________________
द्वादशारनयचक्रम्
[ विध्यरे तत्कथमिति चेदुच्यते
सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् ? स्वस्यात्मनि वर्तेत ? परस्य वाऽऽत्मनि ? तत्राचं तावदेकस्य सर्वत्वात्सर्वस्य चैकत्वात् स्वविषयं घटस्याऽऽत्मनि वर्तते
यद्येवं सामान्यविरोधः। B (सामान्येति) सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम् ? सामान्य वस्तुनो घटा
देरात्मनि वर्तेत ? परस्य वा पटादेरात्मनि घटाद्वयतिरिच्यमाने ? चतुर्वप्येषु विकल्पेषु सांख्यादीनां दोष इति मन्यमानो लौकिकः पक्षं ग्राहयति दुदूषयिषुः सोपपत्तिकं तत्रेति, तत्राद्यं सामान्य तावदेकस्य सर्वत्वाद्यदि स्वविषयं सर्वमेकं, एकञ्च सर्वम् , कस्मात् ? कारणस्य वैश्वरूप्यात् , यथाह-'सर्व
सर्वात्मकम्', यद्येवं कस्मात् सर्वमेकत्र नोपलभ्यते सर्वत्र चैकमिति ? उच्यते, देशकालाऽऽकारनिमित्ता10 वबन्धात्तु न सर्वकालमात्माभिव्यक्तिस्तेषामिति मन्यामहे । जलभूम्योरप्येतत् पारिणामिकं रसादिवै। श्वरूप्यं स्थावरस्य जङ्गमतां गतस्य जङ्गमाभ्यवहृतवनस्पत्यादेजङ्गमशरीरपरिणामापन्नस्य, जङ्गमस्यापि स्थावरतां गतस्य स्थावराभ्यवहृतस्य तत्परिणतस्य, एवं स्थावरस्य स्थावरतां गतस्य जङ्गमस्य जङ्गमतां गतस्य । तस्मात् सर्व सर्वात्मकम् , तत एकस्य सर्वत्वात् सर्वस्य चैकत्वात् स्वविषयं सामान्यं घटस्मात्मनि वर्तत इति परमतं प्रदश्र्योत्तरमाह-यद्येवं सामान्यविरोध इति, सामान्यस्य विरोधः, सामा15 म्येन च विरोधः।
तत्कथं ? उच्यते
यदि सामान्यं तत आत्मा न भवति, अनेकार्थविषयत्वात्सामान्यस्य । यद्यात्मा ततोऽपि न सामान्यम् , एकत्वादात्मनः, सेनाहस्तिनोरिव । ...
(यदीति) यदि सामान्यं तत आत्मा न भवत्यनेकार्थवृत्तित्वात्सामान्यस्य, कश्चिदर्थः केनचिदर्थेन 20 कैश्चिद्धमैः समानो भवतीति कृत्वाऽनेकार्थविषयं सामान्यं तस्मादनेकार्थविषयत्वात् सामान्यस्य वस्तुनः स्वमात्मा घटादेरेकरूपस्य न भवत्येकत्वादात्मनः, सामान्यस्य च निवृत्तेरात्मनश्चात्माभावात् कस्य सामान्यम् ? अथ मा भूदेष दोष इत्यात्मेष्यते ततोऽपि न सामान्यम् , एकत्वादात्मनः केन सामान्य तस्येत्यात्मनः सामान्येन विरोधः, समानभावो हि सामान्यम् , सेनाहस्तिनोरिवेति, हस्त्यश्वरथपदाति
समूहः सेनेत्यनेकार्थापेक्षां दर्शयति, हस्तीति चैकार्थतां दर्शयति । 25 जातायामित्यर्थः, स्वविषयौ सामान्यविषयौ, परविषयौ-द्रव्यक्षेत्रकालभावविषयौ, सांख्यमते वस्तुमात्रस्य सर्वसर्वात्म
कत्वात् घटादिवस्त्वेव सामान्यमिति । यद्वा सामान्यं किं खापेक्षयैव सामान्यं किंवाऽन्यापेक्षया, एवं विशेषोऽपि । एकस्य .. सर्वत्वादिति, प्रकृतिरेवैका घटपटादिनानाजगद्रूपेण परिणमते परिणामपरिणामिनोरभेदात् सर्वात्मिकेत्यर्थः । सर्वस्य
चैकत्वादिति, घटपटादीनां सर्वेषां प्रकृती लयादेकात्मकत्वमिति भावः । आत्मनि वर्तत इति, अभेदेन वर्तत इत्यर्थः । वैश्वरूप्यादिति, विश्वरूपं नानारूपं तदेव वैश्वरूप्यं चतुर्वर्णादित्वात् खार्थिकः ध्यन् , कारणस्य सर्वात्मकत्वा. 30दित्यर्थः । स्थावरजङ्गमाभ्यवहृतस्यान्योऽन्यरसरुधिरादिरूपादिपरिणामापत्तिलक्षणवैश्वरूप्यदर्शनात् सर्वे सर्वात्मकमिति
भावः, यदि सामान्यमिति, अयं भावः यदि घटाद्यात्मनि सामान्यमभेदेन वर्तेत तर्हि किं सामान्यमात्मस्वरूपतापन्न सद्वर्तते आत्मा वा सामान्यखरूपतापन्नः सन् इति, तत्रात्मा यदि सामान्यखरूपतापन्नः स्यात्तर्हि आत्मखरूपमेव न स्यात् , सामान्यरूपतयाऽनेकार्थविषयत्वेनैकरूपत्वक्षतेः। यदि च सामान्यमेवात्मखरूपतापन्नं भवति तर्हि सामान्यखरूपमेव न स्यात्,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org