________________
नयधकार्थः] न्यायागमानुसारिणीव्याख्यासमेतम् त्यर्थः । अश्रावणशब्दवादिवचनवदिति, सर्वलोकप्रसिद्धेन्द्रियप्रत्यक्षविरोधिवचनोदाहरणादनुमानविरोधाद्यप्युदाहृतमेव । आशङ्कामपि सत्यत्वेन जनयितुमलमिति, निःसन्दिग्धमेवासत्यत्वं तेषामित्यर्थः ॥ .
अपि च लौकिकव्यवहारोऽपि नित्यानित्यावक्तव्याद्यनेकान्तवस्तुविषय एव, तदपह्नवप्रवृत्तशेषशासनेषु साध्विदमिति विचारो व्यामोहोपनिबन्धनमिति शेषशासनविसंवदनजनितास्थं प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययं तत एव च प्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं शास- 5 नमूर्जितं जयतीति प्रत्याम्नायते ॥
अपि च लौकिकव्यवहारोपीत्यादि यावद्व्यामोहोपनिबन्धनमिति, सातिशयबुद्धिभिरपि परीक्षकैनिरतिशयलोकप्रसिद्ध्यनुवर्तिभिः परात्ममतविशेषप्रतिपत्तिनिराकरणतत्त्वप्रतिपादने कार्ये,इतरथा साक्षिविरहितव्यवहारवदनिश्चिताथैव परीक्षा स्यात् । लौकिकास्तु नित्यानित्यावक्तव्याद्यनेकान्तरूपमेव घटादिकमर्थमव्युत्पन्नमपि प्रतिपद्य व्यवहरन्तो दृश्यन्ते, तदपह्नवप्रवृत्तयश्चैकान्तवादा नित्य एवानित्य 10 एवावक्तव्य एव घट इत्यादयः । तत्र शेषशासनेषु साध्विदमिति विचारो व्यामोहस्यैव निबन्धनं हेतुरित्यर्थः, विचारानवकाशाद्विसंवादाच्च लोकप्रत्यक्षादिविनिश्वितेऽपि, किं पुनरतीन्द्रियार्थे । शेषशासनविसंवदनजनितास्थमिति, शेषशासनानां विसंवदनेन जनिता आस्थाऽस्मिन् जिनशासनेऽस्माकमिदं वरिष्ठमिति परपक्षदौःस्थित्यादेव स्वपक्षसिद्धिराविष्कृता, अथवा स्वपक्षसौस्थित्यामनुमानमप्यस्तीत्याहप्रमाणद्वयसंसिद्धीत्यादि, लौकिकपरीक्षकाणां प्रत्यक्षानुमानप्रामाण्यं प्रत्यविसंवादात् पूर्वन्यायेन स्थिता- 15 स्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकारणाभ्यां द्वयेन द्वयस्य वा प्रत्यक्षेणानुमानेन च तद्विनिश्वेयपदार्थद्वयस्य संसिद्धिस्तया सम्पादितः प्रत्ययः प्रमाणं जैन्यां प्रक्रियायां तत एव च प्रतिष्ठापितमत्यन्तपरोक्षेऽप्यर्थे मेरूत्तरकुरुद्वीपसमुद्रविमानभवननरकप्रस्तारप्रमाणादौ श्रद्धानं यस्मिंस्तदिदमूर्जितं जयतीति प्रत्याम्नायतेऽन्यथा प्रामाण्याभावात् । यथोक्तम् 'प्रत्यक्षग्रहे सिद्ध्यति परोक्षग्रहः सिद्ध्येत्तदसिद्धौ सम्भावनाभाव एव प्रत्यक्षविसंवादित्वादुन्मत्तवाक्यवदिति ॥
_ अस्य चार्थस्य पूर्वमहोदधिसमुत्थितनयप्रभूततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकामात्रस्य प्रतिपादकस्य नयचक्रस्य शास्त्रस्य संक्षिप्तार्थ गाथासूत्रम्
विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् ।
जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ अस्य चार्थस्येत्यादि यावद्गाथासूत्रमित्यन्तेन शास्त्रारम्भसम्बन्धप्रयोजनाभिधानम्, पूर्वमहोद- 25 विशेषयोर्वाऽन्यतरोभयानुभयपक्षभेदेनोदाहरणचतुष्टयं प्रदर्शितम् । तेषामिति, द्रव्यपर्यायार्थयोरन्यतरैकान्तशास्त्रप्रबन्धः प्रस्तुतवस्तुविच्छेदपरमार्थत्वाद्विघटितार्थो दशदाडिमानि षडपूपा इत्यादिवाक्यवदतोऽसत्यत्वमेवेति भावः । एवञ्च वक्ष्यमाणविध्यादिसर्वभङ्गात्मकैकवृत्तिः सम्यग्दर्शनं प्रत्येकञ्च मिथ्यादर्शनमिति यावत्। परात्मेति, परीक्षकैः परमतप्रतिक्षेपनिजमतप्रतिपत्तिप्रकटनपुरस्सरं तत्त्वप्रतिपादनं कार्यम् , केवलं खमतप्रतिपादनेन परमतविभञ्जनेन वा न तत्त्वव्यवस्था सम्भविनीत्यभिप्रायः । नयचक्रस्येति, नयन्ति गमयन्ति पदार्थानिति नयाः-वस्तुनोऽनेकात्मकस्यान्यतमैकात्मकपरिग्रहात्मकास्तेषां चक्रं समूहो नय-30 चक्र नयसमूहः स्याद्वादरूपः, यतोऽस्मादेव सर्वनयानामुत्थानमतस्तेऽरसंस्थानीयाः, स्याद्वादश्चक्रम् , अस्याशेषनयाराणाचाहद्वचनं निबन्धनमतो जिनवचनमहासमुद्रस्य तरङ्गा नयाः, तुंबकरणञ्च सविकल्पद्वादशनयचकैकवाक्यानयनसाधनम् , एतद्वादशाप्यरनया ऐकपद्येनान्योऽन्यापेक्षवृत्तयः सत्यार्थाः, घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति परस्परापेक्षायामेव भवति, एवञ्चाशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिः, अन्यथात्ववृत्तिः यथाऽराणां तुंबप्रतिबद्धा वृत्तिः।
द्वा० न० २
20
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org