________________
प्रत्यक्षप्रामाण्यमिहैव] न्यायागमानुसारिणीव्याख्यासमेतम्
२९७ . यदि रूपादित्वेन त्वदिष्टभेदवदेव । इतिशब्दो हेत्वथै, यस्माद्विभागावच्छेदाभावाद्धेतोः स भावो ध्रुवः त्रिध्वपि कालेषु, कूटस्थो माषराशिस्थमाषवत् सर्वेगैकीभूत एव, अविचाली-न स्थानात् स्थानान्तरं संक्रामति, अनपायोपजन:-कोष्ठागारधान्यवन्निर्गमप्रवेशापायोपजनौ भावस्य न स्तः, अविकार्यपिस्वस्थानस्थस्यापि नर्तकीभ्रूक्षेपादिवद्विकाराभावात्, अनुत्पत्ति:-प्रागभूत्वा घटादिवदुत्पत्यभावात, अवृद्धिः-अङ्करपत्रवदुपचयाभावात् , अव्यय:-वृक्षादिपत्राद्यवयवखण्डादिवव्ययाभावात् । एतानि हि 5 नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम् , अत्र भावे ध्रुवादिनित्यलक्षणयोगः परपरिकल्पितभेदासम्भविधर्मत्वेन व्याख्यातः, स्वरूपतो निदर्शनाभावादुक्तवदिति च पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभाषायुक्तो नित्यैकसर्वात्मकत्वातिदेशः ।
किश्चान्यत्
अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव, यथार्थवस्तुविषयत्वात्, अन्यत्रानुमानतैव भावे, सम्ब' 10 न्धैकदेशप्रत्यक्षप्रत्ययशेषसिद्ध्यात्मकत्वात् ।।
(अस्येति) अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव-अभिन्नभावपक्षे प्रत्यक्षवादावस्य प्रत्यक्ष प्रमाणं सिमति, उक्तवदिति वर्त्तते । यथोक्तम् 'तस्प होकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृश्यात्मक त्वात् सार्वरूपमनतिकान्तः, ततस्तद्भावत्वात्ततोऽभिन्नत्वात्तस्य य एकदेशस्तस्य प्रणे तस्यैव ग्रहणम्, देशखात्मवदिति उक्त भावप्रत्यक्षत्वम् , ततः सर्वप्रमाणज्येष्ठप्रत्यक्षप्रमाणसिद्धिरिहैव, यथार्थवस्तुवि-15 षयत्वात् । अन्यत्रानुमानतैव भावे-वस्तुपवादन्यत्र भेवपक्षेऽनुमानतैव प्रत्यक्षाभिमतस्यापि, कि कारणं ? सम्बन्धैकदेशप्रत्यक्षप्रत्ययशेषसिद्ध्यात्मकत्वात्-द्वयोः सम्बद्धयोः सम्बन्चे तदेकदेशप्रत्यक्षत्वे तत्प्रत्ययाच्छेषसिद्धिरात्मा--अनुमानस्येति तदात्मकं तत् । सम्बद्धैकदेश इति वा पाठः, यथोक्तम्-'सम्बद्वादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्', सम्बद्धानां भावानां स्वभावेन चेत्यादिना सप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति, तस्मादिदानीमिन्द्रियप्रत्यक्षात शेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं 20
एवासौ भावो ध्रुवादिलक्षणो नित्य इत्याह-स भाव इति । एते ध्रुवादिलक्षणा धर्माः भावस्यैव सम्भवन्ति, न तु परपरिकल्पितेषु भेदेषु, अत एते परपरिकल्पितमेदेष्वसम्भविनो धर्माः अत एवमेव व्याख्याताः, भावसहएसाम्पस कस्याप्यभावात् यथा स ध्रुवादिलक्षणस्तथाऽयं भावोऽपीति वक्तुमशक्यत्वादत आह-अत्र भावे इति । खरूपतो निदर्शनाभावे हेतुं सूचयति-उक्तवदिति, पूर्वोत्तरयोरभावादेषोत्पत्तिविनाशौ म स्वः, तत एव घस्तुप्रकिभागोऽपि न, तस्मात् पूर्वोत्तरोत्पतिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभकं प्रविभज्यते प्रविभक्ष्यते स्युक-25 त्वान्नास्ति तत्समः कोऽपि भावोऽत एवायमेव ध्रुवादिधर्मा सर्वात्मकचेति भावः। अथाभिमभावेऽसीक्रियमाणे सस्लेव प्रत्यक्ष प्रमाणतामञ्चति, प्रत्यक्षस्य निर्विभागवस्तुग्राहकस्वात् अर्थस्य निर्विभागत्वात्तस्य यथावस्तु विषयकरवम् । वस्सुनो मेदात्मकतायान्तु तस्यानुमानविषयत्वमेव, पुरोवर्तिभागमहणेऽपरेषामनुमानविषयत्वात् , सम्बद्ध कदेशज्ञानादपरसम्बद्धप्रहगात्मकरवादनुमानस्येत्याह-अयेति । उक्तवदित्यकमेव प्रकाशयति-यथोक्तमिति. पूर्वमनुपदमेवोक्तमित्यर्थः । वस्तुपक्ष:-अभिन्नवस्तुपक्ष इत्यर्थः । सम्बन्धैकदेशेति, सम्बन्धिनो योरवयवयोरवयवावयविनोर्वा यः सम्बन्ध: 30 संयोगस्तादात्म्यं वा तस्य य एकदेश एकावयवस्तस्य प्रत्ययात् प्रत्यक्षात् शेषस्यापरस्यावयवस्यावयविनो वा या सिद्धिनिर्णयः परिच्छेदो यो भवता प्रत्यक्षस्यास्मेति मन्यते सोऽनुमानस्यैवात्मेत्यर्थः । सम्बद्धानां 'भावानामिति, अविनाभावज्ञापकसम्बन्धेन स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरत्वलक्षणेन सम्बद्धानां मध्ये कस्यचिदर्थस केनचिदिन्द्रियेण
द्वा० न० ३८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org