________________
२५
_____10
धात्मभेददोषप्रसङ्गः] न्यायागमानुसारिणीदवाण्यासमेतम् पसमे विशेषपक्षत्यागः सामान्यपरिग्रहश्चापद्यते, तत्र चोक्ता दोषाः सुखं सुखञ्च सुखादिसमुदयश्चेत्यादयस्त एवात्र रूपं रूपश्च रूपादिसमुदयश्चेत्यादयः । मा भूदात्माभावदोषस्तस्मिंश्चात्माभावे विशेषाभावदोष इति पक्षान्तरं यदि गृह्णीयात्
अथाऽऽत्मा स विशेषस्ततो विशेषो न भवत्येकत्वादात्मनः।
(अथेति) अथाऽऽत्मा स विशेषः, आत्मा एक एव स एवानन्य इति ततो विशेषो न । भवत्येकत्वादात्मनः-घटादेर्वस्तुनः, एकत्वादात्मनस्तत्त्वादित्यर्थः, अन्यो हि विशेषः ।
एतद्दोषपरिहारार्थमथोच्येत परेण
नैकत्वान्यत्वविरोधदोषौ, आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानादित्यत्रोच्यते प्रथमविकल्प आयातो विशेषस्य विरोध इत्यास्मनोऽन्यथाभवनादनात्मत्वमिति घटरूपादिपूर्वोत्तराधामभावस्तथा चोभयाभावः ।
(नेति) नैकत्वान्यत्वविरोधदोषौ, आत्मनो विशेष इति सम्बन्धापादानयोः षष्ठीपञ्चमीनिर्देशे भेदेनात्मनि विशेष इत्यधिकरणसप्तम्या निर्देशे वा स्यातामेतौ दोपी, किं तर्हि ? आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानान्नैकत्वान्यत्व विरोधदोषौ ममेति । अत्रोच्यते यद्यात्मापेक्ष एव विशेष इति तत् प्रति उच्चारणं 'प्रथमविकल्प आयातो विशेषस्य विरोध' इति, अत्राप्ययं दोषः, एक एवान्य इत्यास्मनोऽन्यथाभवनादनात्मत्वं रूपादिरूपेण, किं वाड्मात्रेण ? नेत्युपपत्तिमाह-अन्यथा भवनादिति, तन्नि- 15 दर्शयति घटरूपादिपूर्वोत्तराणामभाव इति, स कथं ? अन्यान्यरूपादय एव भवन्तीति घटाभावस्तदभावे कस्य विशेषः, घट एव वाऽन्यथा भवतीति रूपाद्यभावः, ततश्चोत्तरेषां शिवकादीनां पिण्डावस्थातः पूर्वेषां च मृत्त्वादीनामभावः । अथवा घटतोऽन्यत् पटत्वं रूपतोऽन्यच्छब्दादित्वं तेन प्रकारेणान्यथाभवनावटाभावो रूपाद्यभावश्च, तथाचोभयाभावः-आत्माभावो विशेषाभावश्च, अथवा रूपायभावप्रापितो घटात्माभावो घटात्माभावप्रापितो रूपाद्यभाव इति ।
एतदनिष्टतायान्तु परापेक्षपक्षापत्तिः, तथापि द्रव्यभेदः प्रसक्तः परापेक्षत्वाद्विशेषस्य ।
एतदनिष्ठतायान्तु परापेक्षपक्षापत्तिरिति, घटादेरात्मनोऽन्यथाभवनादनात्मत्वं तेन च विशेषस्यात्मनश्चाभाव इत्युक्तविरोधदोपानभ्युपगमे परापेक्षपक्षः, परविषयो विशेषो न स्वविषय इलामः स किं नामको दोष इति चेत् स्वपक्षपरित्यागनामक उपचर्यते । एवमभ्युपगम्यमानेऽप्य
20
एव च विशेष इति स्वविषयो विशेष उच्यत इत्यत्र पक्षे दोषमाह-अथात्मेति । स एवानन्य इति, यदि विशेषो घट एवं 25 तीयमस्य विशेष इति सम्बन्धित्वेन धीन स्यात् , अनन्यत्वात् , धीद्वयमभ्युपगम्येदमभिहितम् । इदमस्माद्भिन्न मिति वाऽस्यामाझेद इति वाऽस्मिन् भेद इति वा न निर्दिश्यते येन पूर्वोक्तदोषप्रसङ्गो भवेत् किन्तु भेदस्य खरूपत्वात् स्वरूपप्रतीति रेव भेदप्रतीतिः तेन धीद्वयाभावाचोक्तदोष इत्याशते नैकत्वेति, अत्र पक्षे विशेषस्य विरोध इत्युक्तदोषो दुरुद्धर इत्याहअबोच्यत इति, दोषान्तरमप्याह-अत्राप्ययं दोष इति, नीलघटयोरभेद आत्मनो घटस्यापि विशेषस्य नीलादेरिव प्रतिक्षणमस्मान्यत्वापत्तेरात्माभावापत्त्या घटरूपाद्योः पूर्वोत्तरयोः सम्बन्धाभावेन धर्मधर्मिभावानुपपत्त्या निर्धर्मकस्य चाप्रसिद्धेः ३० परस्पराभावेवोभयाभाव एव स्यादिति भावः। सजातीयक्षणपरम्पराश्रयेणाह-अन्यान्यरूपादय एवेति, विजातीयक्षमपरम्परापेक्षयाऽऽह-घटतोऽन्यदिति । खपक्षपरित्यागनामक इति, स्वस्य यः पक्षः स्वापेक्षो विशेष इति तत्परिलासखामा
द्वा० न०४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org