________________
३
अत्र 'अपि च ' तथा 'इति' इतिपदद्वयं मूलकृत एवेति मदीयाभिप्रायः, दोषान्तराभिधानायापिचेति पदस्यावश्यकत्वात्, ‘शेषशासनविसंवदनजनितास्य' मित्यग्रिमग्रन्थ सम्बन्धकतया इतिशब्दस्यावश्यकत्वाच्च द्य अत्रापि चेतिपदमितिपदञ्च विहाय विचार्यमाणे प्रथमान्तिमभागौ अनुष्टुभः पादद्वयवत् प्रतीयेते, यत एष श्लोकः प्रवचनसारोद्धारटीकायां यथा 'लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ।' इति दृश्यते परन्तु पूर्वमूलेनास्य सङ्गतिकरणायापि चेतिपदं टीकाकर्त्तुरेवेत्यभ्युपगमेऽपि यस्मिन्निति यच्छब्दस्य पूर्वोपस्थितपरामर्शित्वेन पूर्वं 'तद्व्यतिरिक्तशासनिवचनानी'ति पदेनान्यशासनिवचनानामेवोपस्थिततया तेषामेकवचनान्तेन यस्मिन्निति पदेन परामर्शे उपक्रमभङ्ग मूलकृता काप्यग्रे वक्तव्यविषये श्लोक - रूपतयाऽनुक्तत्वेन तद्वचनशैलीं एकवचनगर्भमूलस्य टीकाकृता बहुवचनगर्भपदनिकरैरभिप्रायव्यावर्णनेऽन्यतरशैथिल्यप्रसङ्गश्च विभाव्य मूलमंत्र गद्यात्मकमेवेति सम्भाव्य तथैव प्रकाशितम् । उपलभ्यमानश्लोकेन च मूलस्यास्य केनापि कारिकारूपेण सङ्ग्रहः कृतः स्यादित्यनुमीयते ।
यद्यपि मया संशोधितान्यक्षराणि पदानि वा कौंशमध्ये प्रक्षिप्य ग्रन्थस्य प्रकाशनमभिनवसंशोधकदृष्ट्या समुचितं तथापि प्रतिपतिप्रभूतकुण्डलना वाचकानां चक्षुस्तोदकारिणीति न तथा विहितमिति सज्जनैरत्र क्षन्तव्यम् । सर्वत्र व्याख्याप्रारम्भे कुण्डलीकृतानि प्रतीकानि वाचकसौकर्याय मयैव स्थापितानीति विज्ञेयम् ।
तदेवं संशोधनेन मूलस्य च विवेकेन विध्यरं विधिविध्यरञ्च समीकृत्य सहृदयानां विदुषामत्र कर्मण्यभिप्रायविशेषपरिज्ञानाय परिकल्प्य च तावन्मात्रस्यैकभागत्वं प्रकाशतामुपनीतोऽयं ग्रन्थः । मूलव्याख्ययोश्च यं तात्पर्य विशेषमवबुद्ध्य संशोधनं विभजनञ्च मयाऽऽदृतं स एव मच्छिष्यशिष्यस्य मुनिश्रीभास्करविजयस्य प्रार्थनया विषमपदविवेचनाभिधानेन व्याख्यानेन प्रकटीकृतः । एवमपि मयाऽऽरचितं संशोधनं पृथगुपन्यस्तञ्च मूलं याथातथ्येनैवमेवेति न प्रतिज्ञायतेऽपि तु सम्भाव्यते, यतो हि दुरूहमिदं मन्थरत्नम्, न ह्यत्र तत्तदर्शन - विषयान् कांश्चन ग्रन्थविशेषानादर्शतया तत्तत्सिद्धान्त विषयव्यावर्णने परिगृह्य विवेचनाऽऽरचिता मूलकृता, अपि तु तेषां प्रधानं सिद्धान्तं प्रमाणभूतं वचनञ्च केवलमुपन्यस्य तदुपर्यनुपमनिजप्रतिभाविलासेन नानाविधविकल्पसमुद्भावनतः सुविशालमपूर्वं प्रतिविधानमुपनिबद्धम् । अस्य प्रज्ञाविशेषविलसितः कोऽपीतोऽपि यदि समुचिततरं सप्रमाणं संशोधनं विवेचनश्च विधातुमुपक्रमेत तहदमपि मदीयं संस्करणं तस्यावलम्बीभूय भगवच्छासनसमुन्नत्यै प्रभु भविष्यतीत्येवं मे दृढा मतिः ।
समग्रमपि मूलं प्रसन्नश्रुतदेवता नुशासनानुसारेण 'विधिनियमभङ्गवृत्ती' त्यादि प्राचीनवृत्तस्य भाष्य· रूपम् । 'व्याप्येकस्यमनन्तमन्तवदपीत्यादि प्रथमं वृत्तं शासनस्तवरूपं मङ्गलात्मकं भाष्यकृत एव, तत्र व्यावर्णितं शासनस्यान्यमता साधारणगुणत्वं विरोधधर्मसम्भवानया दुष्प्रतिपादमित्याशङ्कनस्य तथाविधप्रतिपाद्यसद्भावसूचनया परिहरणव्याजेन भाष्यमुपक्रान्तम् । तदेवान्यमता साधारणगुणत्वं शासनस्य जैनशासनव्यतिरिक्तशासनानां द्रव्यार्थपर्यायार्थावलम्बिद्वादश भङ्ग समाहारैकरूपत्वविरहादनर्थकत्रच सामिवानृतत्वं जैनशासनस्य च तद्वैधर्म्याद्वादशभङ्गसमाहारैकरूपत्वात् सार्थकवचस इव सत्यत्वमिति प्रतिपादनेन सेत्स्यतीति ' विधिनियमभङ्गवृत्ती त्या दिगाथासूत्रेण स्वकीयभाष्यमूलभूतेनाद्यवृत्तं सङ्गमयता भाष्यकृता गाथासूत्रव्याख्यानमारभमाणेन पृथक् पृथक् विध्यादिद्वादशवृत्तयो विवेचिताः,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org