________________
विधिवृत्त्यारम्भः] न्यायागमानुसारिणीव्याख्यासमेतम् गां शुक्लामानयेति, तदुभयात्मको विधेर्विधिनियमौ, विधिनियमन्तु विधिश्च नियमच विधिनियम द्वन्द्वैकमावः, तुल्यकक्षौ विधिनियमावेव सहितौ द्वयात्मकं सर्वमिति । शेषा यथायोगमेतद्व्याख्यानुसारेण व्याख्येया भङ्गाः । सामान्येन तु कारणं विधिः कार्य नियमः उभयं विधिनियमं शेषास्तद्विकल्पा एक ॥
एवं भङ्गान् व्यवस्थाप्येदानी वृत्तिं व्याख्यातुकाम आह
तेषां विधिनियमभङ्गानां वृत्ति नसत्यत्वसाधनवृत्तानुवृत्तिादशविकल्पविशेषणा, । अन्यथा प्रत्येक स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवत् ।
तेषां विधिनियमभङ्गानां वृत्तिरिति, तस्यास्तु लक्षणं खविषयसम्पातनेन भावितार्थानामात्मीय आत्मीये विषयेऽवतार्य यया तदर्था भाव्यन्ते तथा हि तथा भवन्ति नान्यथेति, नित्य एवाकृतकत्वादाकाश्वत्, अनित्य एव कृतकत्वाद्धटवद्वेति, यथोक्तम्-'द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेश. नयनान्नय' इति । प्रत्यक्षानुमानाभ्यां पूर्ववस्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकारणाभ्यां वस्तुनो 10 वृत्ति तत्त्वमित्यत आह-जैनसत्यत्वसाधनवृत्तानुवृत्तिर्विवक्षितद्वादशविकल्पविशेषणेति, तत्समाहारैकरूपतया तद्व्याख्यानमित्यर्थः, अनेकसम्बन्धदेवदत्तपितृपुत्रत्वादिधर्मसमाहारैकरूपवस्तुतत्त्वव्याख्यानवत् । अन्यथेत्येकान्तावधारणे, प्रत्येकं स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवदिति तदित्वमिद्मेव शास्त्रं वय॑तीति परस्परव्याहततत्त्वास्त्ववृत्तय एव ता इत्यर्थः, वृत्तितत्त्वविनिश्चिचीषायां साच विध्यादिप्रत्येकवृत्तिाख्यानसमधिगम्येति तद्व्याख्या कार्या किं कारणं ? तत्समुदायकार्यत्वात्तस्याः। 15
इममर्थ विस्तरेण व्याख्यातुकाम उद्दिशति
तत्र विधिवृत्तिस्तावत् यथालोकग्राहमेव वस्तु, परीक्षकाभिमानिनां तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तेर्लोकाभिप्रायोऽविवेकयत्नः शास्त्रेष्विति ।
तत्र विधिवृत्तिरित्यादि, तत्रैतास्वनन्तरोद्दिष्टासु विध्यादिवृत्तिषु विधिवृत्तिस्तावद्यथालोकप्राहमेव वस्तु, लोकस्य ग्राहः, ग्राहवद्राहः, यथा जलचरो ग्राहः प्राण्यन्तराण्यभ्यात्म आकर्षति तथा 20 लोकोऽपि स्वाभिप्रायसकाशं सर्वमाकर्षति, यो यो लोकमाहो यथालोकग्राहं, एवेत्यवधारणालोकाभिप्रायं नातिवर्त्तते वस्त्वित्यर्थः । परीक्षकाभिमानिनान्तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तरसंस्ततो लोकाभिप्रायोऽविवेकयत्नः शास्त्रेष्विति, इति शब्दो हेत्वर्थे, यस्मादेतमर्थ प्रतिपादयिष्यामस्तस्माद्यथालोकग्राहमेव वस्तु ततो लोकाभिप्रायाद्विवेकयत्नानर्थक्यम् ।
कत्वार्थापत्तिभ्यां साधनद्वयं भवति, साधर्म्यवैधाभ्यां विधिनियमभङ्गवृत्त्यात्मकत्वमेकमेव वा साधनं निखिलैकान्तवादिदू-25 षणेऽनेकान्तवादिपक्षसाधने च प्रभवति, एकस्य साधनसाधर्म्यवैधर्म्यदृष्टान्ताभ्यामन्वयव्यतिरेकप्रदर्शनात्मकाभ्यां जैनशासमसत्यत्वान्यशासनानृतत्वलक्षणार्थद्वय प्रतिपादनात् , विध्यादिनियमानामेकभावे सर्वभावात् परस्परापेक्षत्वादेकाभावे सर्वाभावादतः परस्परापेक्षकैकभनवृत्तिरपि हेतुर्भवितुमर्हतीति द्वादशविकल्पविशेषणेत्युक्तम् , सर्वमिदं ग्रन्थान्ते प्रदर्शयिष्यते ॥ तदिस्थमिदमेवेति, घटादिवस्तु नित्यमेव, अनित्यमेव, एकान्तमित्यताया एकान्तानित्यताया आवेदकमेव सावं नान्वदिति परस्परविम्बतत्ववादा अकृत्तिरूपा एवेत्यर्थः । वृत्तितत्त्वविनिधिचीपासमिति, इशिखभालविधवेच्छामा 30
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org