________________
२६ द्वादशारमयचक्रम्
[विध्यरे यमपरो दोषस्तथापि द्रव्यभेदः, द्रव्यस्य घटादेरात्मनः स्वपररूपाभ्यां द्विधाऽऽत्मावस्थानं प्रसक्तम् , परापेक्षत्वाद्विशेषस्य ।
स्यान्मतम्
पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षत इति चेत् का हि वृत्तिसहायकाहते सिद्धवृत्तेः 5 पटाद्यपेक्षा, प्रयोजनाभावात् , तथाऽऽत्मैवास्य भिद्येत, सहायापेक्षवृत्तित्वात् , शिबिकोद्वाहाऽऽत्मवृत्तिवत् ।
(पटादीति) पटाद्यवृत्त्यात्मक एव घटः पटाद्यपेक्षते, तन्नेत्युच्यते का हि वृत्तिसहायकाइते सिद्धवृत्तेः पटाद्यपेक्षा, वृत्तेः सहायकं वृत्तिसहायकं, घटवृत्तेः सहायभावं पटस्य मुक्त्वा खत एव सिद्धवृत्तेः पूर्वमेव घटस्य काऽन्योत्तरकाला पटाद्यपेक्षा ? नास्येवेत्यर्थः, किं कारणं? प्रयोजनाभावात् 10 तथाऽऽत्मैवास्य भिघेत, तेन प्रकारेण तथा, घटस्वरूपमेव भिद्येत सहायापेक्षवृत्तित्वात्, शिबिको. द्वाहात्मवृत्तिवत् ।
अथ पार्थिवत्वादस्ति घटस्य पटाद्यपेक्षेत्याह
समानजातित्वादपेक्ष्यते घटेन पटः, सा पार्थिवत्वम् , घटात्मत्वाच्च विशेषः पटादेरिति चेद्विजातीयात्तर्हि विशेषाभाव उदकादेः, द्रव्यत्वाद्यपेक्षा तत्रापीति चेद्विजातीयाभ्यां गुणक15 मभ्यामविशेषः, तत्रापि सत्तापेक्षेति चेद्विजातीयात्तीत्यन्तासतः सतः, जातेरिवाजातेः।
समानजातिवादपेक्ष्यते घटेन पटः का समानजातिः ? 'पार्थिवत्वम् , विशेषः कथमितिचेद्धटात्मत्वाद्विशेषः पटादेरिति, अत्रोच्यते विजातीयात्तर्हि विशेषाभाव उदकादेः-यदि समानजात्यपेक्षया विशेष इध्यते, एवं तीसमानजातीयादुदकादेर्घटस्य विशेषाभावः प्राप्नोति, अनिष्ट
चैतत् , द्रव्यत्वाद्यपेक्षा तत्रापीति चेत्-द्रव्यत्वसामान्यापेक्षया घटस्योदकादेविशेषो भविष्यतीति चेत् ? 20 विजातीयाभ्यां गुणकर्मभ्यामविशेषः, न हि विजातीययोर्गुणकर्मणोर्द्रव्यत्वापेक्षाऽस्ति ताभ्यामपि च
घटस्य विशेष इध्यते, तत्रापि सत्तापेक्षेति चेद्विजातीयात्तीत्यन्तासतः सतः, अविशेष इति वर्त्तते, एवमपि खरविषाणादेरत्यन्तासतो विशेषाभावः स्यादपेक्ष्याभावात् , किमिव ? जातेरिवाजातेः पार्थिव
परापेक्षपक्षापत्तरित्यर्थः । कण्ठतः परित्यागस्यानक्तत्वादपचर्यत इत्युक्तम् । अत एव द्विधाऽवस्थानप्रसङ्ग उच्यतेऽ। स्वपर.
रूपाभ्यामिति, विशेषस्य स्खविषयत्वात् परविषयत्वाच्च स्वरूपतः पररूपतश्चावस्थानं प्रसक्तमित्यर्थः, उभयापेक्षत्वादेवञ्च 25 घटादेः खात्मनि परात्मनि च वृत्तित्वप्रसङ्ग इति भावः, परात्मनि पटादाववर्तमानोऽपि घटः पटादिकमपेक्षत इति शङ्कते
पटाद्यवृत्त्यात्मक इति, अन्यसाकांक्षस्वभावरहितस्य घटस्य विशेषत्वेऽन्यसाकांक्षतापत्ती खभावठयाघातापत्तेरिति भावः। पटादाववर्तमानोऽपि घटः समानजातित्वादेव पटमपेक्षत इत्याशंकते समानजातित्वादिति, एवं तर्हि पार्थिवत्वं सामान्यमेव स्यान्न विशेष इत्यात्राह घटात्मत्वाच्चेति, ननु ययोः समानजातिरस्ति तयोर्विशेषो भवतु ययोस्तु नास्ति समानजातियथा
घटोदकयोः तयोः कथं विशेष इत्याशंकते विजातीयातहीति, अत्यन्तासतः सत इति, केनापि रूपेणासतो गगनकु10सुमादेव्यादेः सतोऽविशेषप्रसङ्गोऽनुगामुकधर्माभावादित्यर्थः । विजातीयातहीति, विजातीयादुदकादेर्घटस्य विशिष्टस्वा
सम्भवनोदकाविशेषो भवेदित्यर्थः । अत्यन्तासतः सत इति, खरविषाणादितो द्रव्यगुणकर्मणामविशेषः स्यात् सदसतोरनु गतजात्यभावेनापेक्ष्यसमानजात्यसत्वात् यथा पृथिवीत्वादिजाते लत्वादिजात्यन्तराद्रटादिव्यत्यन्तराच विशेषाभावस्तथाऽ
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org