________________
समयप्रत्याख्यानम्] न्यायागमानुसारिणीव्याख्यासमेतम् स्मद्विशिष्टानां लिङ्गम् , प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः' (दै० अ० २ आ० १ सू. १८-१९) इत्युक्तं शास्ने, तस्मान्मन्वादयोऽन्तरालप्रलय महाप्रलयेषु व्युच्छिन्नव्यवहाराणामपि शब्दार्थानां सम्बन्धं पश्यन्ति तस्माद्धटघटत्वसमवायसम्बन्धोऽपि सामयिकोऽस्यायं वाचक इति यथाऽयं पनस इति समयं प्रायते बाल इत्येतच्चायुक्तम् , अनवस्थाप्रसङ्गात् , येन शब्देन समयः क्रियते तस्यान्येन कार्य इत्यनुषक्तः, उत्तरस्यार्थाप्रतीतौ स्वसमयो न प्रकल्प्यते, तत्समयानपेक्षा स्वाभाविकी, यस्पार्थे वृत्तिः स नित्य इति च, शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहारपरम्पराया अव्यवच्छेदात् । यथाऽऽह पतञ्जलिः 'अथवा नेदमेव नित्यलक्षणं ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि यत्तन्नित्यमिति, तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते, किं पुनस्तत्त्वं ? तस्य भावस्तत्त्वम्, आकृतावपि तत्त्वं न विहन्यते' (पातञ्जलमहाभाष्ये अ० १ पा. १ आह्निक १ ख. २) समयप्रत्याख्यानवत् प्रतिपादनप्रत्याख्यानातिदेशो वृद्धव्यवहारादाकारादिमात्रे प्रतिपत्तेरित्यदोषाय, न शब्दादेवेति वक्ष्यमाणत्वात् । 10
तत्त्वसम्बन्धादृतेऽप्यभिधानप्रत्यययोः प्रवृत्तिं दर्शयन्नाह
तथा ह्यन्तरेण तत्त्वं द्रव्यं समवायश्चाद्रव्ये आकाशादावनेकद्रव्ये आ अन्त्यावयवि. द्रव्यात् कुड्यलिखिते क्रीडनके चोक्तिप्रत्ययौ दृष्टौ, न भवेदेतत्तत्त्वमात्रेऽपि त्वाकारमात्रे ।
तथा ह्यन्तरेणेत्यादि, तत्त्वं द्रव्यं समवायश्चेति, द्रव्यञ्च द्विधा अद्रव्यमनेकद्रव्यश्च, अद्रव्ये त्वाकाशादौ तत्त्वाभावेऽप्युक्तिप्रत्ययबुद्धिः । अनेकद्रव्यमारब्धद्रव्यं तच्च समवाय्यसमवायि-15 कारणैरारभ्यते, समवायिकारणं घटस्य कपालानि, असमवायिकारणं तत्संयोगाः, आङिति च विध्युपायमर्यादासङ्ग्रहार्थः, को विधिः ? स्वतः स्वात्मनि च, क उपायः ? संयोगादिनिमित्तान्तरसहितानि, का मर्यादा ? आ अन्त्यावयविद्रव्याद्रव्याणि द्रव्यान्तरमारभन्ते विनाशोऽपि कारणविभागात कारणविनाशाद्वा, तत्र छिद्रपूर्ण घटे कारणविभागानुत्पन्ने संयोगाभावादारब्धद्रव्याभावेऽपि घटाभिसंज्ञा-नाम, कर्म-कार्य क्षित्यादि, तदुभयमस्मद्विशिष्टानामीश्वरमहर्षीणां सत्त्वे लिङ्गम् , कथमेतदित्यत आह-प्रत्यक्षप्रवृत्त- 20 त्वादिति, संज्ञाकर्मण इति समाहारद्वन्द्वादेकवद्भावः, यस्य हि खर्गापूर्वादयः प्रत्यक्षाः स एव तत्र खर्गापूर्वादिसंज्ञाः कमीष्टे, प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवदिति भावार्थः। अनवस्थेति,ते मन्वादयो येन शब्देन प्रकृतशब्दार्थयोस्संकेतं ग्राहयन्ति तच्छब्दस्यापि संकेतो प्राहयितव्यस्तैः तत्संकेतस्याप्यन्येन तस्याप्येवमन्येनेत्यनवस्था, तत्परिहारार्थ यस्य कस्यापि शब्दस्य समयानपेक्षा स्वाभाविकी नित्या वृत्तिरिष्यते तर्हि सर्वेषां शब्दाना तथैवास्तु किं समयेन, प्रलयस्य च निष्प्रमाणत्वेन शब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहाराणां परम्पराया न व्यवच्छेद इति भावः । अथावयवसंस्थान-25 रूपाया जातिव्यझिकाया आकृतेर्यावश्यवहारकालं मध्ये मध्ये उत्पत्तौ नाशेऽपि प्रकारान्तरेण पतञ्जलिकृतनित्यत्वमाह,अथवेति, : नित्यत्वलक्षणे ध्रुवपदस्यैव व्याख्यानं कूटस्थमिति, रूपान्तरापत्तिर्विचालः यथा पयसो दध्यादिरूपता, अनेन परिणामानिस्यता परास्ता । उत्पतेः सत्तापर्यन्तत्वादनुत्पत्तीत्यनेन जन्मसत्तारूपौ भावविकारौ निरस्ती, अवृद्धीत्यनेन तृतीयो वृद्धिलक्षणः, उपजनेति चतुर्थः परिणामः, अनपायेति पंचमोऽपचयः एतद्रूपविकाररहितमिति तदर्थः, अव्ययेति षष्ठो विनाशः, इदश्च ब्रह्मविषयं नित्यत्वं यावश्यवहारमेकरूपस्थितपदार्थविषयञ्च, अयमेव न नित्यशब्दार्थः प्रवाहाविच्छेदेऽतादृश्यपि नित्यत्वव्यवहा- 30 रादित्यत आह तदपीति, यस्मिंस्तत्त्वमिति, यस्मिन् विहतेऽपि तद्वृत्तिधर्मो न विहन्यत इत्यर्थः, प्रवाहनित्यता चानेनोक्ता, तमाशेऽपि तद्धर्मो न नश्यति, आश्रयप्रवाहाविच्छेदादिति भाष्यटीका । जायतेऽस्ति वर्धते विपरिणमति अपक्षीयते नक्ष्यतीति षड् भावविकाराः। अन्तरेणेति, द्रव्यद्रव्यत्वसमवायमन्तरेणेत्यर्थः स्वतः खात्मनि चेति अंत्यावयविद्रव्यादधः, अन्त्यावयविद्रव्ये चेत्यर्थः । छिद्रपूर्ण इति, उत्पन्ने घटे छिद्रानन्तरं पुनः समीकृते कारणविभागात् पूर्वघटविनाशव्यतिरेकेण
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org