________________
द्वादशारनयचक्रम्
[विध्यरे युक्तिप्रत्ययौ स्याताम् , नान्यथा, व्यक्तिभिन्नाऽर्थसिद्धिरिष्यत इति, उक्तिप्रत्ययाभ्यां द्रव्यघटादिव्यक्तितो भिन्नस्य द्रव्यत्वघटत्वादेरर्थस्य सिद्धिरिष्यते, एवं गुणकर्मगवाश्वसंख्योत्क्षेपणादिव्यक्तिभिन्नतत्तत्वार्थसिद्धिरेषितव्या, भिन्नेष्वर्थेष्वभिन्नोक्तिप्रत्ययदर्शनादिति ।
अत्रोच्यते5. तन्न, अन्यतोऽपि तयोः सिद्धेः, तौ हि कस्मिंश्चिदेवाऽऽकारादिमात्रे, अन्यथाऽऽकाशादिषु विनाऽनुवृत्त्या कुतोऽभिधानप्रत्ययौ ? दृश्येते चात्रापि तौ, तस्मानास्ति सामान्यम् ।
तन्नेति, अपिशब्दान्नियमाभावेन लोकसिद्धं नामादिकमप्युक्तिप्रत्ययकारणमाह-कयोः सिद्धिः? उक्तिप्रत्यययोः, तन्नियमाभावं दर्शयति-तौ हि कस्मिंश्चिदेवाकारादिमात्रे, आदिग्रहणान्नाममात्रे, आकरणमाकारः, बुद्ध्या यो यथा परिगृह्यतेऽर्थः नाना वा निर्दिश्यते स एव तस्याकारः, स च ताव10 मात्रो न ततोऽधिको यथाऽऽकाशं डित्थ इति वा, अन्यथाऽऽकाशादिषु विनाऽनुवृत्त्याऽऽकाशकालदिशां त्वन्मतेऽप्येकत्वात् , कुतो भिन्नेष्वभिन्नाभिधानप्रत्ययौ ? कुतो वाऽऽकाशादीनि तत्तत्त्वानीति, दृश्येते चात्राप्युक्तिप्रत्ययौ तस्मानास्ति सामान्यम्, घटत्वादिसामान्योपचारात्तेष्वभिधानप्रत्ययाविति चेन्न मुख्यसामान्यासिद्धेः, साधाभावाच्चोपचाराभावात् , तत्त्वपरीक्षायामुपचारस्यावकाशाभावात् , मिथ्याभिधानप्रत्ययत्वप्रसङ्गादाकाशादिष्विति । 16 किश्चान्यत् सामयिकत्वाच्छब्दार्थप्रत्ययस्य तौ लोकवृद्धव्यवहारात्मको लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ भवतः, न तत्त्वानुवृत्तिव्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाघज्ञानात्।
__ (किश्चान्यदिति) समयाय प्रभवति समयः प्रयोजनमस्य समयभवो वा सामयिकः, यथोक्तम् 'सामयिकः शब्दादर्थप्रत्ययः' (वै० अ. ७ आ० २ सू० २०) इति, न सामान्यनिमित्त20 इति, तौ चाभिधानप्रत्ययौ लोकवृद्धव्यवहारात्मकौ, लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययो भवतः, शिक्षितविचित्रशास्त्रव्यवहाराणामप्यन्वयव्यतिरेकात्मकाद्वृद्धव्यवहारादेव, न तत्त्वानुवृत्तिव्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाद्यज्ञानात्, न तत्तत्त्वात् तत्तत्त्वज्ञानं तेषाम् । स्थान्मतम्-'संज्ञाकर्म त्व
शेषाः समयाकृतिपिण्डरूपादिव्यतिरिक्तनिमित्तनिबन्धनाः तथाविधाभिधानप्रत्ययत्वात् , दण्डनिमित्तदण्डिप्रत्ययाभिधानवदिति
यन्निबन्धनावभिधानप्रत्ययौ तदेवसामान्य व्यक्तिभिन्नमिति, न च निर्निमित्तौ तो, आकस्मिकत्वापत्तेः, सदा भावस्याभावस्य 28 वा प्रसझात् । तावेतो प्रत्ययाभिधानी संकेताकारपिण्डादिभ्य एव भवतोऽन्यथा सामान्याभावेनाऽऽकाशादावभिधानप्रत्ययौ
न भवेताम् , न चाकाशादौ घटत्वादिसामान्यस्य परम्परासम्बन्धेन सत्त्वादभिधानप्रत्ययौ भवतः, अवैलक्षण्यापत्तेः, न कविबयाणां बहूनामपि प्रत्ययानां वैलक्षण्यमस्ति, अन्यथा रूपरसादिप्रत्ययानामपि नानाविषयत्वं न स्यादित्याशयेनाह-अन्यतोऽपि तयोरित्यादि । बुद्ध्येति, बुद्धौ केवलं नीलाद्याकारस्यैव प्रतिभासात् नाम्ना च नीलादिवस्तुन एव प्रतीतेर्न ततो व्यतिरिक्त सामान्यमस्ति, अन्यथाऽऽकाशमिति डित्थ इति न प्रत्ययोक्ती स्याताम्, तत्र सामान्यस्य भवताऽनभ्युपगमादिति भावः। 30 सामायिक इति, समयः संकेतः, अस्माच्छब्दादयमों बोद्धव्य इत्याकारः, यः शब्दो यस्मिन्नर्थे संकेतितः स तमर्थ प्रतिपादयति, तथा च शब्दार्थयोः संकेत एव सम्बन्धः स एव समयस्तदधीनो न सामान्यायधीन इत्यर्थः । लोकवृद्धति, लोके यो वृद्धः तयवहारात्मकावित्यर्थः, यथा प्रयोजन घटमानयेत्युक्त प्रयोज्यस्य कम्घुग्रीवावन्तमर्थमानयतो ज्ञानं तावदनु
नोति तटस्थो बालः, इयमस्य प्रवृत्तिर्ज्ञानजन्या प्रवृत्तित्वान्मत्प्रवृत्तिवदिति, तच्च ज्ञानमेतद्वाक्यजन्यमेतदनन्तरभावित्वात् , एतज्ज्ञानविषयोऽयं कम्बुप्रीवावानर्थो घटपदवाच्य इत्याद्यावापोद्वापक्रियया बालस्य घटपटादावर्थे प्रवृत्तिः । संक्षाकर्मति,
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org