________________
तोऽवतिष्ठते । याश्च संशोधनाभावतोऽतीवाशुद्धिमय्यो भाण्डागारेषु पुस्तकसंख्यामात्रपूरकतया वर्तन्ते । अस्मादेव हेतोरिदं मन्थरत्नमपूर्वमद्ययावन्न केनापि प्रकाशतामुपनीतम् ।
अत एव पञ्चालदेशात् प्रतिनिवृत्तेन मया संसेव्यमानचरणनलिनरस्मदीयैर्गुरुवर्यैः स्तम्भपुर्या (खम्भात) वैक्रमे १९७२ तमे वर्षे चातुर्मासमवस्थितैः श्रीमद्विजयकमलसूरीश्वरैः येनेदं ग्रन्थरत्नं महदशुद्धकलेवरतयोपलभ्यमानं सम्यक् संशोध्य प्रकाशतामुपनीयते तेनावश्यं जगति महती पुण्यश्लोकताऽधिगम्यत इत्यभिधायाहं तत्कर्मणि प्रयतितुं प्रेरितोऽपि विषयान्तरव्यासङ्गतस्तदानीं कार्येऽस्मिन् गुरुतरेऽत्यावश्यकेऽपि चेतःस्थिरीकत्तुं न पारयामि स्म । यदा च मुम्बापुर्यां (मुम्बई) वैक्रमयोः २००१-२००२ तमयोर्वर्षयोश्चतुर्मासार्था स्थितिरासीत्तदा मदन्तेवासिना मुनिश्रीविक्रमविजयेन भगवच्छान्तिनाथदेवालयभाण्डागारादागृह्य द्वादशारनयचक्रस्य हस्तलिखितां प्रतिमेकामतिविनयतोऽस्य समीकरणायाभ्यर्थितोऽनुस्मृतगुरुदेवप्रेरणो व्युत्तरद्विसहस्रतमे वर्षे वैक्रमे कार्तिकसितदशम्यां यथामति तत्समीकरणकर्मोपारभम् ।
एतस्य संशोधनकर्मणि साक्षिभूततयाऽऽगृहीताः प्रतयः(१) मुम्बापुर्या भगवच्छान्तिनाथदेवालयभाण्डागारादानीता सम्पूर्णा प्रतिः । (२) पत्तनस्थश्रीमद्विजयकमलसूरीश्वरज्ञानभाण्डागारात् समुपगताऽसम्पूर्णा स्फुटाक्षरा प्रतिः । (३) राजनगराधिष्ठितश्रीमद्विजयमेघसूरिभाण्डागारस्था पूज्यपादश्रीमद्विजयसिद्धिसूरीश्वराणां
कृपया समधिगता स्पष्टाक्षरा सम्पूर्णा प्रतिः । (४) मरुदेशमध्यगतबेडाभिधग्रामस्थश्रीमतक्षमाभद्रसूरिभाण्डागारगता श्रेष्ठिपूनमचन्द्रद्वारेण समु
पलब्धा संपूर्णा प्रतिः ।
प्रायः एताश्चतस्रोऽपि प्रतय एकयैव प्रत्याऽवतारिता इव समानाऽशुद्धिभाजः काश्चित् कचित परिस्खलितकतिपयपतयः समुपलभ्यन्ते । समवलोक्यताः प्रतयः पदे पदे अशुद्धिभूयिष्ठा मूलव्याख्याविवेक विधुरा अन्तरेण मूलस्य पृथक्करणं यथोपलम्भं संशोध्य प्रकाशितोऽयं ग्रन्थो नातीवोपकारक इति मन्वानस्ते पृथक्कर्तुमाकृतिसाजात्येनाक्षराणां वैपरीत्यसम्भवं प्रचलितप्रकरणादिकञ्च मीमांसमानः संशोधनायोदयुजि ।
यथा-'अत्र क्रमः, संशयहेतुनेत्येतच्च नाष्टकर्तृक, तेन किल भूतय इति, घटादिरभवनस्तस्याभवनस्य भेदस्यासत्त्वमेव, तदभावो भावाभावश्चाघटः' इत्यादिस्थलेषु 'अत्र ब्रूमः, संशयहेतुतेत्येतच्च न अदृष्टकर्तृक, तेन किल भूयत इति, घटादिरभवनस्तस्य भवनाद्भेदेऽसत्त्वमेव, तदभावोऽघटस्तस्य भावः, इत्येवं तथा 'किश्चिदन्यत्वं नामेति, वाच्यपि च दोषः, अथ तु तद्बुद्धयासन्नमेव ग्रहीष्यते सामान्यविशेषयोरिति, अनिवृत्तिकतरकायत्वादित्यादि, अनत्वान्नात्वानिति,' इत्यादिस्थलेषु 'किञ्चिदन्यत्स्वं नामेति, चाव्यापित्वदोषः, अथ तु तबुद्ध्यासन्नावेव ग्रहीष्येते सामान्यविशेषाविति, अनवधृतैकतरकार्यत्वादिल्यादि, अनडानानडानिति' इत्येवं संशोधितम् । एवं पुनः पुनर्विचारतः प्रथमपदप्रतीकाद्यन्तपदप्रतीकसमासपर्यायानुवृत्तिशेषपूरणादिदर्शनेन यथासम्भवं सहेतुकं मूलं पृथक् कृतम् । यथा, अपि च लौकिकव्यवहारोऽपीत्यादि यावयामोहोपनिबन्धनमिति,'
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org