________________
अविशेषप्रसजनम् ] । न्यायागमानुसारिणीव्याख्यासमेतम् त्वजातेश्च भवसिद्धान्तेनापगतजातेर्जात्यन्तरापेक्षा नास्ति तस्यां कथं जात्यन्तरादुदकादेर्वा व्यत्यन्त. राद्विशेषो भवत्यपेक्षाऽभावात् ।
कार्याद्वा कथमिति भावाभावयोरविशेषः, एवं सत्त्वमेवाभावस्य भाववदसत्त्वमेव वाऽभावस्याभाववत् तथापि चोभयाभावः।
(कार्यावति) कार्याद्वा कथं विशेष इति वर्त्तते, कार्यं हि भवत्सिद्धान्ते प्रागविद्यमानं । समवाय्यसमवायिकारणसान्निध्ये पश्चादुत्पद्यते "क्रियागुणव्यपदेशाभावात् प्रागसत्" (वै. अ. ९ आ. १ सू. १) इति सिद्धान्ताभ्युपगमात् कारणावस्थायां कारणानां कार्यस्यासत्त्वादेवापेक्षा नास्तीति विशेषाभावः प्राप्तः, निष्पन्ने चोपरतव्यापारावस्थायां सिद्धत्वात् कार्यस्य कारणानां कारणत्वाभावात् कार्यकारणविळेषाभावः, इति शब्दो हेतूपसंहारार्थः, इत्युक्तहेतुपारम्पर्याद् भावाभावयोरविशेषः' यथा पूर्वोक्तविधिना सतः सदसदाद्यपेक्ष्याभावाद्विशेषाभावः एवमसतोऽपि तदपेक्ष्याभावादविशेषः, 10 असतो वा काऽपेक्षा, एवं-अनयोरविशिष्टत्वात् सत्त्वमेवाभावस्य भाववत् , असत्त्वमेव वाऽभावस्याभाववत् तथापि चोभयाभाव:-भावाभावयोरभावः सामान्यविशेषयोरात्मविशेषयोर्वा घटादेरिति । एवं तावद्धटादेः पार्थिवत्वाद्यपेक्षा न युक्ता ।
अभ्युपेत्यापि तदपेक्षाम्
पार्थिवत्वादितुल्यत्वाच्च तद्वत्तदात्मत्वम् , पार्थिवत्वात्मघटत्ववद्वा, तत्तत्त्वेनापेक्ष्य-15 त्वादिति विवेकयत्नार्थहानिस्ततश्चाविशेषः।
(पार्थिवत्वेति) पार्थिवत्वादितुल्यत्वाच्च तद्वत्तदात्मत्वं' कार्यस्य घटस्य कारणेन मृदा सह पार्थिवत्वधर्मेण तुल्यत्वात् , तद्वदिति, घटस्य घटभावेनासत्त्ववत्तदात्मत्वं मृत्त्वम् , पार्थिवत्वात्मघटत्ववद्वा किं कारणं ? तत्तत्त्वेनापेक्ष्यत्वात् तस्य भावस्तत्त्वं भवनं भावः तस्य तत्त्वं तत्तत्त्वं तत्तत्त्वे. नापेक्ष्यत्वात्, घटभवनवदनपेक्ष्यत्वे हि पार्थिवत्वं तस्मात् प्राप्तं तदात्मत्वं घटत्वं पार्थिवत्वस्य, घटा-30 त्मवद्धटत्वेनापेक्ष्यत्वात् इतिशब्दो हेत्वर्थे, अतस्तदात्मतामपेक्षमाणस्य विवेकयत्नार्थहानिः विशेषार्थापेक्षाप्रतिपादनयत्नहानिः। अविशेष इति, एवश्च कृत्वा स एवाविशेषः, आदिग्रहणाव्यत्वादितुल्यत्वात् सत्त्वतुल्यत्वादित्येवमेवाविशेष आपाद्यः ।
त्राप्यविशेष इति भावः । भवसिद्धान्तेनेति, अनवस्थाप्रसङ्गेन जातेर्जातिमत्त्वाखीकारादिति भावः । क्रियागुणेति, कार्योत्पत्तेः प्राग्घटपटादिकार्यमसत् , यदि तदानीमपि सदेव तदा क्रियावत्त्वेन गुणवत्त्वेन च व्यपदिश्येत यथोत्पने घटे 25 घटस्तिष्ठति चलति रूपवानयं दृश्यत इत्यादिप्रकारेण व्यपदिश्यते तथोत्पत्तेः प्रागपि न व्यपदेशः कस्याप्यस्ति तेन गम्यते तदानीमसन् घट इति तदर्थः। ततश्च कार्य कारणावस्थायां कारणानि नापेक्षते स्वयमेवासत्त्वात् कार्य च यदा सत् तदा खरूपस्य सिद्धत्वादेव न कारणान्यपेक्षते इत्याशयेनाह कारणावस्थायामिति । कारणानां कारणत्वाभावादिति, करोतीति हि कारणं पदाच कार्य नापेक्षते कारणं तदा कारणं न किञ्चित्करोतीति कारणत्वस्वरूपमेव नास्तीति भावः। एवञ्चापेक्षाऽसम्भवेन भावाभावयोरविशेषः प्रसज्येत, तथा च सति निरपेक्षत्वादुभयोर्नित्यं सत्त्वमसत्वं वा स्यादिति भावः 130 तत्तत्त्वेनेति, यद्यदात्मनाऽपेक्ष्यते तत्तदात्मेति व्याख्या घटस्य तत्त्वभूतेन घटत्वेनापेक्ष्यमाणं पार्थिवत्वद्रव्यत्वसत्त्वादि सर्व घटत्वात्म भवेदिति विशेष एव न कोऽप्यस्तीति विशेषापेक्षव न भवेदतस्तत्प्रतिपादनप्रयासो व्यर्थः, विशेषाभावादविशेषक्ष
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org