________________
द्वादशारनयचक्रम्
[विध्यरे (तदिति) एवंविधविकल्पोपकृप्तनयजालोपष्टम्भविधिभेदपदार्थानामेकवाक्यविधिः, तस्य विधानादशेषज्ञानान्यवयवा अस्य सर्वनयजनितानि, अवबोधसमुद्र एवाभेदेनावयवीभूतो यस्मिंस्तदवबोधसमुद्रावयवीभूतं शासनं दुरवगाहं गम्भीराक्षोभ्यपदार्थरत्नाकरत्वसामान्यात् , एवंविधमेवेति, उक्तनय. तरङ्गभङ्गसङ्ग्रहप्रस्तारात्मकमविकलपदार्थावद्योतनादनेकादित्यसमूहवत् कृतप्रकाशं तमसोऽवकाशाभावात्सवितसहस्रवद्भास्वरत्वादनभिभवनीयम् ॥ .. तद्व्यतिरिक्तशासनिवचनानि प्रत्यक्षानुमानविनिश्चयपदार्थानां विपर्ययप्रणयनेन विसंवादीनि, विपर्ययप्रणयनञ्च रूपादय एव घटो घट एव रूपादयो रूपादयश्च घटश्च, न रूपादयो न घट इति वा, अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वेन जनयितुमलम् ।
(तदिति) तद्व्यतिरिक्ताः शासनिनः कपिलव्यासकणादशौद्धोदनिमस्करिप्रभृतयः, तेषां वच10 नानि विसंवादीनि, प्रत्यक्षानुमानविनिश्चेयपदार्थाः रूपादयो घटादयोऽम्यादयश्च, तेषां विपर्ययेण प्रणयनं तैः कृतं तेन विपर्ययप्रणयनेन निरुक्तीकृतं विसंवादित्वम् । तत्कथं ? प्रत्यक्षविनिश्चेये तावद्युगपद्भाविषु प्रतिनियतेन्द्रियविषयेषु घटाद्युपादानग्रहणाभावात् न रूपादय एव, रूपाद्यन्यतमग्रहणद्वारमन्तरेण घटाद्यग्रहणात् , तदभावे तदभावाच न द्रव्यमानमेव । अयुगपद्भाविष्वपि पिण्डशिव
कादिषु मृदग्रहणे पिण्डशिवकाद्यग्रहणान्मृदभावे पिण्डशिबकाद्यभावान्न पर्याया एव, मृदोऽपि शिव15 काद्यन्यतमावस्थाविशेषाग्रहणमन्तरेणाग्रहणात्तभावे तदभावाच न द्रव्यमेव । एतेनाम्यादिधूमादिलिङ्गलिङ्गिव्यवहारो व्याख्यातः अनुमानविनिश्चयेऽपि न विशेषा एव निर्मूलत्वात् , खपुष्पवत् । न सामान्यमेवाविशेषितत्वात् खपुष्पवत् । तस्मादेवं प्रत्यक्षानुमानविनिश्चेयपदार्थेषु सर्वलोकप्रसिद्धेषु विपर्ययप्रणयनमन्यशासनिनां रूपादय एव घट इत्यादि, रूपादयश्च घटश्चेति, रूपादिर्गुणो घटोऽवयवी
एवंविधविकल्पोपलप्तनयजालेति, तत्पदार्थवर्णनं निजव्यावर्णिताभिप्रायानुरोधात् । विधिः सामान्यं द्रव्यं वा विशेषः पर्यायो वा एकवाक्यविधिविधानञ्चैकान्तताव्यवच्छेदेन परस्परसापेक्षतासमर्थनम्, अत एवेदं शासनं निखिलनयजनिताशेषज्ञानलक्षणावयवसमुदायात्मकमपि सापेक्षत्वलक्षणविशेषादवयवि च. वाच्यवाचकयोः कथञ्चिदमेदादिति भावः । रूपादय एव घट इति कपिलाभिप्रायेण, सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरिति वर्णनेन गुणसमुदायस्यैव द्रव्यत्वात्, घट एव रूपादय इति व्यासाभिप्रायेण सन्मात्राभ्युपगमात्, रूपादयश्च घटश्चेति कणादाभिप्रायेण, सामान्यविशेषयोरभ्युपगमात्, न रूपादयो न घट इति शून्यवादिबौद्धविशेषाभिप्रायेण, रूपादयो घटादय इति प्रत्यक्षविनिश्चेयद्रव्यपर्यायलक्षण25 पदार्थापेक्षया. अग्न्यादयश्चेत्यनुमेयपदार्थापेक्षया निरुक्तीकृतमिति निर्वचनं कृतं व्यवस्थापितमित्यर्थः। घटाद्यपादानेति,
धर्मिग्रहणाभावे कस्य रूपादयो धर्मा इति गृह्येत, साक्षाद्रूपादिना सन्निकर्षासम्भवादिति भावः । घटाद्यग्रहणादिति द्रव्यप्रत्यक्षे रूपस्य कारणत्वाभ्युपगमाद्रूपाग्रहणे कथं घटादिग्रहणमिति भावः। तदभावे-रूपाद्यभावे तदभावात्-घटायभावात् । द्रव्यसहभावपर्याययोरभावमुक्त्वा द्रव्यक्रमभाविपर्याययोः तमाहायुगपदिति, मूले अलमिति वारणार्थकम् 'अलं भूषणपर्याप्तिशक्तिवारणवाचक मिति कोशात् , असमर्थमित्यर्थः। तदेव व्याख्यानमाह-न विशेषा एवेति, केवलं विशेषो नानुमेयः, 30 निर्मूलत्वात् , तथाविधैकान्तविशेषाभावात् , अननुयायित्वेन प्रतिबन्धग्रहासम्भवाद्वा, प्रतिबन्धग्रहणं हि पक्षसपक्षादिवृत्ती
स्यात्, विशेषश्च प्रतिव्यक्तिविश्रान्त इति कथं तन्निरूपितः प्रतिबन्धः साधने गृथेत, यदि च पक्षसपक्षवृत्तित्वमभ्युपगम्यते तर्हि स विशेषः सामान्यरूप एव स्यादनुवृत्तिरूपत्वादिति भावः । अविशेषितत्वादिति, विशेषविधुरस्य तस्यार्थक्रियाकारित्वविकलत्वेनावस्तुत्वात् , सामान्यस्य सिद्धत्वेन साध्यत्वासम्भवाचेति भावः । रूपादय इति, द्रव्यपर्याययोः सामान्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org