________________
द्वादशारनयचक्रम्
[विध्यरे वथा मा भूदिति न गम्यं कचित्, अथवा गमनीयं गम्य-प्रतिपादनीयं, न गम्यमप्रतिपादनीयं लोकप्रसिद्धव्यवहारानुपातिस्याद्वादपरिग्रहस्फुटपदार्थत्वात् , एकदेशगतेः शेषसुगमत्वात् । अयोग्यपुरुषापेक्षया वा न गमयितव्यं यथा स्थूलमतये न वाच्याः सूक्ष्मा अर्थाः स तानगृह्णानः व्याकुलितमना मिथ्यात्वं वा गच्छेदपरिणामात्' इति अथवा प्रागसमीक्ष्योक्तार्थसमीकरणा) कल्पनान्तरैनगमनीयं कचित्, यथा बौद्धैः सर्व क्षणिकमिति प्रतिज्ञाय स्मृत्यभिज्ञानबन्धमोक्षाभावदोषपरिहारार्थ सन्तानकल्पना, प्रधाननित्यतां प्रतिज्ञाय परिणामकल्पना व्यक्तात्मना कापिले, 'क्रियागुणवत्समवायिकारण मिति (वैशेषिकदर्शने अ. १ आ०१ सू० १५) सामान्यतो द्रव्यलक्षणं प्रतिज्ञायैकान्तनित्यानित्यवादवव्याप्तिपरिहारार्थमद्रव्यमनेकद्रव्यञ्च द्विविधं द्रव्यमिति, द्रव्यत्वञ्च सामान्यविशे. पाख्यं तत्तत्त्वमिति द्रव्यपर्यायनयद्वयाश्रयणेन पदार्थप्रणयनं काणभुजे, तथा द्रव्यगुणकर्माणि नानेति 10 प्रतिज्ञाय तदत्यन्तभेदे नीलोत्पलादिसद्व्यादिसामानाधिकरण्यविशेषणविशेष्यत्वादिव्यवहाराभावदोषभयाचत्सिद्ध्यर्थ 'सदिति यतो द्रव्यगुणकर्मसु सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता (वैशे० अ०१ आ०२ सू०७१८) इत्याश्रितपदार्थव्याजेन द्रव्यार्थपर्यायार्थाश्रयणं सङ्करदोषपरिहारार्थश्च सामान्यस्यान्यविशेषस्य च परिकल्पनेति । वाचां भागमतीय वाग्विनियतमिति, प्रज्ञापनीयेष्वेव भावेष्वनन्तासंख्येयसंख्येयभागगुणहानिवृद्धिभ्यां क्षयोपशमविशेषापेक्षया मतिविशेषाभ्युपगमाञ्चतुर्दशपूर्वधरा16 णामपि परस्परतः षट्स्थानपतितत्वमद्यतनपुरुषेन्द्रियशक्त्युत्कर्षापकर्षवत् । उक्तञ्च 'जं चउदसपुत. धरा छहामगया परुप्परं होति । तेण उ अणंतभागो पण्णवणिजाण जं सुत्तं ॥ पण्णवणिज्जा भावा अणतभागो उ अमभिलप्पाणं । पण्णवाणिजाणं पुण अणंतभागो सुअणिबद्धो ॥ अक्खरलंभेण समा ऊणहिया होति मइविसेसेहिं । ते वि य मइविसेसे सुअणाणभंतरे जाण ॥' (विशेषा० गा० १४१-१४२-१४३) इति । शेषन्यग्भवनेनेत्यादि, परवादतिरस्कारेण जेष्यत्येव, तदवश्यं स्तुतिद्वारेण
20 वादिभिस्तथाऽत्र नेति भावः । परिस्फुटपदार्थानामप्रतिपादनीयत्वे हेतुमाह एकदेशगतेरिति । व्याकुलितमना इति,
सम्यक्परिणतजिनवचना अपि विस्तरेण नयाख्यायमानये सूक्ष्माः सूक्ष्मतराश्च मेदास्तान् गृहीतुमशक्काः परिणतत्वादेव मिथ्यावागमनेऽपि व्याकलितमनसो भवेयरिति भावः, मिथ्यात्वं वेति. येऽतिपरिणता अतिव्याच्याऽपवाददृष्टयस्तबाऽपरिणता अपरिणतजिनवचनरहस्यास्ते एकनयप्रतिपादितं वस्तुमात्रमेव प्रमाणतया गृहन्तोऽपरनयप्रतिपादितमर्थ विरुद्ध ग्रहाना नयानां वा परस्परविरुद्धार्थतां मन्वाना मिथ्यात्वं गच्छेयुरिति भावः ॥ एकान्तनित्येति, एकान्तनित्येऽभ्युपगम्यमाने कार्याभावादेकान्तानिये च क्षणिकत्वेन क्रियाऽसंभवाद्रव्यलक्षणमव्याप्तं स्यादिति भावः । सङ्करेति, परस्परभेदसाधकस्य कस्यापि विशेषस्याभावादिति भावः । जं इति, चतुर्दशपूर्वधराः परस्परं हीनाधिक्येन षट्स्थानपतिता भवन्ति, हीनता चानन्तभागासंख्येयभागसंख्येयभागानन्तगुणासंख्येयगुणसंख्येयगुणैराधिक्यमप्येवम् , तस्याद्यञ्चतुर्दशपूर्वलक्षणं सूत्र तत्वज्ञापनीयानां भावानामनन्तभाग एव, सूत्रनिबद्धानां प्रज्ञापनीयभावतुल्यत्वे तद्वेदिनां षट्स्थानपतितत्वं न स्यात् । पणवाणिज्जा इति, वचनपर्यायत्वेन श्रुतज्ञानगोचरा भूभवनविमानादिभावाः सर्वेऽपि अर्थपर्यायत्वेनावचनगोचरापना 30 नामनन्ततम एव भागे वर्तन्ते, प्रज्ञापनीयपदार्थानान्त्वनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते गणधरैः साक्षाद्रथितः ॥
अक्खरलंमेण इति, चतुर्दशपूर्वगतसूत्रलक्षणाक्षरलाभेन तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः क्षयोपशमवैचित्र्यादक्षरलाभानुसारिभिरेन तेस्तैर्मम्बार्थविषयैर्बुद्धि विशेषैहीनाधिका भवन्ति, यैश्च ते हीनाधिकास्ते मतिविशेषाः श्रुतज्ञानान्तविन एव,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org