________________
१६ द्वादशारनयचक्रम्
[विध्यरे द्रव्यादयः परे परिष्यमाणाः घटादेर्वस्तुनस्तदपि परसदपेक्ष्य समानमित्युच्यते नात्मानमेवेति परविषयम् , किं पुनः कारणं तदसामान्यमित्यत आह-अनवधृतैकतरकारणत्वादिति, नावध्रियते द्रव्यमेव क्षेत्रमेव काल एव भाव एव वा कारणमिति । एवं तकतमकारणत्वादिति वाच्यम्, न चात्र डतरडतमौ प्राप्नुतः, कस्मात् ? 'अन्यकिंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्, वा बहूनां जातिपरिप्रश्ने 5 डतमजि'त्यत्र (पाणि० ५।३।९१-९२) एकशब्दस्यापठितत्वात् । एवं तातिशायिकस्तरप्प्रत्ययः, समानगुणेषु हि स्पर्धा भवति । गुणवचनाभावान्नेति चेत् कारणत्वगुणतोऽतिशयो भविष्यति, एवं तर्हि तमबस्त्विति चेहयोर्द्वयोः प्रकर्षविवक्षायां तरबित्यदोषः, अथवा 'एकाच्च प्राचा'मिति (पा० ५।३। ९४) जातिपरिप्रश्नेऽस्त्येव डतरजित्यदोषः। केनानवधृतैकतरकारणत्वं द्रव्यादीनामिति चेदुच्यते लौकिकैर्व्यवहारनयप्रधानः स चाहतनयैकदेश एव, न पुनर्यथा शास्त्रकाराः सामान्यमेव विशेष एव द्रव्या10 धन्यतम एव कारणं कार्य वेत्यवधारयन्ति ।
कथं पुनर्द्रव्यादिकारणताऽवधार्यते नयेनेति ? उच्यते
द्रव्यं तावत् सर्वतंत्रसिद्धान्ते 'द्रव्यञ्च भव्ये (पा० ५।३।१०४) इत्युक्तत्वात् युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति द्रव्यमपि भवनलक्षणं व्यापि।
(द्रव्यं तावदिति) तच्च द्रव्यमपि भवनलक्षणं व्यापीत्यभिसम्भत्स्यते, अपिशब्दात् क्षेत्रमपि, 15 सर्वतंत्रसिद्धान्ते व्याकरणे द्रव्यं च भव्य इत्युक्तत्वाद्भवतीति भव्यं भवनयोग्यं वा द्रव्यं द्रवति द्रोष्यति
दुद्रावेति दुः, द्रोर्विकारोऽवयवो वा द्रव्यं दुद्रु गतौ सदैव गत्यात्मकत्वाद्विपरिणामात्मकं हि तत् । ननु यथा गुणसन्द्रावो द्रव्यं 'क्रियावद्दुणवत्समवायिकारणमिति द्रव्यलक्षणमिति वा कथं भवतीति चेत्, भिद्यत इति भेदः भेदेन भवितुं शीला, तस्या धर्मो वा स तु भवतीति भेदभाविनी मृत् तस्या भवनं भेदभाविमृद्भवनं तदेव परमोऽर्थः, कोऽसौ ? रूपादयः शिवकादयश्च, ते पुनर्यथासंख्य 20 युगपदयुगपञ्च, भेदभाविमृद्भवनपरमार्थरूपादिशिवकादयः, समानाधिकरणसमासः पुनरपि तेषां वृत्तिरस्य तेषु वा वृत्तिरस्य तदिदं युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति, किं तत् ? द्रव्यं व्याप्नोतीति व्यापि न क्वचिदपि न प्रवर्त्तते, यथा रूपादिशिवकादयो मृदो भवनमात्रं तथा युगपद्भूतं पृथिव्यादि परमार्थः । पृथिव्यप्तेजोवाय्वाकाशादि द्रव्यभवनमात्रम् , पृथिव्याश्चाश्मलोष्टादि,
तथाऽपां हिमकरकादि तेजसोऽप्यर्चिरादि स्वभेदा इत्यादि। अयुगपद्भुतं ब्रीहिबीजाङ्कुरपत्रतालकाण्डपु25 रुपफलशूककणतुषादिपरमार्थ इति सर्व द्रव्यभवनमात्रमेकपुरुषपितृपुत्रत्वादिवत्तान् तान् भावान् द्रवति
भजतीति द्रव्यम् ।
त्याशंकते एवमिति, आतिशायिकः प्रकर्षे विहित इत्यर्थः, प्रकर्षश्च गुणेन समानेन, तत्रैव स्पर्धायाः सम्भवेन प्रकर्षे प्रत्ययो भवति, न च शुक्लात् कृष्णे प्रत्ययः, तथा च द्रव्यक्षेत्रकालभावानां समानगुणत्वाभावात् कथं प्रत्यय इत्याशंकते गुणवच
नाभावादिति, किमित्येतत्परिप्रश्नोऽनिर्माते स जातिपरिप्रश्नः युगपदयुगपदिति, युगपदयुगपद्भाविविशेषेषु परमार्थस"30 त्खनुगततया वर्तमानमपि द्रव्यादि भवनलक्षणं न व्यभिचरतीत्यर्थः। भवतीति भव्यमिति, 'दवए दुयए दोरवयवो .विगारो गुणाणसंदावो। दव्वं भव्वं भावस्स भूअभावं च ज जोग्गं' इत्युक्तत्वाद्गणा रूपरसादयस्तेषां संद्रवर्ण संदावः समुदायो घटादिरूपो द्रव्यम् । कथं भवतीति, गुणपर्यायभाजनस्यैकरूपत्वात्कथं द्रव्यं भवतीति शंकार्थः । द्रव्यं हि मृत् स कथं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org