________________
शासनप्रतिपाद्यम् ]
न्यायागमानुसारिणीम्याक्यासमेतम्
भवता तत्सामर्थ्याङ्गीकरणात्, नूनमेतत् प्रतिपादयिष्यति भवान् तदनुरोधेनैव कस्यचिदिति, किं तत् कस्यचित् प्रसादेन जयति ? विवदमानस्य गले पादं कृत्वा जयतीत्यभिप्रायः ।
यदेवंविधं तत्र किमाश्चर्य जयत्यूर्जितश्चेति, किंतर्हि ? एवंविधतैव तु प्रतिपादनीया, किमेवं प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत्,
यदेवंविधमिति, यद्योगिनामेव सर्वथा गम्यं न गम्यं कचिदप्यन्येषां वाचां भागमतीत्य वाग्वि- 6 नियतं व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे व्यामोहे तु जगत्प्रतान विसृविव्यत्यास धीरास्पदं, जगत्प्रतानविसृतिव्यत्यासेन धीरमास्पदं - अचलं प्रतिष्ठानश्च यस्य तत्र किमाश्चर्य जयत्यूर्जितश्चेति, किं तर्हि ? एवंविधत्तैव तु प्रतिपादनीया, अन्यमता साधारणगुणता, सैव विरोधधर्मसम्भावनाभावादुष्प्रतिपादेत्यभिप्रायः । अत्राचार्य आह- किमेवं प्रतिपाद्यमस्ति ? प्रतिपादितमेव तत् ।
यस्मात्
द्रव्यार्थ पर्यायार्थद्वित्वम्,
द्रव्यार्थ पर्यायार्थेत्यादि, द्रव्येणार्थी द्रव्यार्थः, द्रव्यमर्थोऽस्येति वा, अथवा द्रव्यार्थिकः द्रव्यमेवार्थो यस्य सोऽयं स्वार्थिकोऽयं उन् प्रत्ययः, द्रव्यार्थिकः । एवं पर्यायार्थः पर्यायार्थिको वा, 'अर्थाच्चासन्निहिते' (पाणिनिसूत्रे ५।२।१३५ वार्त्तिकम् ) इति वचनादर्थिप्रत्यर्थिवदिनिरेव स्यादिति चेन्न, असन्निधानाभावात्तदर्थस्य । अथवा अस्तीत्यस्य मतिरित्यास्तिकः, द्रव्य आस्तिको द्रव्यास्तिकः, एवं पर्यायास्तिकः, तयोर्द्वयोर्भावो द्वित्वं न तदादेयमनन्ता हि नयविकल्पाः, वचनपथतुल्यसंख्यपरसमयतुल्यत्वान्नयानाम्, 'जावइया वयणपहा तावइआ चेव हुंति णयवाया । जावइआ णयवाया तावइआ चैव परसमया ॥' ( सम्म० कां ३ गा० ४७ )
तदुपष्टम्भविधिभेदपदार्थानामेकवाक्यविधिविधानादवबोधसमुद्रावयवीभूतं शासनं
Jain Education International 2010_04
10
दुरवगाहमेवंविधमेव ।
न त्वाभिनिबोधिकान्तवर्त्तिन इति गाथार्थः ॥ तदिति, परवादतिरस्करणेत्यर्थः । प्रतिपादयिष्यतीति, विधिनियमभङ्गवृत्तीत्यादिकारिकायाम् । परवादतिरस्कारस्वशासनजययोरन्योन्याविनाभावान्न कस्यचिदनुग्रहेण जयोऽपि तु स्वसामर्थ्यासिद्धत्वादिति भावः । द्रव्येति, गुणपर्याययोर्भाजनं सदा खजात्यैकस्वरूपं यद्भवति न तु पर्यायवत्परावृत्तिं भजते तद्रव्यमुच्यते, यथा ज्ञानादिगुणपर्यायभाजनं जीवद्रव्यं रूपादिगुणपर्यायभाजनं पुद्गलद्रव्यं श्वेतरक्तत्वादिघटत्वादिगुणपर्यायभाजनं मद्रव्यं यथा वा तन्तवः पटापेक्षया द्रव्यं, किन्त्ववयवापेक्षया पर्यायाः, यतः पटविचाले पटावस्थाविचाले च तन्तूनां मेदो नास्ति, तन्त्व- 25 वयवावस्थायामन्वयत्वरूपो भेदोऽस्ति, तस्मात् पुद्गलस्कंधमध्ये द्रव्यपर्यायत्वमापेक्षिकं बोध्यम् । अत्र द्रव्यपदेनोतासामान्यं ग्राह्यं तिर्यक्सामान्यन्तु प्रतिव्यक्तिसदृशपरिणतिलक्षणं व्यञ्जनपर्याय एव, स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धेः । पर्यायो द्विविधो व्यञ्जनपर्यायोऽर्थपर्यायश्चेति, यस्य त्रिकालस्पर्शनः पर्यायः स व्यञ्जनपर्यायः यथा घटादीनां मृदादिपर्यायो व्यञ्जनपर्यायः मृन्मयः, सुवर्णादिधातुमयो वा, घटः कालत्रयेऽपि मृदादिपर्यायत्वं व्यञ्जयति, सूक्ष्मवर्त्तमानकालवर्त्ती अर्थपर्यायः यथा घटादेस्तत्तत्क्षणवर्त्ती पर्यायः । जावइया इति, अनेकान्तात्मकवस्त्वेक 30 वेशस्यान्यनिरपेक्षस्यावधारणमपरिशुद्धो नयः, तन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्ग हेतवो नयास्तावन्त एव भवन्ति नयवायाः तत्प्रतिपादकाः शब्दाः, यावन्तो नयवादाखावन्त एव परसमया भवन्ति, खेच्छापरिकल्पितनिबन्धनत्वात् परसमयान परिमितिर्न विद्यत इत्यर्थः ।
For Private & Personal Use Only
15
20
www.jainelibrary.org