________________
... २८८
द्वादशारनयचक्रम्
[विधिविध्यरे .. (खभावाभाव इति) स्वभावाभाव एव च प्रसक्तः, तद्यथा-प्रत्येकमात्रवृत्ति च घटायेक घटादीनि, घट एव घटः, पट एव पटः, पटे घटो नास्ति, न घटे पट इतीतरेतराभावात् परस्परमखभवनपरिग्रहः कृतो भवति, ततः परस्परमस्वभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् ?
यापपत्तिद्वारेणार्थः तत इदमुपपत्तिमुखमस्य
भावविषयैकार्थे स्वत्वे स्वत्वादनन्यो भाव इति चेत्सत्यम् , न किञ्चिदन्यत् स्वं नामेति किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन? द्रव्यार्थस्वरूपस्याभिन्नत्वात् ।
(भावेति) य एव भाव स एव स्व इत्यनयोरनर्थान्तरत्वमेवेति, सत्यम् , न किश्चिदन्यत् स्वं नामेति, इतिशब्दो हेत्वर्थे, ततः किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन ? द्रव्यार्थस्वरूपस्याभिन्नत्वात् , भेदेन यदुच्यते घट इति पटादिना भावव्यावर्त्तनार्थभेदेन घटस्य भावो न 10 पटस्येति वो भावो न परभाव इति च पुरुषादिवादवद्भेदान्तरकल्पनेन द्रव्यार्थस्वरूपविरोधिना भेदा
धारेणेति । . सोऽपि यदि भावः भवतीति भावस्वरूपादभिन्न एव, अथ न भवति भेदो भावः, तदस्तित्वमेव नाभ्युपेमोऽभवनात् खरविषाणवत् ।
सोऽपि यदीति, सोऽपि च धटादिभेदो भावो वा अथाभावो वा ? यदि भावः, भवतीति 15 भावः एव, भावस्वरूपादभिन्न एव, अतः कोऽयं भेदो नाम घटादिर्भावव्यतिरिक्त इति स्वयमेवोक्तो
भेदाभावः । अथ न भवति भेदः, भावो न भवति नानुभवति भवनं न वाभाव एवाभ्युपगम्यते तदस्तित्वमेव नाभ्युपेमः, अभवनात् खरविषाणवत् ।।
इतर आह
ननु घटस्य भाव इति व्यतिरेकषष्ट्या व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण घट एव 20 भवनस्य कर्तेति, न, भवनस्यैव तथातथाभवनात् , स एव हि भावो घटपटादिर्भवति, हस्तादिभवनकारणयोः पुरुषभवनकारणवत्, न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा, अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादेरिति ।
दोषान्तरमाह-स्वभावाभाव इति । सर्वं हि वस्तु प्रत्येकस्मिन्नेव पर्याप्तं नान्यत्रात्मानं संक्रामयति घटो हि घट एव, न पटो
भवति, पटोऽपि पट एव, न घटो भवति, सजातीयविजातीयव्यावृत्तखरूपत्वात्, न हि खमन्यरूपेण भवति, ततश्च सर्व25 मस्खभवनरूपमिति कुतो हेतोः पटादौ घटादेः स्वस्य भावो भवेदिति नास्ति स्वभाव इति भावः, उपपत्तिद्वारेणैवार्थसिद्धिन.
वाइमात्रेण, अत उपपत्तिर्वक्तव्येत्युपपत्तिर्यदीष्यते तर्हि तामपि वदाम इत्याह-यदीति । आशङ्कापूर्वकं तामादर्शयति-भावेति खत्वं यदि भावसमानाधिकरणं खो भाव इति तदा य एव भावः स एव खः, य एव खः स एव भाव इति तयोः परस्परमभेदाद्भाव एव स्यात् किं खपदेनेत्याशङ्कार्थः । नास्ति भावव्यतिरिकं खमतः पटादिभावाद्विशिष्टो न घटादिलक्षणो.
भेदः उभयोर्द्रव्यार्थतयाऽभेदात् , अतो न भेदेन किञ्चित् प्रयोजनम् , अत एवायं घटस्य भावो न पटस्य अयमात्मीयो भावो 30 म परस्येत्यादिरूपा द्रव्यार्थस्वरूपविरोधिनी भेदकल्पना नोचितेत्युत्तरयति-न किञ्चिदन्यदिति । भेदोऽपि विचार्यमाणो.
म साधुतामङ्गीकरोतीत्याह-सोऽपीति । विचारमारचयति-सोऽपि च घटादिभेद इति, किं घटादिलक्षणो भेदो भावो वा स्यादभावो वा तत्र यदि स भावस्तर्हि भवनधर्मत्वात् न भावखरूपाद्भिन्न इति घटादिलक्षणो भेदो न भावभिन्न इति प्रसङ्गात्त्वयैव भेदाभावः साधितः. यद्यसौ भेदो न भवनधर्मा न तद्यसौ भावः, भवनस्याननुभवनात् , नाप्यसावभाव एव, तथाविधस्य खरविषाणादिवदस्तित्वाभावादेवाभवनादिति भावः । ननु घटस्य भाव इति, घटस्य भाव इत्यत्र षष्टी.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org