SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २८ द्वादशारनयचक्रम् स्वाम्मत अयं विशेष एव न भवत्यापेक्षिकत्वात् सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिकत्वच मुख्योऽन्त्य एव विशेष इत्यत्रोच्यते, अन्त्येऽपि तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात् । (अयं विशेष इति) अयं विशेष एव न भवत्यापेक्षिकत्वात्सामान्यविशेषाणां द्रव्यत्वादीना5 मौपचारिकत्वाच "द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च" (वै० अ० १ आ० २ सू. ५ ) इत्युक्तानि किं पुनर्गोत् घटत्वादीनीति, कस्तर्हि विशेषो मुख्यः ? अन्त्य एव सामान्यमपि मुख्यं भाव एवेत्यभिप्रायः, यस्मादणुष्वेका काशदेशातीत प्राप्तेष्वन्यत्वज्ञानाभिधानप्रभावविभावितोऽन्त्यो विशेषः, न ह्याकस्मिकावन्योक्तिप्रत्ययौ, तस्मादस्त्यसौ स एव च विशेषो मुख्यः यथोक्तं "अन्यन्त्रान्त्येभ्यो विशेषेभ्यः " ( बै० अ० १ आ. सू. ६ ) इति । तथा भावश्च मुख्यसामान्यं “ सदिति यतो द्रव्यगुणकर्मसु 10 सा सत्ता, द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ते" तिवचनात् द्रव्यत्वादीनामौपचारिकत्वात्तथात्मकतयोपपादितमित्यत्रोच्यते, अन्त्येऽपि तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात् अन्ते भवोऽन्त्यः, अन्त्येऽपि तस्मिन् विशेषे विशेषाभाव इत्यपिशब्दात् सम्बन्धः, को हेतुः ? तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात्, द्रव्यमादिर्येषां ते द्रव्यादयः- द्रव्यक्षेत्र कालभावा:, तेषां प्रभेदस्तत्प्रभेदः, तत्प्रभेदेन गतिः परिणामो वृत्तिर्विकल्पो यथा कायस्येयं गतिरिति दृष्टत्वात् तया गत्या ग्राह्यत्वं कस्य ? अन्त्यविशेषस्य, तस्मात्तत्तद्रव्यादिप्रभेद्गति15 ग्राह्यत्वान्नान्त्य विशेषः करूप्यः । 7 [ विध्यरे द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामग्राह्यत्वात् तत्सरूपेणैव ग्राह्यत्वाच्च, अन्यथा विषयनिरपेक्षत्वाद्योगिनामज्ञानप्रसङ्गो मिथ्याज्ञानप्रसङ्गो वेति स्थितं न स्वविषयों विशेषः । Jain Education International 2010_04 (द्रव्येति) द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामप्राह्यत्वात्तत्स्वरूपेणैव माद्यत्वाच्च,' तद्यथायोगी प्रत्यक्षेणैकं परमाणुं पश्यन् द्व्यणुकत्वात् प्रच्युतं पश्यत्यन्यं त्र्यणुकत्वात् प्रच्युतमपरं दूषणुकस20 मवेतमन्यं त्र्यणुकसमवेतच, द्रव्यतः स्वत एव च भिन्नानि तानि परमाण्वादिद्रव्याणि पश्यति, तत्र किमन्यविशेषेण ?, एवं क्षेत्रतः पूर्वभागस्थितमेकमपरमर्वाग्भागस्थितम्, कालतोऽपि किचित् प्रथमे समये स्थितमन्यं द्वितीये स्थितमागतं वा, युगपदागतयोरपि द्रव्यक्षेत्रकालभावकृतं नानात्वमस्त्येव, भावतः किञ्चित् कृष्णं शुक्लं किञ्चित्सुरभिमसुरभिं तिक्तं कटुकश्चेत्यादि, अथवा कृष्णमन्यं कृष्णतरं स्यादिति भावः । आपेक्षिकत्वादिति, एकस्य द्रव्यत्वादेः सामान्यविशेषत्वे न निरपेक्षे स्यातां निरपेक्षयोस्तयो विरुद्धत्वा25 देकत्रावृत्तेः, किन्तु पृथिवीत्वाद्यपेक्षया सामान्यत्वं सत्तापेक्षया तस्यैव विशेषत्वमित्यापेक्षिकं तथा च न मुख्यता तत्र तयोः किन्तूपचारेण सामान्यविशेषत्वे, वैशेषिकसूत्रे ऽप्येवमेवोक्तम्, मुख्यस्तु विशेषोऽन्त्य एव, नित्यद्रव्यवृत्तयो येऽभिहितास्तान् वर्जयित्वा सामान्यविशेषाभिधानमिति वैशेषिकैरुक्तत्वात्, तथा सामान्यमपि भाव एव सत्तायामेव, तस्या अनुवृतेरेव हेतुत्वात् सोsपि च विशेषस्तुल्यगुणक्रियेषु परमाणुषु विलक्षणोऽयं विलक्षणोऽयमित्युक्तिप्रत्ययानुमेयः यच्चानुवृत्तिप्रत्ययाभिधाननिमित्तं सा द्रव्यगुणकर्मवर्त्तिनी सत्तेति विशेषाभावो नापादयितुं शक्य इति न विवेकयत्नार्थहानिरिति पूर्वपक्षाभिप्रायः । विशेष इति, 30 अण्वादावित्यर्थः, यथा पृथिव्यादावापेक्षिकत्वादपचारिकत्वाच्च मुख्यो विशेषो नास्ति तथाऽन्त्येऽप्यण्वादौ तुल्यगुणक्रिय इत्यर्थः विलक्षणताऽण्वादेः कथं ग्राह्या तत्राह तप्तद्रव्यादीति, तत्तद्द्रव्यक्षेत्र कालभाव परिणामविशेषादेव वैलक्षण्यग्रहो नान्यविशेषादिति भावः । तथा च तदवस्था विवेकयनार्थहानिरिति । एतदेव संघटयति द्रव्यादिव्यतिरेकेणेत्यादिना, योगी तत्तद्रव्य क्षेत्र कालभावैर्भिनखरूपानेव परमाणून पश्यति न तु परमाण्वादिद्रव्यव्यतिरिक्तेन विशेषेण भिन्नान् परमाणून, अतस्ते स्वत एवं भिन्ना इत्याशयेन द्रव्यक्षेत्राद्यपेक्षया परमाण्वादेर्भेददर्शनं योगिनः प्रकाशयति तद्यथेति व्यणुकत्वात् प्रच्युतं For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy