________________
प्रतिभिन्नार्थसिद्धि] न्यायागमानुसारिणीव्याख्यासमेतम्
२१ खसामान्यपक्षाभिहितसर्वपूर्वोत्तरपक्षविकल्पप्रदर्शनार्थः, द्रव्यं द्रव्यश्च द्रव्यादिसमुदयश्चेत्यादिविकल्पजातं सर्वमिहापि भवता योज्यम् ।
तथा सहातसमवस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम् , तथाहि किं परमाण्वादीनां घटो भवति ? घटस्य वा कपालानि ? इति कः सम्बन्धः । . (तथेति) यदि सङ्ग्रहनयदर्शनेनोक्तमेकमिति सत्यमुक्तं तत्तु संघातेनावस्थितानां नोपपद्यते । दृष्टविरुद्धत्वादित्यभिप्रायः, ततः किमिति चेत्तथाहि एवश्च कृत्वा किं परमाण्बादीनां घटो भवति घटस्य वा कपालानीति, कः सम्बन्धो न कश्चिदित्यर्थः, घटस्य वा कपालानीति तद्विनाशजन्यस्याप्यसम्बन्धं दर्शयति, आदिग्रहणात् व्यणुकश्यणुकादीनां ग्रहणम् । . अन्यत्र संघातसमवस्थानभेदात् समवस्थानकृतएव तेषां सम्बन्धस्तथा च समानं भवन्ति ते, स्थान्मतमेवं व्याख्यातुस्तवैव मतेन परस्परविलक्षणानामर्थानां भेदादेवानवस्थानं प्राप्तम् , द्रव्यादि-10 भेदमिन्नानामन्योऽन्यनिरपेक्षाणां संघातसमवस्थानाभावात्, अत्रोच्यते... अनवस्थाने वा नित्यप्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत ।
(अनवस्थाने वेति) परस्परनिरपेक्षोत्पादविनाशत्वादित्यर्थः, एवं सर्वैकभिन्नयोः सामान्याभाव उक्तः। . पक्षान्तरेऽपि वक्तकामो प्राहयति___अथान्तरेण रूपप्राप्तिं नोक्तिप्रत्ययौ दण्डिवदिति व्यक्तिभिन्नाऽर्थसिद्धिरिष्यते,
.. अथान्तरेण रूपप्राप्तिमित्यादि यावसिद्धिरिष्यत इति, अन्तरेणैकरूपम्माप्ति भेदरूपप्राप्तिं वा नोक्तिप्रत्ययौ दण्डिवदिति, नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते, विशेषप्रत्ययानामनाकस्मिकत्वाच दण्डनिमित्तदण्डिप्रत्ययाभिधानवत्, दण्डोऽस्यास्तीति दण्डीत्यत्र हि दण्डसंयोगनिमित्तौ 20. देवदत्ते दण्ड्युक्तिप्रत्ययो यथा दृष्टावेवं द्रव्यत्वघटत्वादिसामान्यविशेषसमवायनिमित्तौ द्रव्यघटापरस्परविशिष्टैकस्य द्रव्यत्वेन तस्य द्रव्यत्वं द्रव्यसमुदायत्वञ्च प्राप्तं तदात्मत्वादित्येवं योज्यमित्याशयेनाह-द्रव्यं द्रव्योति, नोपपद्यत इति, भिन्नभिन्नसंघातानां घटपटादीनां सङ्ग्राहकरूपाभावेन न तनयेनाप्यैक्यं, अत्यन्तमेदात्तेषां, सति हि सामान्य संघाताम्तर्गत एष स्यात्, न तु भिन्नसंघातता, तथा च परमाणूनां घटस्य विभिषसंघातत्वात् परस्पर सम्बन्धो न स्यादिति भावः । अन्यत्रेति, यत्र संघातेन समवस्थितानां मेदसत्र मा भूत्सम्बन्धः, यथा घटपटयोः, मिनसंघातत्वात् , यत्र तुसंधा-20 तमेदो नास्ति यथा परमाण्वादिघटयोः, घटकपालयोर्वा तत्र समवस्थानकृतः सम्बन्धोऽस्तीति तत्र सामान्यं सम्भवतीति पूर्वपक्षाशयः,संघातमेदस्थलेऽनवस्थानं त्वयाभ्युपगतं भवतीत्याशयेन समाधत्ते स्यान्मतमित्यादिना। नित्यप्रवृत्तत्वादिति, पदार्थानां निरन्तरमुत्पादविनाशव्यापारनिरतत्वात् स्थित्यभावः स्थितिस्वीकारे क्षणिकताभङ्गात् , स्थितेरभावे चेदमनेन समानस्मिति निरूपणासम्भवः, इदमिति निर्देशसमय एव तस्य विनाशात् , आधारस्यैवाभावेन समानता क स्थाप्येतेति भावः । सर्वैकभिन्नयोरिति,एकस्य सर्वात्मकत्वेऽपराभावात् सर्वेकरूपाणां नानात्वे परस्परसम्बन्धाभावादनषस्थानाच न समानभाव इति भावः180 एकरूपप्राप्ति-सामान्यरूपता, भेदरूपप्राप्तिं विशेषरूपता, नाग्रहीतेति. विशेषणग्रहमन्तरेणेत्यर्थः विशिष्टबुद्धी विशेषणज्ञानस्य कारणत्वाभ्युपगमादित्यर्थः। यथा दण्डिप्रत्ययो दण्डपुरुषसंयोगैर्विना नोपपद्यते नहि स दण्डपुरुषमात्रभावी भवितुमईति, सर्वदा तत्प्रत्ययप्रसङ्गात्, अतो दण्डपुरुषव्यतिरिक्तः कश्चन संयोगोऽर्थः सिख्यति तथा व्यक्तिभिन्ना सामान्यलक्षणार्थसिद्धिर. भ्युपगम्यत इति पूर्वपक्षाशयः। द्रव्यघटायुक्तिप्रत्ययाविति, तथा च प्रयोगः द्रव्यघटादिषु म्यघटायभिधानप्रशानवि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org