________________
शासनस्तवः]
न्यायागमानुसारिणीव्याख्यासमेतम् नित्य एवानित्य एवावक्तव्य एवेत्येवमायेकान्तवादग्राहेषु घटादिः कुम्भकारादिचेष्टाऽऽदानाद्यभावप्रसङ्गान्न नित्य एव चिकीर्षास्मरणप्रत्यभिज्ञानसंरक्षणाद्यभावप्रसङ्गानानित्य एव, स्वरूपानवधारणे वाग्व्यवहारोच्छित्तिप्रसङ्गादवक्तव्य इति वक्तव्यत्वावक्तव्यत्वयोः स्ववचनविरोधान्नावक्तव्य एवेत्येवमादिदोषप्रदर्शनेन स्यान्नित्यः स्यादनित्यः स्यादवक्तव्य इत्यनेकान्ताभ्युपगमाद्यथाप्रमाणं धर्मधर्मिव्यवस्थानात्तदोषपरिहारेण वस्तुस्वरूपोपपादनेन परमतनिषेधानुज्ञानाभ्यां प्रवादिनां परस्परविरोधनिरोधैक- । वाक्योपानयनान्मध्यस्थसाक्षिवत् प्रमाणीभूतम् , तेषामपि तत्त्वावबोधपाटवाधानसमर्थत्वात् । स्यान्मतं नन्वत एव स्थाणुपुरुषादिविषयसंशयविपर्ययवन्नित्यानित्याद्यनेकान्तविकल्पात्मकत्वाद्वयामोहहेतुरपि, कालनियतिस्वभावपुरुषदेवेश्वरयहच्छायेकान्तकारणविकल्पान्जगत्प्रतानविस्मृतिदर्शनादिति, अत्रीच्यते, व्यत्यासधीरास्पदत्वात् , एकपुरुषपितृपुत्रत्वादिवत् , जैनं हि शासनं जगत्प्रभेदैकान्तगतीळत्यस्य-व्यावर्स परस्परविरोधनिवारणेनानेकान्तात्मकत्वप्रतिष्ठानसमाधानकारणमेकान्तानेकवादसमाहा- 10 रात्मकैकप्रतिपत्तिकं परमतनिषेधानुमोदनाभ्यामेव न काल एव न नियतिरेव, एककारणवादिनां हि कारणसत्त्ववत् कार्यसत्त्वेऽनैकान्तिकत्वात् , कारणस्यापि कारणवत्त्वेऽनवस्थादोषादनेककारणत्वप्रसङ्गादनेककारणत्वस्य सिद्धेः, अनेककारणत्वेऽपि सदाद्यविशेषादनन्वयाभावादित्यादिदोषात्, कालोऽपि नियतिरपीत्याद्यनेकान्ते त्वदोषदर्शनाल्लौकिकवादसंवादि । यथोक्तम् 'कचिन्नियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतंत्रवृत्ताः कचित् । स्वयंकृतभुजः कचित् परकृतोपभोगाः पुनर्न 15 वा विशदवाददोषमलिनोऽस्यहो ! विस्मयः ॥' (सिद्धसेनद्वात्रिंशिका ३. श्लो० ८) इति । तदेवंविधं : शासनमूर्जितं, खातच्यात् परमतोपजीविवैलव्यरहितत्वात् परैराघातस्य सुसिद्धान्तताऽत्यागात् कल्पनान्तराश्रयणाभावादनाकुलत्वाच्च, जेतृत्वाद्वोर्जितमनन्तरोक्तहेतुभिर्जयति, परस्परानुवर्तिनयोत्साहबलसम्पदुपेतत्वाद्वा जयत्येव, उदितपुण्यनयोपेतचक्रवर्तिशासनवत् । तत्तु सर्वथा योगिनां गम्यं सर्वनयनपञ्चसंस्कृतधियामनन्तविषयप्रज्ञत्वात्तेषाम् , अस्मदादिभिरेकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनु- 20 मानेन गम्यते, न गम्यं कचिदिति, यथैकदेशागम्यत्वेनाभिभवनीयत्वेऽप्यन्यत्र गम्यताविषयः खण्ड्यते
स्यादित्याशयेनोक्तं कुम्भकारादीति । अनित्यैकरूपत्वे च क्षणिकतया चिकीर्षादिकालेऽभावेन तदभावप्रसङ्ग इत्युक्तं चिकीर्षेति, घटादीनामवक्तव्यत्वैकान्ते तत्स्वरूपनिर्धारणासम्भवाद्धटपटादिरूपेण वाचां व्यवहारो न स्यात् , तथाऽवक्तव्य इत्यवक्तव्यशब्देनाभिधानादवक्तव्य इत्यनुक्ते वक्तव्यत्वप्राप्तेश्च खवचनविरोध इति मत्वाह-स्वरूपेति । स्थानिय इत्यनित्योपसर्जननित्यत्वप्रतिपादको भङ्गः, स्यादनित्य इति नित्यत्वोपसर्जनानित्यत्वप्रतिपादकोऽपरः द्वयोधर्मयोः प्राधान्येन 25 गुणभावेन च प्रतिपादने न किञ्चिद्वचः समर्थमित्यवाच्यताप्रतिपादकस्तृतीय इति । यथैकस्मिन्नेव पुरुषे पितृत्वं पुत्रत्वं चावि-: रोधेन व्यवस्थितं तथैकत्र नित्यत्वानित्यत्वादीनां निश्चितरूपतया प्रमाणतोऽवगाहनान्न व्यामोह इत्याशयेनोक्तमेकपुरुषेति । परमतेति, एकान्तत्वं निषिध्य तदुक्तकालनियत्याद्यनुमोदनत इति भावः । परमतेति, अन्यमतेषु परस्परविवादयोग्यविषयदर्शनतो दृश्यते विह्वलता तदत्र शासने नास्तीत्यर्थः । परैरिति, परैरभ्युपेतमपि यन्न सुसिद्धान्तत्वं जहाति तदिति, परदर्शने यः कश्चन समीचीनः सिद्धान्तो दृश्यते स न त्यज्यते, योग्यं वस्तु योग्यतयैवाभ्युपैति शासनमिदमिति 30 वाऽभिप्रायः। कल्पनेति, प्रागुक्तार्थसमीकरणार्थ कल्पनान्तराश्रयणमग्रे वक्ष्यमाणमत्र शासने नास्तीति भावः । यथैः. कदेशेति, यथैकदेशदर्शनादपरदेशोऽनुमीयते तथैकदेशादर्शनेन तस्य प्रतिक्षेप्यतया तन्निदर्शनेनान्येऽपि देशा गम्या अपि परदर्शनेषु निराक्रियमाणा दृश्यंते यथा मरुमरीचिकादौ जलभ्रान्तेरभिभवनीयतावत्सत्यजलज्ञानमपि खण्ड्यते विज्ञान
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org