________________
बादशारनपचक्रम्
[विन्दरे धोनप्रत्ययौ दृष्टौ, तथा कुड्यलिखिते समवाय्यसमवायिकारणाभावेन, शिशूनाञ्च क्रीडनकेऽलाबूपाषाणादौ सद्भावासद्भावस्थापनाकृते, न भवेदेतत्तत्त्वमात्रेऽपि त्वाकारमात्रे,-संस्थानमात्रे-सादृश्यमात्र इत्यर्थः।
तौ च तत्र तत्त्वस्योपनिलयनात् कृताविति चेत्तत्र तत्त्वाभाव उक्तः, सत्यपि च तत्त्वेडस्मदिष्टाकारमात्रत उक्तिप्रत्ययौ चोक्तौ, अथाप्याभासमात्रे तत्त्वोपनिलयनमिष्यते त्वया ततः स्थाणुमृगतृष्णिकयोर्नरसलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात् , तत्तत्त्वोपनिलय. नाच्च, घटत्वोपनिलयनाद्धटवत् , अनुपनिपाते नरसलिलोक्तिप्रत्ययौ मा भूताम् , तौ च दृष्टौ कथमगृहीतविशेषणत्वान्नरत्वसलिलत्वानुपनिपातेन युक्तौ, तत्रोपचारलभ्यौ हि तौ, इह
तु लोकनये विनोपचारेण लभ्यौ, कथमिति चेत् १ अनुपचरितकिश्चिद्भूताकारात्तु किश्चिदु१०क्तिप्रत्ययौ स्याताम् , आकारस्यासम्पूर्णस्य दृष्टत्वादेव, भवत्पक्षे पुनर्नहि तत्त्वं किञ्चिन्निलीनं किञ्चिच्चानिलीनमित्यस्तीति । ... (तौ चेति) अनुपनिपाते-नरत्वस्य स्थाणौ सलिलत्वस्य मृगतृष्णिकायाम् , तत्त्वस्य घटत्वस्य, स्याताम् भवितुमर्हतः (स्पष्टम्)
... एवं तावत् सामान्य विकल्पद्वये विचारितम् , विशेषोऽधुना विचार्यस्तत आह16. तथा विशेषोऽपि, तत्र यदि स्वविषयो विशेषविरोधः, यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य, यदि घटादावात्मनि विशेषो वर्त्तते स्वविषयः तत आत्मनोऽन्यत्वाद्विशेषस्य रूपादेर्देशतो विशिष्यमाणस्य गुणतः प्रतिक्षणान्यान्योत्पत्ति विनंष्ट्रपुरुषादिषु कस्तदात्मा, अन्यथा घटादौ सामान्यापत्तेः तत्र चोक्का दोषाः।
तथाविशेषोऽपीति, सोऽपि कल्पनाद्वयीं नातिवर्त्तते स्वविषयः परविषयो वेति, तत्र यदि 20 स्वविषयो विशेषविरोधः, विशेषस्य विरोधो विशेषाभावापत्तेः, विशेषेण विरोध आत्माभावापत्तेः । किं वाड्मात्रेण ? नेत्युच्यते, यदि विशेषस्तत आत्मा न भवति, अन्यत्वाद्विशेषस्य, विशेषेण विरोधस्तावत् , यदि घटादावात्मनि विशेषो वर्त्तते स्वविषयः सत आत्मनोऽन्यत्वाद्विशेषस्य-रूपादेर्देशतः परस्परतो विशिष्यमाणस्येति, तदर्शयति गुणत इति, गुणतः कालतो वा प्रतिक्षणान्यान्योत्पत्तिविनंष्ट
पुरुषादिषु कस्तदात्मेत्यात्माभावस्तदभावे कस्य विशेषः, अन्यथेति, रूपादीनां समुदायैक्यापत्त्यभ्यु25.जाते घटे कारणविभागानंतर संयोगादिक्रमेणानुत्पन्न इत्यर्थः । अनारब्धद्रव्यं हि म घटोऽपि तु आरब्धद्रव्यमेव थटो रष्टः, ततो नासौ घटः परन्तु तत्र घटाभिधानप्रत्ययौ दृष्टौ तौ न भवेतामिति भावः । कुज्यलिखित इति । कुण्यलिखिते घटादावाकारस्य सद्भावात् सद्भावस्थापना, अलाबूपाषाणादावाकाराद्यभावादसद्भावस्थापना घटस्य, तत्र युक्तिप्रत्ययो घटत्वादिसा. मान्यव्यतिरेकेणैव दृष्टाविति न तयोनिमित्तं सामान्यमिति भावः । अनुपचरितेति, स्थाणुमृगतृष्णिकयो रसलिलत्वबुद्धिस्तद्विपर्ययबुद्धिः, विपर्ययस्य च तस्यालम्बनं संवृतखाकारौ समुपात्तनरसलिलाकारौ स्थाणुमृगतृष्णिकावेव, अतोऽनुपचरितकिवित्तदाकारत्वात्तत्र नरसलिलोक्तिप्रत्ययो भवतः, न चैवं तावविपरीतौ भवत इति वाच्यम्, असंपूर्ण स्याकारस्य दर्शनात्, मेवं भवन्मते सम्भवति नरत्वसलिलत्वादेः संवतत्वासंवृतत्वानजीकारादिति. आभासे तत्त्वोपनिलयनस्वीकारे स्थाणुमृगतणिकयोर्नरत्वसलित्वप्रसङ्गो दुर्वार इति भावः। अन्यत्वाद्विशेषस्येति आत्मन एकत्वात् , विशेषस्य च नानात्वात् कथं विशेष भास्मेति विरोध इति । मेदेन घटादेः खत्वाभ्युपगमे घटामावादेव विशेषाभावं दोषमभिधाय योऽसौ घटात्मा तदेव खं स
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org