________________
परविषयताप्रतिक्षेपः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
एवमेव शब्दादाविति दार्शन्तिकोपनयः, त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च शब्दतन्मात्रादिषु तत्कार्येष्वाकाशादिषु भूतेष्वेकगुणादिवृद्धेषु तद्विकारेषु च गवादिघटादिषु च श्रोत्रादिष्वेकादशस्विन्द्रियेषु च प्रधानधर्मा आपाद्याः । किं कारणं ? तन्मयत्वात्, सत्त्वादिगुणमयं हि तत्, ततश्च सर्वस्यावस्थानात् प्रधानावस्थायामिव न किञ्चित् सूत्रादि पटादि वा कस्यचित्कारणं कार्यं वा प्रमाणं प्रमेयं बेति नियमाभावात् सर्वत्र यादृच्छिकी प्रवृत्तिः प्रसक्ता, यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारण- 5 कार्यनैयम्यम्, ततश्च यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः पुरुषश्चैतन्यस्वरूपः, तस्यार्थो द्विविधः, शब्दाद्युपलब्धिरादिः, गुणपुरुषान्तरोपलब्धिरन्तः, तत्कृत्वा तद्विनिवर्त्तत इति, तस्मै पुरुषार्थाय यत्नः प्रधानस्य, तस्य यत्नस्यार्थः प्रयोजनं तस्य हानि:, यादृच्छिकत्वात् तस्य च हानौ प्रधानपुरुषसंयोग त्रित्वपरिज्ञानार्थशास्त्रयनहानिरपि ॥
सामान्यविशेषयोश्च सम्बन्धित्वादाद्यन्तवत्पितापुत्रवद्धा सामान्याभ्युपगमे विशेषपक्षा - 10 पत्तिरपि ॥
सामान्यविशेषयोश्च सम्बन्धिस्वादित्यादि यावद्विशेषपश्चापचिरपीति, सामान्यं विशेष इत्येतौ परस्परसम्बन्धिनौ, आद्यन्तवत् पितापुत्रवद्वा, तत्र यदि सामान्यमभ्युपगम्यते विशेषापेशित्वात् सामान्यस्य विशेषोऽप्यभ्युपेयः पितृत्वाभ्युपगमे पुत्रत्वाभ्युपगमवत्, विशेषाभ्युपगमे च सामान्याभ्युपगमस्तद्वदेवेत्यतस्ते बलादेव विशेषपक्षापचिरपि नियमपक्षापत्तिरित्यर्थः अपिशब्दात् 15 प्रागुक्तदोषापत्तिः, एवं तावत् स्वविषयत्वे सामान्यस्य दोषा उक्ताः ॥
परविषयतायामपि -
परविषयतायामप्यसमानावस्थानादसामान्यम्, लौकिकैर्द्रव्यादीनामनवधृतैकतरकार
१५
णत्वात् ।
( परविषयतायामिति) अमुख्यसामान्यानां सदृशानुप्रवृत्तिव्यावृत्तिलक्षणानां परेष्टानां पर- 20 विषयाणामसम्भवात् स्वेष्टसमानभवनलक्षणसामान्यसम्भवात् परकीयसामान्यमेवेत्युपसंहरिष्यते लौकिकस्तत् सिद्धं कृत्वा वावदाह - असमानावस्थानादसामान्यमिति । तत्पुनर्द्रव्यक्षेत्रकालभावविषयम्, ते हि
प्रसंङ्गान्न कश्चित् परिणामीति परिणामवशादपि न कार्यकारणभाव इति भावः । आपाद्या इति, शब्दादयः त्रिगुणाव्यतिरेकैकरूननः सदा त्रियुणैकत्वात् तन्मयत्वाद्वा प्रधानवदिति प्रयोगः, शब्दाद्युपलब्धिरिति, पुरुषस्य शब्दरूपादिप्रदर्शनार्थं प्रकृतिपुरुषान्यताख्यापनखरूपकैवल्यार्थञ्च प्रधानस्य प्रवृत्तिरिति । प्रधानावस्थायामिवेति प्रधानावस्थायां सत्वादिगुणमयस्य 25 सर्वस्य सद्भावेऽपि यथा कार्यकारणभावादिर्नास्ति तथैव सृष्टिकालेऽपि सर्वेषां सद्भावात्कार्यकारणभावादिनियमाभावेन लोके परिदृश्यमानप्रवृत्तिनिवृत्योर्बच्छामात्रता स्वात् साध्यसाधनभावाभावादेव पुरुषार्थयनानर्थक्यश्चेति । सम्बन्धित्वादिति पर-स्परसाक्षात्यारिलर्थ:, यदि सामान्यमिति, सामान्यस्यैवाभ्युपगमे विशेषाभावे सर्वथैकत्वात् समानत्वमेवानुपपन्नं स्यादिति सामान्यं विशेयमपेक्षते विशेषोऽपि तदिति द्वयमपि परस्पराविनाभावि तेनैकपक्षाभ्युपगमेऽपरपक्षापत्ति दुर्वारैवेति भावः । अमुष्येति, खाश्वमनुतित्तिर्वा न मुख्यं सामान्यं समानेन भूयत इति सामान्यलक्षणादर्शनात् किन्तु द्रव्या- 30 दीनां यत्समानभवनं तदेव मुरूगं सामान्यम् । सांख्यमते सादृश्यस्य न्यायमतेऽनुवृत्तेबद्धमते व्यावृत्तेः सामान्यतेति भावः, परविषयतायामपीत्यत्र परत्वं प्रकाशयति तत्पुनरिति, एकतरेत्यसङ्गतं बहूनां निर्धारणे विहितप्रत्ययनिम्मित्तप्रकृत्वभावादि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org