________________
भावकारणता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
( नन्विति ) ननु घटस्य भाव इति व्यतिरेकषष्ट्या व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण घट एवैति न तु स्वतोऽपृथग्भूतेन भवनेन, ततः पटादिभेदेन भवनस्य कर्त्ता घट एवेति, अत्रोच्यते, न, भावस्यैव तथा तथा भवनात् न ब्रूमो घटस्य भवनं न पटस्येति भेदव्यपदेशो नास्तीति स पुनरुपचरितो घटादिभिरभिन्नस्यैकस्य भावस्यैव तथा तथा तेन तेन प्रकारेण घटपटादिना भवनात्, अन्यथा पटादयो न भवन्त्येव भवनव्यतिरिक्तत्वादित्युक्तम्, स एव हि भावो घटपटादिर्भवति हस्ता- 5 दिभवनकरणयोः पुरुषभवनकरणवत्, घटादीनां भावाव्यतिरेकात् पुरुषाव्यतिरिक्तहस्तादिभवनवदिति । तद्दर्शयति- न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति करोति वा, हस्तादौ भवनकर - णयोः कर्त्तृत्वे प्रतिपद्यमाने तत्समुदायस्यावश्यं तत्प्रतिपत्तेः, समुदायसमुदायिनोश्चानन्यत्वात् । उपसंहरति-अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादेरिति, भवने प्रस्तुते करोतिग्रहणं किमर्थम् ? सर्वधातूनां भवनार्थत्वप्रदर्शनार्थम्, तत आह-यतो भुवोऽर्थमभिदधति सर्वधातव इति । एतस्मा - 10 द्वावान्न पढादिर्भिन्न इति ।
तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनं सर्ववस्तूनां मूलं स्फटिकवत् सर्वबिम्बप्रति - बिम्बसामान्यम् ।
२८९
( तचेति तच प्रत्यस्तमितनिरवशेषविशेषणं भवनं - निमग्नानि विलीनानि प्रत्यस्तमितानि यत्रैव भावे निरवशेषाणि विशेषणानि स्व इति पर इति वा घटः पट इत्यादि वा सर्ववस्तुभेदास्तदेव 15 भवनम् सर्ववस्तूनां स्फटिकवत् सर्वबिम्बप्रतिबिम्ब सामान्यं - मुद्रा प्रतिमुद्रान्यायेन भिद्यमानानामात्मरूपाणां स्फटिकवदनेकधा दृश्यमानानां बिम्बभूतानां प्रतिबिम्बभूतानाश्च सामान्यमभिन्नं बीज - मित्यादि तत्स्वरूपवर्णनान्येवं प्रकाराणि निर्विशेषणस्याद्यंशपरिकल्पनयेति ।
तत्कथं भाव्यत इति चेदुच्यते
तदेव हि भवनं व्रीह्याद्यङ्कुरादि वा तदेव च मृदादि साध्यं साधनञ्चैकं भवनमेव 20 ब्रीहिबीजं तथा अहेयं सदा तदवस्थमेव भवनात्, पुरुषस्य हस्त्यादियावद्भवनवत्, पुरुष
·
सम्बन्धार्था, सम्बन्धश्च सम्बन्धिनोर्भेदे सत्येवापेक्ष्यते न हि खस्य स्वस्मिन् सम्बन्धोऽपेक्ष्यते ततश्च घटस्यैव भवनप्रतीतेः तस्य घटएव कर्ता घटएव भवति नतु पटाद्यभेदेन घट: कर्ता, पटादिसम्बन्धित्वेन भवनस्याप्रतीतेः घटपटादेः भावस्य च भेद सङ्कार्थः । न तु स्वत इति, न तु खतोऽपृथग्भूतेन भवनेन घटपटादिर्भवतीत्यर्थः । अथ घटस्येदं भवनं न पटस्येत्यादि • भेदव्यपदेशो न निराक्रियतेऽस्माभिः अपि तु स उपचरितः, भवनस्यैव घटपटादिरूपेण भवनात् घटभवनयोर्भेदे 25 हि घटो न भवतीति भाव एव न स्यात् खपुष्पवदित्याह - भवनस्यैवेति । दृष्टान्तमाचष्टे - हस्तादिभवनेति, हस्ता देर्भवने करणे च पुरुषादेर्यथा भवनं करणश्च तद्वदित्यर्थः, समुदायसमुदायिनोरभेदादिति भावः । दृष्टान्तं स्फुटीकरोति न हीति । तचेति, निरवशेषाणि निखिलानि विशेषणानि - घटपटादिलक्षणानि प्रत्यस्तमितानि - अन्तर्लीनानि यस्मिन् भावे तथाविधो भावः सर्वस्य मूलभूतं कारणमित्यर्थः । स्फटिकवदिति, बिम्बप्रतिबिम्बभावेनानेकधा दृश्यमानानां भावानां यथा स्फटिकरषत् सामान्यं तथा भावोऽपि सर्वेषां सामान्यमिति भावः । अत्र मूलं सम्यङ् नोपलब्धं वेदितव्यम् 30 निर्विशेषणस्येति, घटस्य भवनं पटस्य भवनं मठस्य भवनमित्यादौ विशेषणविरहितं भवनमेव प्रधानं तत्त्वमभ्युपेय ततो घटपटादिप्रकाराणां निरूपणमित्यर्थो भाति । तदेव हीत्यादि, यथाऽऽत्मात्मानमात्मनैव परिणमयति तथा भवनमपि वीहि मृदादिलक्षणमभिन्नकर्तृकरणसाधनसाध्यं भवति, व्रीह्यादिनानाविकल्पेषु भवनस्य कदाप्यप्रच्युतेरिति भावः ।
द्वा० न० ३७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org