SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आत्मसामान्याभेददूषणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् तं परिहर्तुकामस्य परस्याभिप्रायमाह अथोच्येत स्यादेव विरोधो यद्यात्मनः सामान्यमिति भेदेन स्वत्वमभ्युपगम्येत, इहत्वात्मैव सामान्यम्, किं तत् ? घटादेः सत्त्वादिरात्मा, स हि तत्समुदायकार्यत्वात्सामान्यम्, यथोक्तम्- “आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सन्निवेशमात्रम्, कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् । सुखानां शब्दस्पर्शर - छ सरूपगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम्, दुःखानां शोषतापभेदस्तम्भोद्वेगापद्वेगाः, मूढानामावरणसादनापध्वंसनबैभत्स्यदैन्यगौरवाणीति । तथा कारणात्मकाः श्रोत्र - त्वक्चक्षुर्जिह्वाम्राणवाग्घस्तपादपायूपस्थमनांस्येकादशनारकतैर्यग्योनमानुष्यदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादिति । एवं पृथिव्यादि गवादि घटादि । अधोच्येतेति, यद्यपि व्यतिरेकार्थषष्ठीप्रापितः स्वस्वाम्यादिभेदः तथाप्यदोषो व्यपदेशिवद्भा- 10 वात्, राहोः शिर इत्याद्यव्यतिरेकषष्ठीदर्शनादिति, किं तर्हि ? ब्रूमः ( इहेति ) ( घटादीति ) तस्मात् सत्वादिर्घटादेरात्मा स हि तत्समुदायकार्यत्वात् सामान्यम्, तस्मादात्मैव सामान्यमिति । कृप अत्र ब्रूमः, एवं सत्यात्मभेदः तत्कथमिति चेदुच्यते सुखं सुखश्च सुखादिसमुदयश्च सत्त्वं सुखं, रजोदुःखं, तमो - मोहस्तत्रयमैकात्म्यादेकमेवेति । एवं शेषावपि । १३ (अत्र ब्रूम इति) सुखाद्येकम सामान्यमितीष्टस्य सामान्यस्य भेदः, तत्कथमिति चेदुच्यते सुखं 15 सुख सुखादिसमुदयश्च सत्त्वं सुखम्, रजो-दु:खम्, तमो - मोहस्तत्रयमैकात्म्यादेकमेवेति, सुखस्य सुखत्वं तत्समुदायत्वञ्च प्राप्तम्, किं कारणम् ? तदात्मत्वात् यस्मात्सुखाद्यात्मकः समुदायः समुदायात्मकञ्च सुखम्, एवं शेषावपीति दुःखमोहावतिदिशति, एवं दुःखं दुःखञ्च दुःखादिसमुदयश्च, मोहो मोह मोहादिसमुदायश्च । ततः को दोष इति चेत् ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् । ( ततश्चेति ) समुदायैककार्याणां त्रयाणामेकत्वाभ्युपगमादेकः तत्साम्यावस्थाविशेषः, तस्माच्चा Jain Education International 2010_04 आत्मरूपतयैकत्वेनानेकविषयत्वक्षतेरिति । यदि चात्मा सामान्यमिति वस्तुद्वयमेव नास्ति, अन्यथाऽत्मनः सामान्यमात्मनि वा सामान्यमित्येवं पञ्चमीषष्ठीसप्तम्यादितो भेदेन निर्देशः स्यात् किन्तु यदेव सामान्यं स एवात्मा, य एवाऽऽत्मा तदेव सामान्यमित्युच्यत इति शङ्कामाह अथोच्येतेति, राहोः शिर इत्यादिवत् व्यपदेशिवद्भावेनाभेदे षष्ठ्याऽऽत्मनः सामान्यमिति निर्देशः, 25 यस्य ह्येक एव पुत्रस्तस्य यथा स एव ज्येष्ठ इति कनिष्ठ इति च व्यपदिश्यते तथाऽत्रापि खत्वं स्वामित्वञ्चैकस्यैवात्मन इत्यभेद लक्षणा स्वस्वामिभावसम्बन्धे षष्ठी बोध्या । सन्निवेशमात्रमिति, अयं सांख्याभिप्रायः, यज्जातिसमन्वितं यदुपलभ्यते तत्तन्मयकारणसम्भूतम् यथा घटशरावादयो भेदा मृज्जात्यन्विताः ते मृदात्मक कारणसम्भूताः सुखदुःखादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते प्रसादादिकार्योपलब्धेः, सुखमिति सत्त्वमेवोच्यते रजश्च दुःखं तमश्च मोहः, एषाञ्च महदादीनां प्रसादादिकार्यमुपलभ्यते तस्मात् सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यनुमीयन्ते तथा चैषां प्रसादादिकार्यतः 30 सुखाद्यन्वितत्वात्तदन्वयाच्च तन्मयप्रकृतिसम्भूतत्वं सिद्धमेवं च सत्त्वादेस्तेषामात्मत्वात्सामान्यमिति ॥ समुदायैककार्या णामिति, एवे कार्यभेदा यदि प्रधानस्वभावा एव कथमेषां तत्कार्यतया प्रवृत्तिः नहि तस्मादव्यतिरिक्तस्य तत्कारणत्वं कार्यत्वं वा युक्तं तयोर्भिन्नलक्षणत्वादन्यथाऽसंकीर्णव्यवस्थाभावात् प्रकृतिः कारणमेव महदादेः कार्यत्वं कारणत्वश्च षोडशको For Private & Personal Use Only 20 www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy