोरभिधान। प्रत्यययोर्व्यवहारनिश्चयफलयोरभावादिदोषाः स्युः, मा भूवन्निति पर्यायादेश आश्रीयते एकस्थमिति, प्रत्येकपरिसमाप्तेरसाधारणधर्माणां भावानामसङ्कीर्णरूपत्वेन स्ववृत्तिप्रतिलम्भात्, न हि कश्चित्कश्चिदपेक्ष्य भवितुमर्हति भाव इत्येकमेकमेव वस्तु, तदर्पणादेकस्थमिति चोच्यते शासनम्, तस्य तस्य पृथक् पृथगर्पणात्, खपररूपतः समप्रादेशवशाद्वयापीति, व्यापि चैकस्थश्चैकमेव तत् , एवमुत्तरेष्वपि ।
अनन्तमन्तवदपि, द्रव्यक्षेत्रफालभावादेशैरविशेषितत्वाद्विशेषितत्वाच्च । यथोक्तम्-'एयं दुवालसंगं 10 गणिपिडगं दवतो एगं पुरिसं पडुच्च सादियं सपज्जवसियं, अणेगे पुरिसे पडुच अणादियं अपज्जवसि
खेत्ततो भरतेरवते पडुच सादि सपजवसि महाविदेहे पडुच्च अणादियं अपनवसि, कालओ उसप्पिणिअवसप्पिणीओ पडुच्च सादियं सपज्जवसियं णोउसप्पिणिअवसप्पिणीओ पडुछ अणादिअं " अपजवसिअं, भावओ णं जे जहा जिणपण्णत्ता भावा' (नन्दीसूत्रे सू० ४२) इत्यनाद्यपर्यवसितं
सादिकं सपर्यवसितं च, अथवा नास्मिन्नन्तोऽस्तीत्यनन्तमन्तोऽस्तीत्यन्तवत्, कस्य ? अविशेषित16 त्वात्सर्वस्य, तद्यथोक्तम्-'इमाणं भंते ! रयणप्पभा पुढवी किं सासया असासया ! गोयमा ! सिया सासया सिया असासया, से केणटेणं भंते ! एवं वुच्चइ सिया सासया सिया असासयत्ति ? गोयमा ! दबट्टयाए सासया, वण्णपजवेहिं गंधपज्जवेहिं रसपजवेहिं फासपजवेहिं संठाणपज्जवेहिं असासया' (जीवाभिगमे ३।११७८) इत्यादि । न्यस्तं धियां पाटवे, न्यस्तं निक्षिप्तं धियामाभिनि
बोधिकज्ञानभेदानां पटुतायां कर्त्तव्यायां कारणत्वेनेत्यर्थः, यथोक्तम् 'जत्थाभिनिबोहिअनाणं तस्थ 20 सुअनाणं, जत्थ सुअनाणं तत्थाभिनिबोहिअनाणं' (नन्दी० सू. २४) इति, श्रुतज्ञामसंस्कृतधियां
अपेक्षाकारणभूतैर्धमादिभिरपि गत्यादिद्वारेण परमाणोरभिसम्बन्धं प्रदर्शयति तथा गतीत्यादिना, जीवैः सहापि उपयोगशरीरादिद्वारेणाभिसम्बन्धमाह जीवानामपीति,उपयोगो जीवखभावभूतः शरीरादयः परभावभूताः परमाणोः परिणा- मैर्यथाऽभेदस्तथापरेषामपीत्याह अतस्तस्येति. तथा द्रव्यपर्यायभूतानामनेकेषामपि वस्तूनां सदविशेषादभेदमाह-सर्वेषामिति । तन्मात्राभ्युपगमे दोषमादर्शयति एवञ्च सतीति, सदविशेषात् सर्वेषां तादात्म्ये सतीत्यर्थः, सत्यभिधाने व्यवहारः प्रवर्तते सति प्रत्यये च निश्चयो भवतीति व्यवहारनिश्चयो अभिधानप्रत्यययोः फले, वस्तुन एकरूपत्वे तयोरभावः स्यादित्यर्थः, आदिना च कार्यकारणप्रमाणप्रमेयादीनां ग्रहणम् । प्रत्येकेति, भावरूपा विशेषा हि खत एव सजातीयविजातीयविलक्षणा अत एव नेतरसाधारणाः स्वस्मिन्नेव परिसमाप्ताः खात्मनैवात्मलाभाः न परं किञ्चिद्वस्त्वपेक्षत इति भावः । तस्य तस्येति, यदा शासनं द्रव्यार्पणं करोति तदा केवलं द्रव्य एवाभिप्रायादेकस्मिन्नेव वर्त्तते तथा पर्यायार्पणं यदा करोति तदा तत्रैवाभिप्रायात् एकस्मिन्नेव तिष्ठतीत्येकस्थं शासनं खपररूपेण समग्रनयार्पणात्तु व्याप्नोति सर्वाणि वस्तूनीति व्याप्यपि भवतीति 30 भावः । साक्षादेव शासनस्यानन्तत्वमन्तवत्त्वञ्चाह द्रव्यक्षेत्रेत्यादि । वस्तूनां तथात्वप्रतिपादनद्वारेण शासनस्य तथात्वमा. .हाथवेति । जत्थ इति, यत्र पुरुषे आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकशानम् , यद्यपि यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्येवोक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमित्यव्यभिचाराद्गम्यत एव, तथापि नियमाबोधात्तदवधारणार्थमुभयविधानम् । घटादीनां सर्वदा नित्यैकान्तखभावत्वे तदर्थ कुम्भकारादिचेष्टावैयर्थ्य, अप्राप्यरूपाभावात्, सदैकरूपत्वादेव चादानादिक्रिया न स्यात्, अनादेयैकखरूपत्वादन्यथा पूर्वखरूपपरित्यागादनित्य एवं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org