________________
द्रव्यादेविशेषणैकता] न्यायागमानुसारिणीव्याख्यासमेतम्
अत एतानीत्यादि यावदपेक्ष्याणीति, एतस्मात् प्रतिपादितोपपत्तिबलाव्यादीनि भावपर्य- . न्तानि भवनप्राधान्यप्रत्याख्येयानि तस्माद्धटादिवस्त्वात्मसामान्यपक्षग्राहिणाऽपि स्वविषयसामान्यवादिनेत्यर्थः, अपि शब्दाचाऽऽग्रहरक्तमनसाऽपि सता त्वयाऽवश्यापेक्ष्याणि सारमारसितव्यानीत्यर्थः, किं कारणं ? प्रत्यक्षादेव तथात्मत्वात् , दृश्यत एव हि द्रव्याघेकरूपभवनसामान्यता उक्तविधिना किमु परविषयमुख्यसामान्यवादेनेति । - द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लौकिकम् , न तु सादृश्यानुप्रवृत्तिव्यावृत्त्यादि मुख्यम् , सामान्यलक्षणस्यादृष्टत्वात् प्रत्यक्षत एव तथा तथा परविषयस्य सामान्यस्य भवनात् सर्वतंत्रसिद्धान्तेन निरुक्तत्वाच्च परेण समानेन भूयते समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति ।
(द्रव्यादीनामिति) द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लौकिकं 10 विविधसामान्यवादिव्यवहारनयानुयायित्वात् , न तु यथा सांख्यादिषु सादृश्यान्यापोहतत्त्वादि प्रमाणविरुद्धं तदुपवर्णितं भवितुमर्हति मुख्यम् , सादृश्यानुवृत्तीनां लोके समानेन भूयत इति सामान्यलक्षणस्यादृष्टत्वात्, दृष्टत्वाचास्मदिष्टस्य लौकिकस्य सामान्यस्येत्यत आह प्रत्यक्षत एव तथा तथा परविषयस्य सामान्यस्य भवनादिति, तेन तेन प्रकारेण द्रव्यक्षेत्रकालभावापेक्षयुगपदयुगपद्धाविभावस्य रूपादिशिवकादिरूपस्य समानस्य भवनात् सर्वतंत्रसिद्धान्तेन व्याकरणेन लोकानुवृत्तिना निरुक्तित-15 स्वादिवादिनाप्याह परेण समानेन भूयत इति, समानो भवतीत्यर्थः, समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति स्वार्थिको भावप्रत्ययः, स्वभावसम्बन्धार्था चात्र कर्तृलक्षणा षष्ठी तेषां भाव इति, यथा शिलापुत्रकस्य शरीरमिति ।
एवं सामान्य व्याख्यायेदानी तदर्थानुसारेणानुमानमाह
तथा च ते सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषण-20 कता, द्रव्यं क्षेत्रेण कालेन भावेन विशेष्यते द्रव्येण क्षेत्रमितरौ च, एवं तैस्तदभूत् परस्सरतश्च ते ।
तथा चेत्यादि यावद्विशेषणैकता, तथा चेत्येवं च कृत्वा प्रतिपादितपरस्परभेदस्य ते परस्पर
प्रत्याख्येयानीति, भवनं प्रधानीकृत्य व्याख्येयानीत्यर्थः, समानभवनादिति, अनेकधर्मात्मकानां वस्तूनां मृन्मृदित्यभिमबुद्धिशब्दद्वयप्रवर्तकः समानपरिणामः सामान्यम् , तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्यास्यैव सामान्यभावोपपत्तेः समानानां 25 भाषः सामान्यमिति यत् तत्समानस्तथा भूयते इत्यन्वर्थयोगात् , समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकत्वात् समानत्वानुपपत्तेरिति मुख्यत्वमेतस्य । यत एवासौ समानपरिणामोऽत एव न वृत्तिविकल्पप्रयुक्तदोषसम्भावना, तथाविधपरिणाममेदेऽपि प्रतिविशेष समानपरिणामसामर्थ्यादेव समानबुद्धिशब्दप्रवृत्तिः। सादृश्येति, सांख्यमते सादृश्यमेव सामान्य बौद्धमतेऽन्यापोहो वैशेषिकमते तत्त्वं तस्यासाधारणो धर्मः सामान्य बोध्यम् , सामान्यध्वेषु समानेन भूयत इति समानभवनलक्षणं सामान्यं न सम्भवति, एकान्तनित्यत्वादिति भावः, परेणेति, द्रव्यादिनेत्यर्थः समाना द्रव्यादयस्तेषां भवनं सामान्यं 30 द्रन्यादयो हि भवन्ति, अतो द्रव्यादीनां भाव एव सामान्यं भवनमपि द्रव्यादिखरूप एवेति कृत्वा खरूपलक्षणामेदो द्रव्यादिभव. नयोः सम्बन्धस्तदपेक्षया च षष्ठीति भावः। द्रव्यं क्षेत्रेणेति, द्रव्यस्य क्षेत्रकालभावाः विशेषणानि व्यावर्तकत्वात् तथैव क्षेत्र
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org