________________
उपोद्धातः
इह जगति सर्वो हि लोको दुःखद्वेषी सुखाभिलाषी च स्वभावतो दरीदृश्यते । तच्च सुखं पौद्गलिक पारमार्थिकञ्चेति द्विप्रभेदम् , पोद्गलिकं सर्व दुःखानुषङ्गि क्लेशबहुलसाध्यमल्पकालञ्च, अत एव लौकिकोपायनिर्वयं तत्पुनरुपलभ्यापि दुःखदावानलज्वालाकलापकवलितत्वेन लौकिकोपायप्रवृत्तिपरावृत्ता निवृत्तिवृत्तयो जना आत्मनः पारमार्थिकमव्याबाधमनन्तकालं सुखमेव परमं पुरुषार्थ मन्वानास्तदधिगमाय तद्विरोधिदुःखप्रहाणाय च तदुपायमपायरहितं कामयमाना बहुशो यतमानाः समुपलभ्यन्ते ।।
तेषामभिलषितपरिपूरणाय समर्थतरं साधनमुपदिश्यमानं लोकपावकपदाम्बुजस्य भगवतोऽहतो वचनामृतमेव परमं शरणमिति नास्ति विशयलेशो विवेचकशेमुषीणां मनीषिणाम् । तेषु साधनेषु सम्यग्दर्शनज्ञानचारित्राख्येषु तत्त्वार्थश्रद्धानलक्षणमाद्यमितरद्वयप्राप्तिहेतुत्वात् प्रधानं साधनम् , तच्च भगवदुदीरितजीवादितत्त्वाधिगमसम्पाद्यम् , तदधिगमोऽपि प्रमाणनयाभ्याम् , उक्तं हि 'प्रमाणनयैरधिगमः' (तत्त्वार्थ० अ०१ सूत्र ६) तत्र वस्तुनोऽनन्तधर्माsत्मकतया ग्राहकाणि मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च प्रमाणानि, अनन्तधर्मात्मकवस्त्वेकदेशग्राहिणश्च नया अनन्ताः, वचनपथतुल्यसंख्यत्वानयानाम् , उक्तश्च 'जावइया वयणपहा तावइया चेव हुंति णयवाया। जावइया णयवाया तावइया चेव परसमया ॥' (सम्मति० कां० ३ गा० ४७) इति, तेषाश्च वस्तुनो धर्मधर्मिरूपतया तदाश्रयेण द्रव्यार्थपर्यायार्थभेदद्वयेन निश्चयव्यवहारविषयत्वेन निश्चयव्यवहारमेदद्वयेन वाच्यवाचकरूपतयाऽर्थशब्दमेदद्वयेन वा समासतो विभागो भगवता प्रदर्शितः । तथा तदुपष्टम्भसामान्यविशेषापेक्षयैव शुद्ध्यशुद्धिलक्षणविशेषाश्रयेण सङ्ग्रहव्यवहारनैगमर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदेन सप्तधा वा विधिनियमतदुभयाश्रयप्रकारभेदेन द्वादशभङ्गतया द्वादशधा वा सङ्ग्रहो विहितः । एवं रूपेणैषां द्वादशधा सङ्ग्रहकर्तारः कलिकालसर्वज्ञैः श्रीमद्भिः सूरीश्वरैर्हेमचन्द्राचार्यैरनुमल्लादिनं तार्किका इति सुगीयमाननामधेयास्तार्किकगोष्ठीवरिष्ठाः श्रीमदाचार्यमल्लवादिसूरीश्वराः पूज्यपादाः येषां विशिष्टप्रतिभाप्रागल्भ्यं तदुपनिबद्धाभिनवप्रकाश्यमानद्वादशारनयचक्राख्यग्रन्थविलोकनत एव कुशाग्रधिषणैः सुस्पष्टमवगमिष्यत एवेति नात्र विशेषतो वक्तव्यमस्ति किञ्चित् ।
सोऽयं ग्रन्थोऽनेकदार्शनिकाभिमततत्त्वयाथार्थ्यविवेचनधाराधाराधरोऽतिगहनतर्कनिकरपरिबृंहितोऽनेकान्ततत्त्वप्रतिष्ठापनपटिष्ठोऽतिक्लिष्टतरः समुचितव्याख्यातारमन्तरेणानधिगम्यमानाशेषयथार्थाभिप्रायस्तार्किकप्रबन्धसन्दोहेषु मूर्धाभिषिक्ततामाबिभर्ति ।
अस्य चैका व्याख्या न्यायानर्हदागमश्चानुसृत्य विहितत्वात् न्यायागमानुसारिणीतियथार्थनामधेया सिंहसूरिगणिक्षमाश्रमणैर्विरचिताऽतिसंक्षिप्ता समुपलभ्यते तत्र तत्र भाण्डागारेषु, यासु प्रतिषु 'इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिक्षमाश्रमणदृब्धायां समाप्तः' इति दृश्यते । यासु च ज्ञानविधुरलेखकलिखितप्रतिकृतिषु सर्वासु मूलग्रन्थोऽत्यन्तं दुरवगाहत्वेन साधुसमुदायेऽध्ययनाध्यापनपरम्परानुपातित्वाभावेन चास्मदीयदौर्भाग्यतो नाममात्रावशिष्टः केवलं व्याख्यारूप
द्वा० न० उपो.१
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org