________________
१४
द्वादशारनयचक्रम्
वस्थाविशेषादप्रच्युतत्वात् कुतो गुणानां वैषम्यम्, वैषम्याभावे कुतः प्रकृतेर्महदहङ्कारतन्मात्रभूतेन्द्रियादिपूर्वोत्तरहेतुकार्य भावः ।
15
अत्राशङ्का
नित्यमेव त्र्यात्मकमिति चेत् ? तथापि सुतरां तथा एकत्वनित्यत्वात् प्रकाशप्रवृत्तिनि5 यमकार्यभेदाभावादनारम्भः, वैषम्यनिर्मूलता च, उभयस्य चाभावः ।
[
(नित्यमेवेति ) प्रधानावस्थायामपि त्रिगुणत्वान्नित्यं सर्वकालं ज्यात्मकं सत्त्वरजस्तम आत्मकभगुणवैषम्य विपरिणामकारणत्वादुपपद्यते सुखादिसमुदायात्मकत्वेऽपि, आत्मभेददोषश्च नास्तीति । एतदपि वाड्यात्रत्वादनुत्तरं ( इत्याह तथापीति ) एकत्वस्य नित्यत्वादेकत्वेन वा नित्यत्वात् सदैकत्वादित्यर्थः । प्रकाशप्रवृत्तिनियमकार्यभेदः सत्त्वरजस्तमसां योऽभ्युपगम्यते भवद्भिराचार्य पवनपाषाणवत् 10 तद्यथा-नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मनाऽऽत्मनो नर्त्तिकायाश्च व्यवतिष्ठते, पचनः पर्ण - 'चालनादिना खपरप्रवर्त्तनेन व्यवतिष्ठते, नौस्तम्भनपाषाणकः स्वपरनियमने व्यवतिष्ठते तथा सस्वरजस्तमांसीत्येतन्नोपपद्यते सर्वकालमेकत्वनित्यत्वात्, भेदाभावादनारम्भः प्रधानावस्थायामिव गुणानां सर्वकालं कार्यानारम्भो निर्व्यापारत्वात् । वैषम्यनिर्मूलता च, आरम्भाभावात्, उभयस्य चाभावः कारणस्य कार्यस्य च, अथवा आत्मनः सामान्यस्य च, सुखादेः समुदायिनः तत्समुदायस्य च प्रधानस्म । किं कारणम् ?–
-
अन्यतराव्यवस्थानेऽन्यतरस्याव्यवस्थानात्, यथा च प्रधानावस्थायां सदा त्रिगुणैकत्वाद्विरुद्धधर्माविषयेते त्रित्वैकत्वाद्यात्मस्वतत्त्वातिक्रमेणाव्यतिरिक्तत्रिगुणैकरूपता चेष्यते एवमेव शब्दादौ, तन्मयत्वात्ततश्च सर्वस्यावस्थानाद्यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम्, ततश्चाङ्गीकृतपुरुषार्थयत्लार्थहानिः प्रधानपुरुषसंयोगत्रित्यपरिज्ञानार्थ20 शास्त्रयत्नहानिरपि ॥
( अन्यतरेति ) तत्कथं भाव्यत इति चेदुच्यते यथा च प्रधानावस्थायामित्यादि यावत्रित्यैकत्वाद्यात्मस्वतन्त्वातिक्रमेणेति, त्रित्वैकत्वादीत्यनुक्तपरामर्शः, यथा त्रित्वमेकत्वं च चिरुद्धौ धर्माविषयेते, एवमवयवा अवयवी च, अन्यदनन्यच्च, आत्मानात्मा च सर्वमसर्वश्चेत्यादि, आदिग्रहणात् स्थूलं सूक्ष्मवेत्यादि सामर्थ्यादापादनीयम्, एष दृष्टान्तः, साधर्म्यं सदा त्रिगुणैकत्वादिति, त्रित्वैकत्वाद्यात्म स्वतत्वा26 तिक्रमेणेति विरोधधर्मसम्बन्धः, अव्यतिरिक्तत्रिगुणैकरूपता चेष्यत इति प्रधानस्यैव दृष्टान्तस्य वर्णनम्,
गणः कार्यमेवेति व्यवस्था न स्यात् । एवं सत्त्वरजस्तमसा भेदो न स्यादेकात्म्यात् सर्वमेव च विश्वं सदैकरूपमेव स्यादिति । प्रधानावस्थायामपीति, स्वभावतः त्रैगुण्यरूपेण प्रधानं नित्यं सत्वरजस्तमसां तूत्कटानुत्कटत्वविशेषात् कार्यवैचित्र्यं न
पूर्वभावोत्पत्त्या कार्यकारणभाव इष्टो येन खरूपामेदे सति स न स्यात् किंतु सर्पकुंडलादिवत् परिणामपरिणामिभावः परिणामचैकवस्त्वधिष्ठानत्वादभेदेऽपि न विरुध्यत इति पूर्वपक्षाशयः, सदैकत्वादिति, प्रधानं हि नित्यं नित्यस्य च क्रमाक्रमा30 भ्यामर्थक्रियाविरोधान्न कार्यभेदः सिद्ध्यति, परिणामोऽपि पूर्वरूपस्यापरित्यागेऽवस्था सांकर्यात् परित्यागे च स्वभावहानिप्रसङ्गाच्च संभवति व्यवस्थितस्य च धर्मिणः धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽपि न सम्भवति धर्मभेदे धर्मगतंद स्वत्वेनापरिणतत्वप्रसङ्गात्, अभेदे च धर्मयोर्विनाशोत्पादवतोर्धर्मिस्वरूपवदेकत्वं धर्मखरूपवा भर्मिणोऽपि विनाशोत्पादयोः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org