________________
द्वादशारजयचक्रम्
[विध्यरे घिसमुस्विवनयप्रभूततरङ्गागमप्रभ्रष्टश्लिष्टार्यकणिकामात्रमिति सम्बन्धः, न स्वमनीषिकयोच्यते प्रमाणागमपरम्पराऽऽगतमेवेदमित्यर्थः, अन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं प्रयोजनं शिष्यानुग्रहमान्यवाकर्तुमशक्यत्वात् , नयचक्राख्यमारभ्यं शास्त्रं, तदन्तरेण तदसिद्धेः। शिष्यस्य प्रसङ्गविप्रसृतघियो मा भूत्यामोह इति संक्षिप्तार्थ गाथासूत्रमिदं विधिनियमेत्यादि । अन्यशासनानृतत्वप्रतिपादनसाधनमिदमर्थापत्त्या तु शुद्धपदोच्चारणवद्विधिनियमभङ्गवृत्तियुक्तत्वाज्जैनं वचः सत्यमिति गम्यते ।
तद्व्याचक्षाणः सूरिविधिनियमशब्दावलौकिकाविति परो मा मंस्तेति तत्पर्यायशब्दानुचारयतिविधिराचारः स्थितिः क्रमो न्याय इत्यादि, नियमो विशेषो व्याप्य इत्यादि,
विधिराचार इत्यादि, विधीयत इति विधिर्भावसाधनो व्याहृतः कत्रों वा यो विदधाति स कर्चा द्रघ्यार्थः, को विदधाति ? पिण्डशिवकादिभावान्मृद्विदधाति, तया हि मृदा शिवकादयो विधी० यन्ते, लक्षणतस्त्वनपेक्षितव्यावृत्तिभेदार्थो द्रव्यार्थों विधिः, लोके दृष्टत्वात् । आ मर्यादया चारः भाचारा, आत्मरूपापरित्यागः पररूपानपेक्षः, एवं स्थित्यादिषु योज्यम् , पर्यायार्थस्तु नियमो निराधिक्वे, आधिक्येन यमनं नियमः परस्परप्रतिविविक्तभवनादिधर्मलक्षणः प्रतिक्षणनियतोऽवस्था विशेषः, युगपद्भाव्ययुगपद्भावी रूपादिः शिवकादिश्च यो यो भवति स स एवेति, पर्यायशब्दानां शेषाणामप्य
यमों यथाक्षरं योज्यः। 15 तयोर्भङ्गाः विधिविधिविधिविध्युभयं विधिनियममुभयमुभयविधिरुभयोभयमुभयनियमो नियमो नियमविधिनियमोभयं नियमनियम इति,
तयोर्भङ्गा विधिर्विधीत्यादि, तत्र विधिरनपेक्षितभेदानुगतिव्यावृत्तिव्यापारो यथा गौरिति, विधिविधिस्तु शुक्लादिभेदनियमवादिनं प्रत्यत्र भेदप्रतिपादनव्यापृतः कोऽयं शुक्लादिभेदो नाम गोत्वव्यतिरिक्त इति, विधिनियमोऽतिप्रसक्तस्य विशेषेऽवस्थापनम् , विधिप्रधानस्यैव तदंशेऽवस्थापनं यथा
20 अन्यशासनेत्यादि, अन्यशासबेष्वनृतत्वं जैनशासने सत्यत्वञ्च वृत्तिपदोपादानात् सिद्ध्यति, तद्रहणं हि अशेषभबॅकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् , तथाहि स्याद्वादे खप्रतिबद्धसर्वन्यभवात्मिका एकैव वृत्तिः सत्या, रत्नावलीवत् , यथा प्रतिविशिष्टजातिवर्णछायादिगुणगणोपेतमणिगणसमूहात्मिकैकैव रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना न प्रत्येक तथा विध्यादिनयाः, स्याद्वादघटकतया तु सत्याः, एवञ्च सर्वेषामेकान्तनयानामवृत्तिरेवासत्यत्वात्, स्याद्वादाप्रतिबद्धत्वाच्च, तथा च प्रयोगः जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्धपनिबन्धनप्रतिष्ठितार्थत्वात्, समीचीना सम्प्रसिद्धिः 25 सम्यक्सप्रसिद्धिः सामान्यविशेषविकल्पान्योन्याजहद्वृत्त्या वस्तुतत्त्वनिष्पत्तिः प्रत्यक्षानुमानागमलोकप्रसिख्याद्यविरोधेन तस्या
उपनिवन्धनेन प्रतिष्ठितोऽर्थो यस्य तद्भावादित्यर्थः । अयमेव भावार्थोऽर्थापत्त्या विधिनियमभनयुक्तत्वाज्जैनं वचः सत्यमिति वाक्यस्य। विधिरित्यादि. 'अणपन्वी पडिवाडी कमो य नाओ ठिईअ मजा या होड विहाणं च तहा विहीए एगछिया हुंति' ॥ इति विधिपर्यायशब्दाः। तत्रेति, सर्वसङ्ग्रहात्मको विधिनयोऽतो भेदात्मकानुगतिव्यावृत्तिव्यापार नापेक्षत
इति भावः, तत्राथाश्चत्वारो विधिभजाः, विधिः, विधेविधिः, विधेर्विधिनियम, विधेर्नियम इति, मध्यमाश्चत्वार उभयभङ्गा 30विधिनियम, विधिनियमस्य विधिः, विधिनियमस्य विधिनियम, विधिनियमस्य नियम इति, पाश्चात्याश्चत्वारो नियमभङ्गाः, नियमः, नियमस्य विधिः, नियमस्य विधिनियम, नियमस्य नियम इति । एते द्वादश विधा भङ्गनया एकान्तरूपाः प्रस्तुतवस्तुविच्छेदपरमार्थत्वाद्विघटितार्थाः, विध्यादिवृत्त्येकात्मकत्वाच्च जैनं शासनं सत्यमिति बोध्यम् तत्र प्रस्तुतवस्तुविच्छेदपरमार्थत्वं समखनयचक्रशामेण भाव्यते, तथा च प्रत्येकं तेषां नयानां तत्प्रतिपादकशास्त्राणां वाऽनृतत्वे सिद्धेऽर्थापत्या परस्परसापेक्षतयैकवाक्यतापमास्तेनिनवचनभूतास्सत्या भवन्ति, अत्र पक्षे जिनवचनसत्यत्वेऽन्यशासनानृतत्वे विधिनियमभनवृत्तिव्यतिरि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org