________________
२०
द्वादशारनयचक्रम्
[विण्यरे सम्बन्धैक्यापत्तौ च सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषणैकता द्रव्यं क्षेत्रेण कालेन भावेन विशेष्यते द्रव्येण क्षेत्रमितरौ च । एवं तैस्तदभूत् परस्परतश्च ते। ..
यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावैरूपादियुगपद्भाविभावैर्देशेन द्रव्यान्तरैश्च विशेप्यते तथैकमपि वस्तु न केनचिन्नाभिसम्बद्ध्यते तथा तथा विशेष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् । ... (यथेति) यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावै रूपादियुगपद्भाविभावैर्देशेन तद्रव्यान्तरैश्च विशेष्यते अङ्गुलिर्वका ऋज्वी प्रदेशेऽस्मिन्नाकाशस्य वर्त्तते प्रदेशिनी अधुनेत्यादि, तथैकमपि वस्तु घटपटादि न केनचिन्नाभिसम्बद्ध्यते तथा तथा विशेष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् । प्रयोगश्चात्र द्रव्यादिविशेषणेन सम्बन्धी घटः, वस्तुभेदत्वे सति तत्सम्बद्धत्वात् , विकचसुरभिशरनीलोत्पलषत् , विकचमुकुलितादि क्षेत्रविशेषणम् , सुरभिनीलादि सहक्रमभाविभावविशेषणम्, शरदिति कालविशेष: णम्, उत्पलमिति द्रव्यम् , तदपि तेषां विशेषणमेव, व्यवच्छेदकत्वात् । है एवमनेकत्वसामान्यमापाद्य प्राक् प्रतिज्ञातं परविषयतायामप्यसमानावस्थानादसामान्यं परेषामिति तदर्शयति
तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात् सामान्यानुपपत्तिः। 15 (तत्रेति) एवमापादितपरस्परविशिष्टैकत्वस्य जगतो घटैकत्वमात्रेऽर्थान्तराभावात् कुतोऽर्थान्त
रापोहलक्षणं विद्वन्मन्याद्यतनबौद्धपरिक्षिप्तं सामान्यम् , कुतो वा समानं दृश्यत इति सदृशं सदृशभावः सादृश्यमिति सादृश्यलक्षणं सामान्यं सदृशस्य तस्याभावात् । कुतो वा तत्तत्त्वम् ? तस्य भावस्तत्त्वं तत्तत्त्वमस्य तत्तत्त्वं तत्तु भिन्ने भवति समानानेकार्थानुवृत्तिलक्षणं सत्त्वद्रव्यत्वगुणत्वकर्मत्वादि ।
__स्यान्मतं परस्परविशिष्टैकत्वादेव तत्समुदायः परविषयसामान्यमिति तदयुक्तम् , उदित20 दोषानुबद्धैकसर्वत्वात् स्वविषयसामान्यापत्तेर्वा । ., . (स्यान्मतमिति) स्यान्मतं परस्परविशिष्टैकत्वादेव तत्समुदायः परविषयसामान्यमिति एत. चायुक्तमित्यत आह-उदितेति, यदुक्तं प्राक् ‘स हि तत्समुदायकार्यत्वात् सामान्यमि'त्यत्र, 'एवं सत्यात्मभेदः सुखं सुखश्च सुखादिसमुदयश्च तदात्मत्वादेवं शेषावपी'त्यादि याव सामान्यविशेषयोश्च तत्सम्बन्धित्वादेकतराभ्युपगमे विशेषपक्षापत्तिरपी'ति, स्वविषयसामान्यापत्तेर्वेति, वाशब्दो विकल्पार्थः,
कालभावानां द्रव्यमपि विशेषणं क्षेत्रकालभावा अमी द्रव्यस्य सम्बन्धिनो नान्यस्येति व्यावर्तकत्वात् , एवमिति क्षेत्रकालभावै. र्यथा द्रव्यस्य भवनं तथा क्षेत्रकालभाषा अपि परस्परं भवन्तीति भावः, यथालिरिति, अङ्गुलिर्द्रव्यं वक्रत्वमृजुत्वश्च भावः, प्रदेशेऽस्मिन्निति क्षेत्र प्रदेशिन्यधुनेति काल इति विशेषणत्वं द्रव्यस्य । अर्थान्तरापोहलक्षणमिति, बौद्धमते सामान्यस्यान्यापोहरूपतयाऽन्यस्यैवाभावे कुतस्तदपोहलक्षणं सामान्यं भवेत् , सांख्यमते सदृशवस्त्वन्तराभावे कुतस्तद्धर्मलक्षणं सादृश्य
भवेन्नैयायिकमते च समानस्याभावेन तस्य भावरूपं सामान्य कुतो भवेत् जगतः परस्परविशिष्ट घटै कमात्रत्वात् ,समानानेकार्था30 नुवृत्तिलक्षणं सत्त्वद्रव्यत्वादि भिन्ने समानानेकार्थलक्षणे वस्तुनि सति भवतीत्यन्वयः, अनेकसमवेतलक्षणत्वात्सार
तेति, प्रागुदितो यो दोषस्तेनानुबद्धमिदमेकसर्वत्वमित्यर्थः एतदेवाह-यदुक्तं प्रागिति, स्वविषयेति स्वविषयं यत्सामान्य तत्रोपन्यस्तानामापत्तीनामत्रापि प्रसङ्ग इति भावः। परस्परविशिष्टकरूपाणामनेकेषां समुदायस्य तथाविधैकैकापेक्षया सामान्यत्वे
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org